३. अड्ढचेळकत्थेरअपदानवण्णना
तिस्सस्साहं भगवतोतिआदिकं आयस्मतो अड्ढचेळकत्थेरस्स अपदानं. अयम्पि थेरो पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकेनाकुसलेन कम्मेन दुग्गतकुलगेहे निब्बत्तो वुद्धिमन्वाय सद्धम्मदेसनं ञत्वा पसन्नमानसो चीवरत्थाय अड्ढभागं एकं दुस्समदासि. सो तेनेव पीतिसोमनस्सेन कालं कत्वा सग्गे निब्बत्तो छ कामावचरसम्पत्तिमनुभवित्वा ततो चुतो मनुस्सेसु मनुस्ससम्पत्तीनं अग्गभूतं चक्कवत्तिसम्पत्तिं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं अद्धकुले निब्बत्तो वुद्धिप्पत्तो सत्थु धम्मदेसनं सुत्वा पसन्नमानसो पब्बजित्वा नचिरस्सेव अरहा अहोसि.
१४. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो तिस्सस्साहं भगवतोतिआदिमाह. तं सब्बं उत्तानत्थमेवाति.
अड्ढचेळकत्थेरअपदानवण्णना समत्ता.