१०. बुद्धुपट्ठाकत्थेरअपदानवण्णना
विपस्सिस्स भगवतोतिआदिकं आयस्मतो बुद्धुपट्ठाकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो विपस्सिस्स भगवतो काले सङ्खधमककुले निब्बत्तो वुद्धिमन्वाय अत्तनो सिप्पे सङ्खधमने छेको अहोसि, निच्चकालं भगवतो सङ्खं धमेत्वा सङ्खसद्देनेव पूजेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो सब्बत्थ पाकटो महाघोसो महानादी मधुरस्सरो अहोसि, इमस्मिं बुद्धुप्पादे एकस्मिं पाकटकुले निब्बत्तो वुद्धिप्पत्तो मधुरस्सरोति पाकटो, सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि, अपरभागे मधुरस्सरत्थेरोति पाकटो.
५१. सो एकदिवसं अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो विपस्सिस्स भगवतोतिआदिमाह. तं हेट्ठा वुत्तमेव. अहोसिं सङ्खधमकोति सं सुट्ठु खनन्तो गच्छतीति सङ्खो, समुद्दजलपरियन्ते चरमानो गच्छति विचरतीति अत्थो. तं सङ्खं धमति घोसं करोतीति सङ्खधमको, सोहं सङ्खधमकोव अहोसिन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
बुद्धुपट्ठाकत्थेरअपदानवण्णना समत्ता.
दसमवग्गवण्णना समत्ता.