६. चितकपूजकत्थेरअपदानवण्णना

वसामि राजायतनेतिआदिकं आयस्मतो चितकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो ततो परं उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले राजायतनरुक्खदेवता हुत्वा निब्बत्तो अन्तरन्तरा देवताहि सद्धिं धम्मं सुत्वा पसन्नो भगवति परिनिब्बुते सपरिवारो गन्धदीपधूपपुप्फभेरिआदीनि गाहापेत्वा भगवतो आळहनट्ठानं गन्त्वा दीपादीनि पूजेत्वा अनेकेहि तूरियेहि अनेकेहि वादितेहि तं पूजेसि. ततो पट्ठाय सकभवनं उपविट्ठोपि भगवन्तमेव सरित्वा सम्मुखा विय वन्दति. सो तेनेव पुञ्ञेन तेन चित्तप्पसादेन राजायतनतो कालं कतो तुसितादीसु निब्बत्तो दिब्बसम्पत्तिं अनुभवित्वा ततो मनुस्सेसु मनुस्ससम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो भगवति उप्पन्नचित्तप्पसादो भगवतो सासने पब्बजित्वा नचिरस्सेव अरहा अहोसि.

४९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो वसामि राजायतनेतिआदिमाह. राजायतनेति देवराजूनं आयतनं राजायतनं, तस्स रुक्खस्स नामधेय्यो वा. परिनिब्बुते भगवतीति परिसमन्ततो किञ्चि अनवसेसेत्वा खन्धपरिनिब्बानकाले परिनिब्बानसमये परिनिब्बानप्पत्तस्स सिखिनो लोकबन्धुनोति सम्बन्धो.

५०. चितकं अगमासहन्ति चन्दनागरुदेवदारुकप्पूरतक्कोलादिसुगन्धदारूहि चितं रासिगतन्ति चितं, चितमेव चितकं, बुद्धगारवेन चितकं पूजनत्थाय चितकस्स समीपं अहं अगमासिन्ति अत्थो. तत्थ गन्त्वा कतकिच्चं दस्सेन्तो तूरियं तत्थ वादेत्वातिआदिमाह. तं सब्बं सुविञ्ञेय्यमेवाति.

चितकपूजकत्थेरअपदानवण्णना समत्ता.