६. उदकपूजकत्थेरअपदानवण्णना
सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो उदकपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु पूरितकुसलसञ्चयो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि परिपूरियमानो पुदुमुत्तरस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय कुसलाकुसलं जानन्तो पदुमुत्तरस्स भगवतो आकासे गच्छतो निक्खन्तछब्बण्णबुद्धरंसीसु पसन्नो उभोहि हत्थेहि उदकं गहेत्वा पूजेसि. तेन पूजितं उदकं रजतबुब्बुलं विय आकासे अट्ठासि. सो अभिप्पसन्नो तेनेव सोमनस्सेन तुसितादीसु निब्बत्तो दिब्बसम्पत्तियो अनुभवित्वा अपरभागे मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि.
२९. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तमेव. घतासनंव जलितन्ति घतं वुच्चति सप्पि, घतस्स आसनं आधारन्ति घतासनं, अग्गि, अथ वा तं असति भुञ्जतीति घतासनं, अग्गियेव. यथा घते आसित्ते अग्गिम्हि अग्गिसिखा अतीव जलति, एवं अग्गिक्खन्धं इव जलमानं भगवन्तन्ति अत्थो. आदित्तंव हुतासनन्ति हुतं वुच्चति पूजासक्कारे, हुतस्स पूजासक्कारस्स आसनन्ति हुतासनं, जलमानं सूरियं इव द्वत्तिंसमहापुरिसलक्खणेहि ब्यामप्पभामण्डलेहि विज्जोतमानं सुवण्णवण्णं सम्बुद्धं अनिलञ्जसे आकासे गच्छन्तं अद्दसन्ति सम्बन्धो. सेसं सब्बत्थ उत्तानमेवाति.
उदकपूजकत्थेरअपदानवण्णना समत्ता.