१०. रेणुपूजकत्थेरअपदानवण्णना

सुवण्णवण्णं सम्बुद्धन्तिआदिकं आयस्मतो रेणुपूजकत्थेरस्स अपदानं. अयम्पि पुरिमजिनवरेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो विञ्ञुतं पत्तो अग्गिक्खन्धं विय विज्जोतमानं भगवन्तं दिस्वा पसन्नमानसो नागपुप्फकेसरं गहेत्वा पूजेसि. अथ भगवा अनुमोदनमकासि.

६२-३. सो तेन पुञ्ञेन ततो चुतो देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा उप्पन्नुप्पन्नभवे सब्बत्थ पूजितो इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो विञ्ञुतं पत्तो पुब्बवासनाबलेन सत्थरि पसन्नो सासने पब्बजितो नचिरस्सेव अरहा हुत्वा दिब्बचक्खुना अत्तनो पुब्बकम्मं दिस्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो सुवण्णवण्णं सम्बुद्धन्तिआदिमाह. तं हेट्ठा वुत्तत्थमेव. सतरंसिंव भाणुमन्ति सतमत्ता सतप्पमाणा रंसि पभा यस्स सूरियस्स सो सतरंसि, गाथाबन्धसुखत्थं सतरंसीति वुत्तं, अनेकसतस्स अनेकसतसहस्सरंसीति अत्थो. भाणु वुच्चति पभा, भाणु पभा यस्स सो भाणुमा, भाणुमसङ्खातं सूरियं इव विपस्सिं भगवन्तं दिस्वा सकेसरं नागपुप्फं गहेत्वा अभिरोपयिं पूजेसिन्ति अत्थो. सेसं उत्तानमेवाति.

रेणुपूजकत्थेरअपदानवण्णना समत्ता.

एकादसमवग्गवण्णना समत्ता.