३-३. महाकस्सपत्थेरअपदानवण्णना

पदुमुत्तरस्स भगवतोत्यादिकं आयस्मतो महाकस्सपत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञसम्भारानि उपचिनन्तो पदुमुत्तरभगवतो काले हंसवतीनगरे वेदेहो नाम असीतिकोटिविभवो कुटुम्बिको अहोसि. सो बुद्धमामको, धम्ममामको, सङ्घमामको, उपासको हुत्वा विहरन्तो एकस्मिं उपोसथदिवसे पातोव सुभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय गन्धपुप्फादीनि गहेत्वा विहारं गन्त्वा सत्थारं पूजेत्वा वन्दित्वा एकमन्तं निसीदि.

तस्मिञ्च खणे सत्था महानिसभत्थेरं नाम ततियसावकं ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं निसभो’’ति एतदग्गे ठपेसि. उपासको तं सुत्वा पसन्नो धम्मकथावसाने महाजने उट्ठाय गते सत्थारं वन्दित्वा ‘‘स्वे, भन्ते, मय्हं भिक्खं अधिवासेथा’’ति निमन्तेसि. ‘‘महा खो, उपासक, भिक्खुसङ्घो’’ति. ‘‘कित्तको, भन्ते’’ति? ‘‘अट्ठसट्ठिभिक्खुसतसहस्स’’न्ति. ‘‘भन्ते, एकं सामणेरम्पि विहारे असेसेत्वा मय्हं भिक्खं गण्हथा’’ति. सत्था अधिवासेसि. उपासको सत्थु अधिवासनं ञत्वा गेहं गन्त्वा महादानं सज्जेत्वा पुनदिवसे सत्थु कालं आरोचापेसि. सत्था पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो उपासकस्स घरं गन्त्वा पञ्ञत्तासने निसिन्नो दक्खिणोदकावसाने यागुआदीनि सम्पटिच्छन्तो भत्तविस्सग्गं अकासि. उपासकोपि सत्थु सन्तिके निसीदि.

तस्मिं अन्तरे महानिसभत्थेरो पिण्डाय चरन्तो तमेव वीथिं पटिपज्जि. उपासको दिस्वा उट्ठाय गन्त्वा थेरं वन्दित्वा ‘‘पत्तं, भन्ते, देथा’’ति आह. थेरो पत्तं अदासि. ‘‘भन्ते, इधेव पविसथ, सत्थापि गेहे निसिन्नो’’ति. ‘‘न वट्टिस्सति, उपासका’’ति. सो थेरस्स पत्तं गहेत्वा पिण्डपातस्स पूरेत्वा अदासि. ततो थेरं अनुगन्त्वा निवत्तो सत्थु सन्तिके निसीदित्वा एवमाह – ‘‘महानिसभत्थेरो, भन्ते, ‘सत्थापि गेहे निसिन्नो’ति वुत्तेपि पविसितुं न इच्छि. अत्थि नु खो एतस्स तुम्हाकं गुणेहि अतिरेकगुणो’’ति? बुद्धानञ्च वण्णमच्छेरं नाम नत्थि, तस्मा सत्था एवमाह – ‘‘उपासक, मयं भिक्खं आगमयमाना गेहे निसीदाम, सो भिक्खु न एवं निसीदित्वा भिक्खं उदिक्खति. मयं गामन्तसेनासने वसाम, सो अरञ्ञेयेव वसति. मयं छन्ने वसाम, सो अब्भोकासेयेव वसती’’ति भगवा ‘‘अयञ्च अयञ्चेतस्स गुणो’’ति महासमुद्दं पूरयमानो विय तस्स गुणं कथेसि.

उपासकोपि पकतिया जलमानदीपो तेलेन आसित्तो विय सुट्ठुतरं पसन्नो हुत्वा चिन्तेसि – ‘‘किं मय्हं अञ्ञाय सम्पत्तिया, यंनूनाहं अनागते एकस्स बुद्धस्स सन्तिके धुतवादानं अग्गभावत्थाय पत्थनं करिस्सामी’’ति. सो पुनपि सत्थारं निमन्तेत्वा तेनेव नियामेन सत्त दिवसे महादानं दत्वा सत्तमे दिवसे बुद्धप्पमुखस्स महाभिक्खुसङ्घस्स तिचीवरानि दत्वा सत्थु पादमूले निपज्जित्वा एवमाह – ‘‘यं मे, भन्ते, सत्त दिवसे दानं देन्तस्स मेत्तं कायकम्मं मेत्तं वचीकम्मं मेत्तं मनोकम्मं पच्चुपट्ठितं, इमिनाहं न अञ्ञं देवसम्पत्तिं वा सक्कमारब्रह्मसम्पत्तिं वा पत्थेमि, इदं पन मे कम्मं अनागते एकस्स बुद्धस्स सन्तिके महानिसभत्थेरेन पत्तट्ठानन्तरं पापुणनत्थाय तेरसधुतङ्गधरानं अग्गभावस्स अधिकारो होतू’’ति. सत्था ‘‘महन्तं ठानं इमिना पत्थितं, समिज्झिस्सति नु खो, नो’’ति ओलोकेन्तो समिज्झनभावं दिस्वा आह – ‘‘मनापं ते ठानं पत्थितं, अनागते सतसहस्सकप्पावसाने गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स त्वं ततियसावको महाकस्सपत्थेरो नाम भविस्ससी’’ति ब्याकासि. तं सुत्वा उपासको ‘‘बुद्धानं द्वे कथा नाम नत्थी’’ति पुनदिवसे पत्तब्बं विय तं सम्पत्तिं अमञ्ञित्थ. सो यावतायुकं दानं दत्वा सीलं समादाय रक्खित्वा नानप्पकारं पुञ्ञकम्मं कत्वा कालंकत्वा सग्गे निब्बत्ति.

ततो पट्ठाय देवमनुस्सेसु सम्पत्तिं अनुभवन्तो इतो एकनवुतिकप्पे विपस्सिसम्मासम्बुद्धे बन्धुमतीनगरं उपनिस्साय खेमे मिगदाये विहरन्ते देवलोका चवित्वा अञ्ञतरस्मिं परिजिण्णब्राह्मणकुले निब्बत्ति. तस्मिञ्च काले विपस्सी भगवा सत्तमे संवच्छरे धम्मं कथेसि, महन्तं कोलाहलं अहोसि. सकलजम्बुदीपे देवता ‘‘सत्था धम्मं कथेस्सती’’ति आरोचेसुं. ब्राह्मणो तं सासनं अस्सोसि. तस्स निवासनसाटको एकोयेव, तथा ब्राह्मणिया. पारुपनं पन द्विन्नम्पि एकमेव. सो सकलनगरे ‘‘एकसाटकब्राह्मणो’’ति पञ्ञायि. सो ब्राह्मणो केनचिदेव किच्चेन ब्राह्मणानं सन्निपाते सति ब्राह्मणिं गेहे ठपेत्वा सयं तं वत्थं पारुपित्वा गच्छति, ब्राह्मणीनं सन्निपाते सति सयं गेहे अच्छति, ब्राह्मणी तं वत्थं पारुपित्वा गच्छति. तस्मिं पन दिवसे सो ब्राह्मणिं आह – ‘‘भोति, किं त्वं रत्तिं धम्मं सुणिस्ससि, उदाहु दिवा’’ति? ‘‘सामि, अहं मातुगामो भीरुकजातिका रत्तिं सोतुं न सक्कोमि, दिवा सोस्सामी’’ति तं ब्राह्मणं गेहे ठपेत्वा तं वत्थं पारुपित्वा उपासिकाहि सद्धिं विहारं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसिन्ना धम्मं सुत्वा उपासिकाहि सद्धिं अगमासि. अथ ब्राह्मणो तं गेहे ठपेत्वा तं वत्थं पारुपित्वा विहारं गतो.

तस्मिञ्च समये सत्था परिसमज्झे अलङ्कतधम्मासने निसिन्नो चित्तबीजनिं गहेत्वा आकासगङ्गं ओतारेन्तो विय सिनेरुं मन्थं कत्वा सागरं निम्मन्थेन्तो विय च धम्मकथं कथेसि. ब्राह्मणस्स परिसपरियन्तेन निसिन्नस्स धम्मं सुणन्तस्स पठमयामेयेव सकलसरीरं पूरयमाना पञ्चवण्णा पीति उप्पज्जि. सो पारुतवत्थं सङ्घरित्वा ‘‘दसबलस्स दस्सामी’’ति चिन्तेसि. अथस्स आदीनवसहस्सं दस्सयमानं मच्छेरं उप्पज्जि. सो ‘‘ब्राह्मणिया तुय्हञ्च एकमेव वत्थं, अञ्ञं किञ्चि पारुपनं नाम नत्थि, अपारुपित्वा बहि विचरितुं न सक्कोमी’’ति सब्बथापि अदातुकामो अहोसि. अथस्स निक्खन्ते पठमे मज्झिमयामेति तथेव पीति उप्पज्जि. सो तथेव चिन्तेत्वा तथेव अदातुकामो अहोसि. अथस्स मज्झिमे यामे निक्खन्ते पच्छिमयामेपि तथेव पीति उप्पज्जि. तदा सो मच्छेरं जिनित्वा वत्थं सङ्घरित्वा सत्थु पादमूले ठपेसि. ततो वामहत्थं आभुजित्वा दक्खिणेन हत्थेन अप्फोटेत्वा ‘‘जितं मे, जितं मे’’ति तिक्खत्तुं नदि.

तस्मिं समये बन्धुमा राजा धम्मासनस्स पच्छतो अन्तोसाणियं निसिन्नो धम्मं सुणाति. रञ्ञो च नाम ‘‘जितं मे’’ति सद्दो अमनापो होति. राजा पुरिसं आणापेसि ‘‘गच्छ, भणे, एतं पुच्छ – ‘किं सो वदती’’’ति? ब्राह्मणो तेनागन्त्वा पुच्छितो ‘‘अवसेसा हत्थियानादीनि आरुय्ह असिचम्मादीनि गहेत्वा परसेनं जिनन्ति, न तं अच्छरियं. अहं पन पच्छतो आगच्छन्तस्स कूटगोणस्स मुग्गरेन सीसं भिन्दित्वा तं पलापेन्तो विय मच्छेरचित्तं जिनित्वा पारुतवत्थं दसबलस्स अदासिं, तं मे जितं मच्छेरं अच्छरिय’’न्ति आह. सो आगन्त्वा तं पवत्तिं रञ्ञो आरोचेसि. राजा ‘‘अम्हे, भणे, दसबलस्स अनुरूपं न जानाम, ब्राह्मणो जानाती’’ति तस्स पसीदित्वा वत्थयुगं पेसेसि. तं दिस्वा ब्राह्मणो चिन्तेसि – ‘‘राजा मय्हं तुण्ही निसिन्नस्स पठमं किञ्चि अदत्वा सत्थु गुणे कथेन्तस्स अदासि, सत्थु गुणे पटिच्च इदं उप्पन्नं, सत्थुयेव अनुच्छविक’’न्ति तम्पि वत्थयुगं दसबलस्स अदासि. राजा ‘‘किं ब्राह्मणेन कत’’न्ति पुच्छित्वा ‘‘तम्पि तेन वत्थयुगं तथागतस्सेव दिन्न’’न्ति सुत्वा अञ्ञानिपि द्वे वत्थयुगानि पेसेसि, सो तानिपि सत्थु अदासि. पुन राजा ‘अञ्ञानिपि चत्तारी’ति एवं वत्वा याव एवं द्वत्तिंस वत्थयुगानि पेसेसि. अथ ब्राह्मणो ‘‘इदं वड्ढेत्वा वड्ढेत्वा गहणं विय होती’’ति अत्तनो अत्थाय एकं, ब्राह्मणिया एकन्ति द्वे वत्थयुगानि गहेत्वा, तिंस युगानि तथागतस्सेव अदासि. ततो पट्ठाय च सो सत्थु विस्सासिको जातो.

अथ तं राजा एकदिवसं सीतसमये सत्थु सन्तिके धम्मं सुणन्तं दिस्वा सतसहस्सग्घनकं अत्तनो पारुतं रत्तकम्बलं दत्वा आह – ‘‘इतो पट्ठाय इमं पारुपित्वा धम्मं सुणाही’’ति. सो ‘‘किं मे इमिना कम्बलेन इमस्मिं पूतिकाये उपनीतेना’’ति चिन्तेत्वा अन्तोगन्धकुटियं तथागतस्स मञ्चस्स उपरि वितानं कत्वा अगमासि. अथेकदिवसं राजा पातोव विहारं गन्त्वा अन्तोगन्धकुटियं सत्थु सन्तिके निसीदि. तस्मिं खणे छब्बण्णा बुद्धरस्मियो कम्बले पटिहञ्ञन्ति, कम्बलो अतिविय विरोचित्थ. राजा उल्लोकेन्तो सञ्जानित्वा आह – ‘‘अम्हाकं, भन्ते, एस कम्बलो, अम्हेहि एकसाटकब्राह्मणस्स दिन्नो’’ति. ‘‘तुम्हेहि, महाराज, ब्राह्मणो पूजितो, ब्राह्मणेन मयं पूजिता’’ति. राजा ‘‘ब्राह्मणो युत्तं अञ्ञासि, न मय’’न्ति पसीदित्वा यं मनुस्सानं उपकारभूतं, तं सब्बं अट्ठट्ठकं कत्वा सब्बट्ठकं नाम दानं दत्वा पुरोहितट्ठाने ठपेसि. सोपि ‘‘अट्ठट्ठकं नाम चतुसट्ठि होती’’ति चतुसट्ठिसलाकभत्तानि उपट्ठपेत्वा यावजीवं दानं दत्वा सीलं रक्खित्वा ततो चुतो सग्गे निब्बत्ति.

पुन ततो चुतो इमस्मिं कप्पे भगवतो कोणागमनस्स भगवतो कस्सपस्स चाति द्विन्नं अन्तरे बाराणसियं कुटुम्बियकुले निब्बत्तो. सो वड्ढिमन्वाय घरावासं वसन्तो एकदिवसं अरञ्ञे जङ्घविहारं विचरति. तस्मिञ्च समये पच्चेकबुद्धो नदीतीरे चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते सङ्घरित्वा ठपेतुमारद्धो. सो तं दिस्वा ‘‘कस्मा, भन्ते, सङ्घरित्वा ठपेथा’’ति आह. ‘‘अनुवातो नप्पहोती’’ति. ‘‘इमिना, भन्ते, करोथा’’ति उत्तरिसाटकं दत्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे काचि हानि मा होतू’’ति पत्थनं अकासि.

घरेपिस्स भगिनिया सद्धिं भरियाय कलहं करोन्तिया पच्चेकबुद्धो पिण्डाय पाविसि. अथस्स भगिनी पच्चेकबुद्धस्स पिण्डपातं दत्वा तस्स भरियं सन्धाय – ‘‘एवरूपं बालं योजनसते परिवज्जेय्य’’न्ति पत्थनं ठपेसि. सा गेहङ्गणे ठिता सुत्वा ‘‘इमाय दिन्नभत्तं एस मा भुञ्जतू’’ति पत्तं गहेत्वा भत्तं छड्डेत्वा कललस्स पूरेत्वा अदासि. इतरा दिस्वा ‘‘बाले, मं ताव अक्कोस वा पहर वा, एवरूपस्स पन द्वे असङ्ख्येय्यानि पूरितपारमिस्स पच्चेकबुद्धस्स पत्ततो भत्तं छड्डेत्वा कललं दातुं न युत्त’’न्ति आह. अथस्स भरियाय पटिसङ्खानं उप्पज्जि. सा ‘‘तिट्ठथ, भन्ते’’ति कललं छड्डेत्वा पत्तं धोवित्वा गन्धचुण्णेन उब्बट्टेत्वा पणीतभत्तस्स चतुमधुरस्स च पूरेत्वा उपरि आसित्तेन पदुमगब्भवण्णेन सप्पिना विज्जोतमानं पत्तं पच्चेकबुद्धस्स हत्थे ठपेत्वा ‘‘यथा अयं पिण्डपातो ओभासजातो, एवं ओभासजातं मे सरीरं होतू’’ति पत्थनं अकासि. पच्चेकबुद्धो अनुमोदित्वा आकासं पक्खन्दि. तेपि द्वे जायम्पतिका यावतायुकं ठत्वा ततो चुता सग्गे निब्बत्तिंसु. पुन ततो चवित्वा उपासको कस्सपसम्मासम्बुद्धकाले बाराणसियं असीतिकोटिविभवसम्पन्ने कुले निब्बत्ति, इतरापि तादिसस्सेव सेट्ठिनो धीता हुत्वा निब्बत्ति, तस्स वयप्पत्तस्स तमेव सेट्ठिधीतरं आनयिंसु. तस्सा पुब्बे अनिट्ठविपाकस्स पापकम्मस्स आनुभावेन पतिकुलं पविट्ठमत्ताय उम्मारन्तरतो पट्ठाय सकलं गेहं उग्घाटितवच्चकूपो विय दुग्गन्धं जातं. कुमारो ‘‘कस्सायं गन्धो’’ति पुच्छित्वा ‘‘सेट्ठिकञ्ञाया’’ति सुत्वा ‘‘नीहरथ न’’न्ति तस्सायेव कुलघरं पेसेसि. सा तेनेव नीहारेन सत्तसु ठानेसु पटिनिवत्ति.

तेन समयेन कस्सपदसबलो परिनिब्बायि. तस्स सतसहसग्घनिकाहि सुवण्णिट्ठकाहि योजनुब्बेधं चेतियं आरभिंसु. तस्मिं चेतिये करियमाने सा सेट्ठिधीता चिन्तेसि – ‘‘अहं सत्तसु ठानेसु पटिनिवत्ता, किं मे जीवितेना’’ति अत्तनो आभरणभण्डं भञ्जापेत्वा सुवण्णिट्ठकं कारेसि रतनायतं विदत्थिवित्थिण्णं चतुरङ्गुलुब्बेधं. ततो हरितालमनोसिलापिण्डं गहेत्वा अट्ठ उप्पलपुप्फहत्थके आदाय चेतियकरणट्ठानं गता. तस्मिञ्च खणे एका इट्ठकापन्ति परिक्खिपित्वा आगच्छमाना घटनिट्ठकाय ऊना होति. सेट्ठिधीता वड्ढकिं आह ‘‘इमं मे इट्ठकं एत्थ ठपेथा’’ति. ‘‘अम्म भद्दके, काले आगतासि, सयमेव ठपेही’’ति. सा आरुय्ह तेलेन हरितालमनोसिलापिण्डं योजेत्वा तेन बन्धनेन इट्ठकं पतिट्ठपेत्वा उपरि अट्ठहि उप्पलपुप्फहत्थकेहि पूजं कत्वा वन्दित्वा ‘‘निब्बत्तनिब्बत्तट्ठाने मे कायतो चन्दनगन्धो वायतु, मुखतो उप्पलगन्धो’’ति पत्थनं कत्वा चेतियं वन्दित्वा पदक्खिणं कत्वा गेहं अगमासि.

तस्मिंयेव खणे सा यस्स सेट्ठिपुत्तस्स पठमं गेहं नीता, तस्स तं आरब्भ सति उदपादि. नगरेपि नक्खत्तं सङ्घुट्ठं होति. सो उपट्ठाके आह ‘‘इध आनीता सेट्ठिधीता कुहि’’न्ति? ‘‘कुलगेहे, सामी’’ति. ‘‘आनेथ नं, नक्खत्तं कीळिस्सामी’’ति. ते गन्त्वा तं वन्दित्वा ठिता. ‘‘किं, ताता, आगतत्था’’ति ताय पुट्ठा तस्सा तं पवत्तिं आचिक्खिंसु. ‘‘ताता, मया आभरणभण्डेहि चेतियं पूजितं, आभरणं मे नत्थी’’ति. ते गन्त्वा सेट्ठिपुत्तस्स आरोचेसुं. ‘‘आनेथ नं, पिळन्धनं लभिस्सती’’ति. ते तं आनयिंसु. तस्सा सह गेहपवेसनेन सकलगेहं चन्दनगन्धो चेव उप्पलगन्धो च वायि. सेट्ठिपुत्तो तं पुच्छि – ‘‘भद्दे, तव सरीरतो पठमं दुग्गन्धो वायि, इदानि पन ते सरीरतो चन्दनगन्धो, मुखतो उप्पलगन्धो वायति, किमेत’’न्ति? सा आदितो पट्ठाय अत्तना कतकम्मं आरोचेसि. सेट्ठिपुत्तो ‘‘निय्यानिकं वत बुद्धसासन’’न्ति पसीदित्वा योजनिकं सुवण्णचेतियं कम्बलकञ्चुकेन पटिच्छादेत्वा तत्थ तत्थ रथचक्कपमाणेहि सुवण्णपदुमेहि अलङ्करि. तेसं द्वादसहत्था ओलम्बका होन्ति.

सो तत्थ यावतायुकं ठत्वा ततो चुतो सग्गे निब्बत्तित्वा, पुन ततो चवित्वा बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं अमच्चकुले निब्बत्ति. भरिया पनस्स देवलोकतो चवित्वा राजकुले जेट्ठराजधीता हुत्वा निब्बत्ति. तेसु वयप्पत्तेसु कुमारस्स वसनगामे नक्खत्तं सङ्घुट्ठं. सो मातरं आह – ‘‘अम्म, साटकं मे देहि, नक्खत्तं कीळिस्सामी’’ति. सा धोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलमिद’’न्ति आह. सा अञ्ञं नीहरित्वा अदासि. सो तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘तेन हि लभनट्ठानं गच्छामि, अम्मा’’ति. ‘‘पुत्त, अहं अज्जेव तुय्हं बाराणसिनगररज्जपटिलाभं इच्छामी’’ति. सो मातरं वन्दित्वा ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. सो पन पुञ्ञनियामेन निक्खमित्वा बाराणसिं गन्त्वा उय्याने मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालङ्कतस्स सत्तमो दिवसो होति.

अमच्चा रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीताव अत्थि, पुत्तो नत्थि, अराजकं रज्जं नस्सिस्सति, को राजा भवितुं अरहती’’ति? ‘‘त्वं होहि, त्वं होही’’ति. पुरोहितो आह – ‘‘बहुं ओलोकेतुं न वट्टति, फुस्सरथं विस्सज्जेस्सामा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा पञ्चविधराजककुधभण्डं सेतच्छत्तञ्च तस्मिं ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुखो अगमासि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो गन्त्वा कुमारं पदक्खिणं कत्वा आरुहनसज्जो हुत्वा अट्ठासि. पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सपरित्तदीपवारेसु चतूसु महादीपेसु एस रज्जं कारेतुं युत्तो’’ति वत्वा ‘‘तूरियानि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेति.

अथ कुमारो मुखं विवरित्वा ओलोकेन्तो ‘‘केन कम्मेन आगतत्था’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘राजा वो कह’’न्ति? ‘‘देवत्तं गतो, सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति? ‘‘धीता अत्थि, देव, पुत्तो नत्थी’’ति. ‘‘तेन हि करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु. अथस्स कताभिसेकस्स सतसहस्सग्घनकं वत्थं उपनयिंसु. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं, देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सपरिभोगवत्थेसु इतो मुदुतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा’’ति ‘‘सुवण्णभिङ्गारं आहरथ, लभिस्सामि वत्थ’’न्ति सुवण्णभिङ्गारं आहरापेत्वा उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं गहेत्वा पुरत्थिमदिसायं अब्भुक्किरि. घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणपच्छिमउत्तरदिसायन्ति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठअट्ठकं कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो ‘मा सुत्तं कन्तिंसू’ति एवं भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं अभिरुय्ह महासम्पत्तिं अनुभवि.

एवं गच्छन्ते काले देवी रञ्ञो सम्पत्तिं दिस्वा ‘‘अहो वत तपस्सी’’ति कारुञ्ञाकारं दस्सेसि. ‘‘किमिदं, देवी’’ति पुट्ठा ‘‘अतिमहती, देव, ते सम्पत्ति, अतीते बुद्धानं सद्दहित्वा कतकल्याणस्स फलं, इदानि अनागतस्स पच्चयं पुञ्ञं न करोथा’’ति आह. कस्स दस्साम, सीलवन्तो नत्थीति. ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि; तुम्हे, देव, दानं सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. पुनदिवसे राजा पाचीनद्वारे दानं सज्जापेसि. देवी पातोव उपोसथङ्गानि अधिट्ठाय उपरिपासादे पुरत्थाभिमुखा उरेन निपज्जित्वा ‘‘सचे एतिस्साय दिसाय अरहन्तो अत्थि, स्वे आगन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति आह. तस्सं दिसायं अरहन्तो नाहेसुं, तं सक्कारं कपणयाचकानं अदंसु.

पुनदिवसे दक्खिणद्वारे सज्जेत्वा तथेव दक्खिणेय्यं नालत्थ, पुनदिवसेपि पच्छिमद्वारे तथेव. उत्तरद्वारे सज्जितदिवसेन पन देविया तथेव निमन्तेन्तिया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि – ‘‘मारिसा, नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा पुनदिवसे अनोतत्तदहे मुखं धोवित्वा आकासेनागन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा दिस्वा गन्त्वा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्ञो आरोचेसुं. राजा सद्धिं देविया गन्त्वा वन्दित्वा पच्चेकबुद्धे पासादं आरोपेत्वा तत्र नेसं दानं दत्वा भत्तकिच्चावसाने राजा सङ्घत्थेरस्स, देवी सङ्घनवकस्स पादमूले निपतित्वा ‘‘अय्या, भन्ते, पच्चयेहि न किलमिस्सन्ति, मयञ्च पुञ्ञेन न परिहायिस्सामी, अम्हाकं यावजीवं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने पञ्च पण्णसालासतानि, पञ्च चङ्कमनसतानीति सब्बाकारेन निवासनट्ठानानि सम्पादेत्वा तत्थ वसापेसुं.

एवं काले गच्छन्ते रञ्ञो पच्चन्ते कुपिते राजा ‘‘अहं पच्चन्तं वूपसमेतुं गच्छामि, त्वं पच्चेकबुद्धेसु मा पमज्जा’’ति देविं ओवदित्वा गतो. तस्मिं अनागतेयेव पच्चेकबुद्धानं आयुसङ्खारा खीणा. महापदुमपच्चेकबुद्धो तियामरत्तिं झानकीळं कीळित्वा अरुणुग्गमनसमये आलम्बनफलकं आलम्बित्वा ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. एतेनुपायेन सेसापीति सब्बेव परिनिब्बुता. पुनदिवसे देवी पच्चेकबुद्धानं निसीदनट्ठानानि सज्जेत्वा पुप्फानि विकिरित्वा धूपं वासेत्वा तेसं आगमनं ओलोकेन्ती निसिन्ना आगमनं अदिस्वा पुरिसे पेसेसि – ‘‘गच्छथ, ताता, जानाथ किं अय्यानं अफासुक’’न्ति? ते गन्त्वा महापदुमस्स पण्णसालाय द्वारं विवरित्वा तत्थ तं अपस्सन्ता चङ्कमनं गन्त्वा आलम्बनफलकं निस्साय ठितं दिस्वा वन्दित्वा ‘‘कालो, भन्ते’’ति आहंसु. परिनिब्बुतसरीरं किं कथेस्सति, ते ‘‘निद्दायति मञ्ञे’’ति वत्वा पिट्ठिपादे हत्थेन परामसित्वा पादानं सीतलताय चेव थद्धताय च परिनिब्बुतभावं ञत्वा दुतियस्स सन्तिकं गन्त्वा तथेव ञत्वा पुन ततियस्साति एवं सब्बेपि परिनिब्बुतभावं ञत्वा राजकुलं आगमिंसु. ‘‘कहं, ताता, पच्चेकबुद्धा’’ति पुट्ठा ‘‘परिनिब्बुता, देवी’’ति आहंसु. देवी कन्दन्ती रोदन्ती निक्खमित्वा नागरेहि सद्धिं तत्थ गन्त्वा साधुकीळितं कारेत्वा पच्चेकबुद्धानं सरीरकिच्चं कारेत्वा धातुयो गाहापेत्वा चेतियं पतिट्ठापेसि.

राजा पच्चन्तं वूपसमेत्वा आगतो पच्चुग्गमनं आगतं देविं पुच्छि – ‘‘किं, भद्दे, त्वं पच्चेकबुद्धेसु न पमज्जसि, निरोगा च अय्या’’ति? ‘‘परिनिब्बुता, देवा’’ति. तं सुत्वा राजा चिन्तेसि – ‘‘एवरूपानम्पि पण्डितानं मरणं उप्पज्जति, अम्हाकं कुतो मोक्खा’’ति? सो नगरं अपविसित्वा उय्यानमेव गन्त्वा जेट्ठपुत्तं पक्कोसापेत्वा तस्स रज्जं निय्यातेत्वा सयं समणपब्बज्जं पब्बजि. देवीपि ‘‘रञ्ञे पब्बजिते अहं किं करिस्सामी’’ति तथेव उय्याने पब्बजि. द्वेपि झानं भावेत्वा ततो चुता ब्रह्मलोके निब्बत्तिंसु.

तेसु तत्थेव वसन्तेसु अम्हाकं सत्था लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन राजगहं पापुणि. सत्थरि तत्थ पटिवसन्ते अयं पिप्पलिमाणवो मगधरट्ठे महातित्थब्राह्मणगामे कपिलब्राह्मणस्स भरियाय कुच्छिम्हि निब्बत्तो. अयं भद्दकापिलानी मद्दरट्ठे सागलनगरे कोसियगोत्तब्राह्मणस्स भरियाय कुच्छिम्हि निब्बत्ता. तेसं अनुक्कमेन वड्ढमानानं पिप्पलिमाणवस्स वीसतिमे, भद्दाय सोळसमे वये सम्पत्ते मातापितरो पुत्तं ओलोकेत्वा ‘‘तात, त्वं वयप्पत्तो, कुलवंसं पतिट्ठपेतुं युत्तो’’ति अतिविय निप्पीळियिंसु. माणवो आह – ‘‘मय्हं सोतपथे एवरूपं कथं मा कथयित्थ, अहं याव तुम्हे धरथ, ताव पटिजग्गिस्सामि, तुम्हाकं अच्चयेन निक्खमित्वा पब्बजिस्सामी’’ति. ते कतिपाहं अतिक्कमित्वा पुन कथयिंसु. सोपि पुन पटिक्खिपि. ततो पट्ठाय माता निरन्तरं कथेतियेव.

माणवो ‘‘मातरं सञ्ञापेस्सामी’’ति रत्तसुवण्णस्स निक्खसहस्सं दत्वा सुवण्णकारेहि इत्थिरूपकं कारेत्वा तस्स मज्जनघट्टनादिकम्मपरियोसाने तं रत्तवत्थं निवासेत्वा सुवण्णसम्पन्नेहि पुप्फेहि चेव नानालङ्कारेहि च अलङ्कारापेत्वा ‘‘अम्म, एवरूपं आरम्मणं लभन्तो गेहे वसिस्सामि, अलभन्तो न वसिस्सामी’’ति. पण्डिता ब्राह्मणी चिन्तेसि – ‘‘मय्हं पुत्तो पुञ्ञवा दिन्नदानो कताभिनीहारो पुब्बे पुञ्ञानि करोन्तो न एककोव अकासि, अद्धा एतेन सह कतपुञ्ञा सुवण्णरूपकपटिभागा भविस्सती’’ति. अट्ठ ब्राह्मणे पक्कोसापेत्वा सब्बभोगेहि सन्तप्पेत्वा सुवण्णरूपकं रथे आरोपेत्वा ‘‘गच्छथ, ताता, यत्थ अम्हेहि जातिगोत्तभोगादिसमानकुले एवरूपं दारिकं पस्सथ, तत्थ इदमेव सुवण्णरूपकं सच्चाकारं कत्वा देथा’’ति उय्योजेसि.

ते ‘‘अम्हाकं नाम एतं कम्म’’न्ति निक्खमित्वा ‘‘कत्थ लभिस्साम, मद्दरट्ठं नाम इत्थागारं, मद्दरट्ठं गमिस्सामा’’ति मद्दरट्ठे सागलनगरं अगमंसु. अत्थ तं सुवण्णरूपकं न्हानतित्थे ठपेत्वा एकमन्तं निसीदिंसु. अथ भद्दाय धाती भद्दं न्हापेत्वा अलङ्करित्वा सयं न्हायितुं उदकतित्थं गन्त्वा सुवण्णरूपकं दिस्वा ‘‘किस्सायं अविनीता इधागन्त्वा ठिता’’ति पिट्ठिपस्से पहरित्वा सुवण्णरूपकं ञत्वा ‘‘अय्यधीता मेति सञ्ञं उप्पादेसि, अयं पन अय्यधीताय निवासनपटिग्गहितायपि असदिसा’’ति आह. अथ नं ते ब्राह्मणा ‘‘एवरूपा किर ते सामिधीता’’ति पुच्छिंसु. सा ‘‘इमाय सुवण्णपटिमाय सतगुणेन सहस्सगुणेन मय्हं अय्यधीता अभिरूपतरा’’, तथा हि ‘‘अप्पदीपेपि द्वादसहत्थे गब्भे निसिन्ना सरीरोभासेन तमं विधमती’’ति आह. ‘‘तेन हि तस्सा मातापितूनं सन्तिकं गच्छामा’’ति सुवण्णरूपकं रथे आरोपेत्वा तं धातिं अनुगन्त्वा कोसियगोत्तस्स घरद्वारे ठत्वा आगमनं आरोचयिंसु.

ब्राह्मणो पटिसन्थारं कत्वा ‘‘कुतो आगतत्था’’ति पुच्छि. ते ‘‘मगधरट्ठे महातित्थगामे कपिलब्राह्मणस्स घरतो इमिना नाम कारणेन आगतम्हा’’ति आहंसु. ‘‘साधु, ताता, अम्हेहि समजातिगोत्तविभवो सो ब्राह्मणो, दस्साम दारिक’’न्ति पण्णाकारं गण्हि. ते कपिलब्राह्मणस्स सासनं पहिणिंसु – ‘‘लद्धा नो भद्दा नाम दारिका, कत्तब्बं जानाथा’’ति. तं सासनं सुत्वा पिप्पलिमाणवस्स आरोचयिंसु ‘‘लद्धा दारिका’’ति. पिप्पलिमाणवो ‘‘अहं ‘न लभिस्सन्ती’ति चिन्तेसिं, इमे ‘लद्धा’ति पेसेन्ति, अनत्थिको हुत्वा पण्णं पेसेस्सामी’’ति रहोगतो पण्णं लिखि ‘‘भद्दा अत्तनो जातिगोत्तभोगानुरूपं पतिं लभतु, अहं निक्खमित्वा पब्बजिस्सामि, मा पच्छा विप्पटिसारिनी अहोसी’’ति. भद्दापि ‘‘असुकस्स किर मं दातुकामा’’ति सुत्वा रहोगता पण्णं लिखि – ‘‘अय्यपुत्तो अत्तनो जातिगोत्तभोगानुरूपं दारिकं लभतु, अहं पब्बजिस्सामि, मा पच्छा विप्पटिसारी भवाही’’ति. द्वेपि पण्णानि अन्तरामग्गे समागच्छिंसु. ‘‘इदं कस्स पण्ण’’न्ति? ‘‘पिप्पलिमाणवेन भद्दाय पहित’’न्ति. ‘‘इदं कस्सा’’ति? ‘‘भद्दाय पिप्पलिमाणवस्स पहित’’न्ति च वुत्ते ते द्वेपि वाचेत्वा ‘‘पस्सथ दारकानं कम्म’’न्ति फालेत्वा अरञ्ञे छड्डेत्वा अञ्ञं तंसमानं पण्णं लिखित्वा इतो एत्तो च पेसेसुं. इति कुमारस्स कुमारिकाय च सदिसं पण्णं लोकस्सादरहितमेवाति अनिच्छमानानम्पि तेसं द्विन्नं समागमो अहोसि.

तंदिवसमेव पिप्पलिमाणवोपि भद्दं एकं पुप्फदामं गण्हापेसि. भद्दापि तानि सयनमज्झे ठपेसि. उभोपि भुत्तसायमासा सयनं आरुहितुं आरभिंसु. तेसु माणवो दक्खिणपस्सेन सयनं आरुहि, भद्दा वामपस्सेन अभिरुहित्वा आह – ‘‘यस्स पस्से पुप्फानि मिलायन्ति, तस्स रागचित्तं उप्पन्नन्ति विजानिस्साम, इमं पुप्फदामं न अल्लीयितब्ब’’न्ति. ते पन अञ्ञमञ्ञं सरीरसम्फस्सभयेन सकलरत्तिं निद्दं अनोक्कमन्ताव वीतिनामेसुं. दिवा पन हसितमत्तम्पि नाकंसु. ते लोकामिसेन असंसट्ठा याव मातापितरो धरन्ति, ताव कुटुम्बं अविचारेत्वा तेसु कालङ्कतेसु विचारयिंसु. महती माणवस्स सम्पत्ति. एकदिवसं सरीरं उब्बट्टेत्वा छड्डेतब्बं सुवण्णचुण्णं एव मगधनाळिया द्वादसनाळिमत्तं लद्धुं वट्टति. यन्तबद्धानि सट्ठि महातळाकानि, कम्मन्तो द्वादसयोजनिको, अनुराधपुरप्पमाणा चुद्दसगामा, चुद्दस हत्थानीकानि, चुद्दस अस्सानीकानि, चुद्दस रथानीकानि.

सो एकदिवसं अलङ्कतअस्सं आरुय्ह महाजनपरिवुतो कम्मन्तट्ठानं गन्त्वा खेत्तकोटियं ठितो नङ्गलेहि छिन्नट्ठानतो काकादयो सकुणे गण्डुप्पादादिके पाणके उद्धरित्वा खादन्ते दिस्वा ‘‘ताता, इमे किं खादन्ती’’ति पुच्छि. ‘‘गण्डुप्पादे, अय्या’’ति. ‘‘एतेहि कतपापं कस्स होती’’ति? ‘‘तुम्हाकं, अय्या’’ति. सो चिन्तेसि – ‘‘सचे एतेहि कतपापं मय्हं होति, किं मे करिस्सति सत्तअसीतिकोटिधनं, द्वादसयोजनकम्मन्तो किं करिस्सति, किं यन्तबद्धानि तळाकानि, किं चुद्दस गामानि, सब्बमेतं भद्दाय कापिलानिया निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

भद्दा कापिलानी तस्मिं खणे अन्तरवत्थुस्मिं तयो तिलकुम्भे पत्थरित्वा धातीहि परिवुता निसिन्ना काके तिलपाणके खादमाने दिस्वा ‘‘अम्मा, किं इमे खादन्ती’’ति पुच्छि. ‘‘पाणके, अय्ये’’ति. ‘‘अकुसलं कस्स होती’’ति? ‘‘तुम्हाकं, अय्ये’’ति. सा चिन्तेसि – ‘‘मय्हं चतुहत्थं वत्थं नाळिकोदनमत्तञ्च लद्धुं वट्टति, यदि पनेतं एतेहि कतं अकुसलं मय्हं होति, भवसहस्सेनपि वट्टतो सीसं उक्खिपितुं न सक्का, अय्यपुत्ते आगतमत्तेयेव सब्बं तस्स निय्यातेत्वा निक्खम्म पब्बजिस्सामी’’ति.

माणवो आगन्त्वा न्हत्वा पासादं आरुय्ह महारहे पल्लङ्के निसीदि, अथस्स चक्कवत्तिनो अनुच्छविकभोजनं उपनयिंसु. द्वेपि भुञ्जित्वा परिजने निक्खन्ते रहोगता फासुकट्ठाने निसीदिंसु. ततो माणवो भद्दं आह – ‘‘भद्दे, इमं घरं आगच्छन्ती कित्तकं धनमाहरसी’’ति? ‘‘पञ्चपण्णास सकटसहस्सानि, अय्या’’ति. ‘‘सब्बं तं, या च इमस्मिं घरे सत्तासीति कोटियो यन्तबद्धानि सट्ठि तळाकानीति एवमादिभेदा सम्पत्ति अत्थि, तं सब्बं तुय्हेव निय्यातेमी’’ति. ‘‘तुम्हे पन कुहिं गच्छथ, अय्या’’ति? ‘‘अहं पब्बजिस्सामी’’ति. ‘‘अय्य, अहम्पि तुम्हाकं आगमनं ओलोकयमाना निसिन्ना, अहम्पि पब्बजिस्सामी’’ति. तेसं आदित्तपण्णकुटि विय तयो भवा उपट्ठहन्ति. ते ‘‘पब्बजिस्सामा’’ति वत्वा अन्तरापणतो कासायरसपीतानि चीवरानि मत्तिकापत्ते च आहरापेत्वा अञ्ञमञ्ञं केसे ओहारेत्वा ‘‘ये लोके अरहन्तो अत्थि, ते उद्दिस्स अम्हाकं पब्बज्जा’’ति पब्बजित्वा थविकासु पत्ते पक्खिपित्वा अंसे लग्गेत्वा पासादतो ओतरिंसु. गेहे दासेसु च कम्मकारेसु च न कोचि सञ्जानि.

अथ ने ब्राह्मणगामतो निक्खमित्वा दासगामद्वारेन गच्छन्ते आकप्पकुतवसेन दासगामवासिनो सञ्जानिंसु. ते रोदन्ता पादेसु पतित्वा ‘‘किं अम्हे अनाथे करोथ, अय्या’’ति आहंसु. ‘‘मयं, भणे, ‘तयो भवा आदित्तपण्णसाला विया’ति पब्बजिम्ह, सचे तुम्हेसु एकेकं भुजिस्सं करोम, वस्ससतम्पि नप्पहोति. तुम्हेव तुम्हाकं सीसं धोवित्वा भुजिस्सा हुत्वा जीवथा’’ति वत्वा तेसं रोदन्तानंयेव पक्कमिंसु.

थेरो पुरतो गच्छन्तो निवत्तित्वा ओलोकेन्तो चिन्तेसि – ‘‘अयं भद्दा कापिलानी सकलजम्बुदीपग्घनिका इत्थी मय्हं पच्छतो आगच्छति, ठानं खो पनेतं विज्जति, यं कोचिदेव एवं चिन्तेय्य ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ति, अननुच्छविकं करोन्ती’ति. एवं कोचि पापकेन मनसा पदूसेत्वा अपायपूरको भवेय्य, इमं पहाय मया गन्तुं वट्टती’’ति चित्तं उप्पादेत्वा पुरतो गच्छन्तो द्वेधापथं दिस्वा तस्स मत्थके अट्ठासि. भद्दापि आगन्त्वा वन्दित्वा अट्ठासि. अथ नं आह – ‘‘भद्दे, तादिसिं इत्थिं मम पच्छतो आगच्छन्तिं दिस्वा ‘इमे पब्बजितापि विना भवितुं न सक्कोन्ती’ति अम्हेसु पदुट्ठचित्तो महाजनो अपायपूरको भवेय्य. इमस्मिं द्वेधापथे त्वं एतं गण्ह, अहं एकेन गमिस्सामी’’ति. ‘‘आम, अय्य, मातुगामो ‘पब्बजितानं पलिबोधो, पब्बजितापि विना न भवन्ती’ति अम्हाकं दोसं दस्सेय्यु’’न्ति तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह ‘‘सतसहस्सकप्पपमाणे अद्धाने कतो मित्तसन्थवो अज्ज भिज्जति, तुम्हेव दक्खिणा नाम, तुम्हाकं दक्खिणमग्गो वट्टति, मयं मातुगामा नाम वामजातिका, अम्हाकं वाममग्गो वट्टती’’ति वन्दित्वा मग्गं पटिपज्जि. तेसं द्वेधाभूतकाले अयं महापथवी ‘‘अहं चक्कवाळसिनेरुपब्बतादयो धारेतुं सक्कोन्तीपि तुम्हाकं गुणे धारेतुं न सक्कोमी’’ति वदन्ती विय विरवमाना अकम्पित्थ. आकासे असनिसद्दो विय पवत्ति, चक्कवाळपब्बतो उन्नादि.

सम्मासम्बुद्धोपि वेळुवनमहाविहारे कुटियं निसिन्नो पथवीकम्पनसद्दं सुत्वा ‘‘किस्स नु खो पथवी कम्पती’’ति आवज्जेन्तो ‘‘पिप्पलिमाणवो च भद्दा च कापिलानी मं उद्दिस्स अप्पमेय्यं सम्पत्तिं पहाय पब्बजिता, तेसं वियोगट्ठाने उभिन्नं गुणबलेन अयं पथवीकम्पो जातो, मयापि एतेसं सङ्गहं कातुं वट्टती’’ति गन्धकुटितो निक्खम्म सयमेव पत्तचीवरमादाय असीतिमहाथेरेसु कञ्चि अनापुच्छा तिगावुतमग्गं पच्चुग्गमनं कत्वा राजगहस्स च नालन्दाय च अन्तरे बहुपुत्तनिग्रोधमूले पल्लङ्कं आभुजित्वा निसीदि. निसिन्नो पन अञ्ञतरपंसुकूलिको विय अनिसीदित्वा बुद्धवेसं गहेत्वा असीतिहत्था बुद्धरंसियो विस्सज्जेन्तो निसीदि. इति तस्मिं खणे पण्णच्छत्तसकटचक्ककूटागारादिप्पमाणा बुद्धरंसियो इतो चितो च विप्फरन्तियो विधावन्तियो चन्दसहस्ससूरियसहस्सउग्गमनकालं विय कुरुमाना तं वनन्तरं एकोभासं अकंसु. द्वत्तिंसमहापुरिसलक्खणसिरिया समुज्जलतारागणेन विय गगनं, सुपुप्फितकमलकुवलयेन विय सलिलं वनन्तरं विरोचित्थ. निग्रोधरुक्खस्स खन्धो पकतिया सेतो होति, पत्तानि नीलानि पक्कानि रत्तानि. तस्मिं पन दिवसे सब्बो निग्रोधो सुवण्णवण्णोव अहोसि.

महाकस्सपत्थेरो तं दिस्वा ‘‘अयं अम्हाकं सत्था भविस्सति, इमं अहं उद्दिस्स पब्बजितो’’ति दिट्ठट्ठानतो पट्ठाय ओनतो गन्त्वा तीसु ठानेसु वन्दित्वा ‘‘सत्था मे, भन्ते, भगवा, सावकोहमस्मि, सत्था मे, भन्ते, भगवा, सावकोहमस्मी’’ति (सं. नि. २.१५४) आह. अथ नं भगवा आह – ‘‘कस्सप, सचे त्वं इमं निपच्चकारं महापथविया करेय्यासि, सापि धारेतुं न सक्कुणेय्य. तथागतस्स पन एवं गुणमहन्ततं जानता तया कतो निपच्चकारो मय्हं लोमम्पि चालेतुं न सक्कोति. निसीद, कस्सप, दायज्जं ते दस्सामी’’ति. अथस्स भगवा तीहि ओवादेहि उपसम्पदं अदासि. दत्वा च बहुपुत्तनिग्रोधमूलतो निक्खमित्वा थेरं पच्छासमणं कत्वा मग्गं पटिपज्जि. सत्थु सरीरं द्वत्तिंसमहापुरिसलक्खणविचित्तं, महाकस्सपस्स सत्तमहापुरिसलक्खणपटिमण्डितं, सो कञ्चननावाय पच्छाबद्धो विय सत्थु पदानुपदिकं अनुगञ्छि. सत्था थोकं मग्गं गन्त्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसज्जाकारं दस्सेसि. थेरो ‘‘सत्था निसीदितुकामो’’ति ञत्वा अत्तनो पटपिलोतिकं सङ्घाटिं चतुग्गुणं कत्वा पञ्ञपेसि.

सत्था तत्थ निसीदित्वा हत्थेन चीवरं परिमज्जन्तो ‘‘मुदुका खो त्यायं, कस्सप, पटपिलोतिका सङ्घाटी’’ति आह (सं. नि. २.१५४). सो ‘‘सत्था मे सङ्घाटिया मुदुभावं कथेसि, पारुपितुकामो भविस्सती’’ति ञत्वा ‘‘पारुपतु, भन्ते, भगवा सङ्घाटि’’न्ति आह. ‘‘किं त्वं पारुपिस्ससि, कस्सपा’’ति? ‘‘तुम्हाकं निवासनं लभन्तो पारुपिस्सामि, भन्ते’’ति. ‘‘किं पन त्वं, कस्सप, इमं परिभोगजिण्णं पंसुकूलं धारेतुं सक्खिस्ससि, मया हि इमस्स पंसुकूलस्स गहितदिवसे उदकपरियन्तं कत्वा महापथवी कम्पि, इमं बुद्धपरिभोगजिण्णचीवरं नाम न सक्का परित्तगुणेन धारेतुं, पटिबलेनेविदं पटिपत्तिपूरणसमत्थेन जातिपंसुकूलिकेन धारेतुं वट्टती’’ति वत्वा थेरेन सद्धिं चीवरं परिवत्तेसि.

एवं चीवरं परिवत्तेत्वा थेरस्स चीवरं भगवा पारुपि, सत्थु चीवरं थेरो. तस्मिं खणे अचेतनापि अयं महापथवी ‘‘दुक्करं, भन्ते, अकत्थ, अत्तनो पारुतचीवरं सावकेन परिवत्तितपुब्बं नाम नाहोसि, अहं तुम्हाकं गुणं धारेतुं न सक्कोमी’’ति वदन्ती विय उदकपरियन्तं कत्वा कम्पि. थेरोपि ‘‘लद्धं मे बुद्धानं परिभोगचीवरं, किं मे इदानि उत्तरि कत्तब्ब’’न्ति उन्नतिं अकत्वा सत्थु सन्तिकेयेव तेरस धुतगुणे समादाय सत्तदिवसमत्तं पुथुज्जनो अहोसि. अट्ठमे दिवसे सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ नं सत्था ‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति, अपकस्सेव कायं अपकस्स चित्तं निच्चनवको कुलेसु अप्पगब्भो’’ति (सं. नि. २.१४६) एवमादिना पसंसित्वा अपरभागे अरियगणमज्झे निसिन्नो ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धुतवादानं यदिदं महाकस्सपो’’ति (अ. नि. १.१८८, १९१) धुतवादानं अग्गट्ठाने ठपेसि.

३९८. एवं भगवता एतदग्गट्ठाने ठपितो आयस्मा महाकस्सपो महासावकभावं पत्तो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेनं पुब्बचरितापदानं पकासेन्तो पदुमुत्तरस्स भगवतोतिआदिमाह. तत्थ पदुमुत्तरस्साति तस्स किर भगवतो मातुकुच्छितो निक्खमनकालतो पट्ठाय पादानं निक्खेपनसमये अक्कन्तक्कन्तपादे सतसहस्सपत्ता पदुमा पथविं भिन्दित्वा उट्ठहिंसु. तस्मास्स तं नामं अहोसि. सकलसत्तनिकायेसु एकेकेन सतसतपुञ्ञे कते तस्स पुञ्ञस्स सतगुणपुञ्ञानं कतत्ता भगवतोति अत्थो. लोकजेट्ठस्स तादिनोति सत्तलोकस्स पधानभूतस्स इट्ठानिट्ठेसु अकम्पियभावं पत्तत्ता तादिनो. निब्बुते लोकनाथम्हीति सत्तलोकस्स पटिसरणभूते भगवति खन्धपरिनिब्बानेन परिनिब्बुते, अदस्सनं गतेति अत्थो. पूजं कुब्बन्ति सन्थुनोति सदेवकस्स लोकस्स सासनतो ‘‘सत्था’’ति लद्धनामस्स भगवतो साधुकीळं कीळन्ता पूजं करोन्तीति सम्बन्धो.

३९९. अग्गिं चिनन्ती जनताति जनसमूहा आळाहनत्थाय अग्गिं चिनन्ता रासिं करोन्ता आसमन्ततो मोदिता सन्तुट्ठा पकारेन मोदिता सन्तुट्ठा पूजं करोन्तीति सम्बन्धो. तेसु संवेगजातेसूति तेसु जनसमूहेसु संवेगप्पत्तेसु उत्रासं लभन्तेसु मे मय्हं पीति हासो उदपज्जथ पातुभवीति अत्थो.

४००. ञातिमित्ते समानेत्वाति मम बन्धुसहाये समानेत्वा रासिं कत्वा. महावीरो भगवा परिनिब्बुतो अदस्सनं अगमासीति इदं वचनं अब्रविं कथेसिन्ति सम्बन्धो. हन्द पूजं करोमसेति हन्दाति वोस्सग्गत्थे निपातो, तेन कारणेन मयं सब्बे समागता पूजं करोमाति अत्थो. सेति निपातो.

४०१. साधूति ते पटिस्सुत्वाति ते मम ञातिमित्ता साधु इति सुन्दरं भद्दकं इति पटिसुणित्वा मम वचनं सम्पटिछित्वा मे मय्हं भिय्यो अतिरेकं हासं पीतिं जनिंसु उप्पादेसुन्ति अत्थो.

४०२. ततो अत्तनो कतपुञ्ञसञ्चयं दस्सेन्तो बुद्धस्मिं लोकनाथम्हीतिआदिमाह. सतहत्थं उग्गतं उब्बिद्धं दियड्ढहत्थसतं वित्थतं, विमानं नभसि आकासे उग्गतं अग्घियं, सुकतं सुन्दराकारेन कतं, कत्वा कारेत्वा च पुञ्ञसञ्चयं पुञ्ञरासिं काहासिं अकासिन्ति सम्बन्धो.

४०३. कत्वान अग्घियं तत्थाति तस्मिं चेतियपूजनट्ठाने तालपन्तीहि तालपाळीहि चित्तितं सोभितं अग्घियं कत्वान कारेत्वा च सकं चित्तं अत्तनो चित्तं पसादेत्वा चेतियं पूजयुत्तमन्ति उत्तमं बुद्धधातुनिधापितं चेतियं पूजयिन्ति सम्बन्धो.

४०४. तस्स चेतियस्स महिमं दस्सेन्तो अग्गिक्खन्धोवातिआदिमाह. तत्थ अग्गिक्खन्धोवाति आकासे जलमानो अग्गिक्खन्धोव अग्गिरासि इव तं चेतियं सत्तहि रतनेहि जलति फुल्लितो विकसितपुप्फो सालरुक्खराजा इव आकासे इन्दलट्ठीव इन्दधनु इव च चतुद्दिसा चतूसु दिसासु ओभासति विज्जोततीति सम्बन्धो.

४०५. तत्थ चित्तं पसादेत्वाति तस्मिं जोतमानधातुगब्भम्हि चित्तं मनं पसादेत्वा सोमनस्सं कत्वा तेन चित्तप्पसादेन बहुं अनेकप्पकारं कुसलं पुञ्ञं कत्वान ‘‘धातुगब्भे च सासने च एत्तकानि पुञ्ञानि मया कतानी’’ति एवं पुञ्ञकम्मं सरित्वान कालंकत्वा तिदसं तावतिंसभवनं सुत्तप्पबुद्धो विय अहं उपपज्जिं जातोति सम्बन्धो.

४०६. अत्तनो उप्पन्नदेवलोके लद्धसम्पत्तिं दस्सेन्तो सहस्सयुत्तन्तिआदिमाह. तत्थ हयवाहिं सिन्धवसहस्सयोजितं दिब्बरथं अधिट्ठितो. सत्तहि भूमीहि सं सुट्ठु उग्गतं उब्बिद्धं उच्चं मय्हं भवनं विमानं अहोसीति अत्थो.

४०७. तस्मिं विमाने सब्बसोवण्णमया सकलसोवण्णमयानि कूटागारसहस्सानि अहुं अहेसुन्ति अत्थो. सकतेजेन अत्तनो आनुभावेन सब्बा दस दिसा पभासयं ओभासेन्तानि जलन्ति विज्जोतन्तीति सम्बन्धो.

४०८. तस्मिं मय्हं पातुभूतविमाने अञ्ञेपि निय्यूहा पमुखसालायो सन्ति विज्जन्ति. किं भूता? लोहितङ्गमया रत्तमणिमया तदा तेपि निय्यूहा चतस्सो दिसा आभाय पभाय जोतन्तीति सम्बन्धो.

४१०. सब्बे देवे सकलछदेवलोके देवे अभिभोमि अभिभवामि. कस्स फलन्ति चे? मया कतस्स पुञ्ञकम्मस्स इदं फलन्ति अत्थो.

४११. ततो मनुस्ससम्पत्तिं दस्सेन्तो सट्ठिकप्पसहस्सम्हीतिआदिमाह. तत्थ इतो कप्पतो हेट्ठा सट्ठिसहस्सकप्पमत्थके चातुरन्तो चतुमहादीपवन्तो विजितावी सब्बं पच्चत्थिकं विजितवन्तो अहं उब्बिद्धो नाम चक्कवत्ती राजा हुत्वा पथविं आवसिं रज्जं कारेसिन्ति सम्बन्धो.

४१२-४. तथेव भद्दके कप्पेति पञ्चबुद्धपटिमण्डितत्ता भद्दके नाम कप्पे. तिंसक्खत्तुं तिंसजातिया चतुदीपम्हि इस्सरो पधानो चक्करतनादीहि सत्तहि रतनेहि सम्पन्नो समङ्गीभूतो सककम्माभिरद्धो अत्तनो कम्मे दस राजधम्मे अभिरद्धो अल्लीनो चक्कवत्ती राजा अम्ही अहोसिन्ति सम्बन्धो. अत्तनो चक्कवत्तिकाले अनुभूतसम्पत्तिं दस्सेन्तो ‘‘तत्थापि भवनं मय्ह’’न्तिआदिमाह. तत्थ तस्मिं चक्कवत्तिरज्जम्हि मय्हं भवनं मम पासादं इन्दलट्ठीव उग्गतं आकासे ठितविज्जोतमाना विज्जुल्लता इव उग्गतं सत्तभूमिकादिभेदेहि उच्चं आयामतो दीघतो च उच्चतो च चतुवीसतियोजनं वित्थारतो द्वादसयोजनं अहोसीति सम्बन्धो. सब्बेसं जनानं मनं अल्लीनभावेन रम्मणं नाम नगरं अहोसीति अत्थो. दळ्हेहि द्वादसहत्थेहि वा तिंसहत्थेहि वा उच्चेहि पाकारतोरणेहि सम्पन्नन्ति दस्सेति.

४१५-२०. तदड्ढकं ततो अड्ढकं अड्ढतियसतयोजनन्ति अत्थो. पक्खित्ता पण्णवीसतीति वीसतिआपणपक्खित्तं निरन्तरं वीथिपरिच्छेदन्ति अत्थो. ब्राह्मञ्ञकुलसम्भूतोति ब्राह्मणकुले सुजातो. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

महाकस्सपत्थेरअपदानवण्णना समत्ता.