१०. पियालफलदायकत्थेरअपदानवण्णना

परोधको तदा आसिन्तिआदिकं आयस्मतो पियालफलदायकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले नेसादकुले निब्बत्तो हिमवन्ते एकस्मिं पब्भारे मिगे वधित्वा जीविकं कप्पेत्वा वसति. तस्मिं काले तत्थ गतं सिखिं भगवन्तं दिस्वा पसन्नमानसो सायं पातं नमस्समानो कञ्चि देय्यधम्मं अपस्सन्तो मधुरानि पियालफलानि उच्चिनित्वा अदासि. भगवा तानि परिभुञ्जि. सो नेसादो बुद्धारम्मणाय पीतिया निरन्तरं फुट्ठसरीरो पापकम्मे विरत्तचित्तो मूलफलाहारो नचिरस्सेव कालं कत्वा देवलोके निब्बत्ति.

६६. सो तत्थ दिब्बसम्पत्तियो अनुभवित्वा मनुस्सेसु च अनेकविधसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे गहपतिकुले निब्बत्तो विञ्ञुतं पत्तो घरावासं सण्ठपेत्वा तत्थ अनभिरतो गेहं पहाय सत्थु सन्तिके पब्बजित्वा विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पत्तो अत्तनो कतफलदानकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो परोधको तदा आसिन्तिआदिमाह. तत्थ यदा अहं पियालफलं दत्वा चित्तं पसादेसिं, तदा अहं परोधको आसिन्ति सम्बन्धो. परोधकोति परसत्तरोधको विहेसको. ‘‘पररोधको’’ति वत्तब्बे पुब्बस्स र-कारस्स लोपं कत्वा ‘‘परोधको’’ति वुत्तं.

६९. परिचारिं विनायकन्ति तं निब्बानपापकं सत्थारं, ‘‘भन्ते, इमं फलं परिभुञ्जथा’’ति पवारिं निमन्तेसिं आराधेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.

पियालफलदायकत्थेरअपदानवण्णना समत्ता.

चुद्दसमवग्गवण्णना समत्ता.