३-१. सारिपुत्तत्थेरअपदानवण्णना
तदनन्तरं थेरापदानसङ्गहगाथायो संवण्णेतुं ‘‘अथ थेरापदानं सुणाथा’’ति आह. अथ-अपदान-सद्दानमत्थो हेट्ठा वुत्तोव. एत्थ थेर-सद्दो पनायं कालथिरपञ्ञत्तिनामधेय्यजेट्ठादीसु अनेकेसु अत्थेसु वत्तति. तथा हि ‘‘थेरोवस्सिकानि पूतीनि चुण्णकजातानी’’तिआदीसु (दी. नि. २.३७९; म. नि. १.११२) काले, थेरोवस्सिकानि चिरकालं ओवस्सिकानीति अत्थो. ‘‘थेरोपि ताव महा’’इच्चादीसु थिरे थिरसीलोति अत्थो. ‘‘थेरको अयमायस्मा महल्लको’’तिआदीसु पञ्ञत्तियं, लोकपञ्ञत्तिमत्तोति अत्थो. ‘‘चुन्दत्थेरो फुस्सत्थेरो’’तिआदीसु नामधेय्ये, एवं कतनामोति अत्थो. ‘‘थेरो चायं कुमारो मम पुत्तेसू’’तिआदीसु जेट्ठे, जेट्ठो कुमारोति अत्थो. इध पनायं काले च थिरे च वत्तति. तस्मा चिरं कालं ठितोति थेरो, थिरतरसीलाचारमद्दवादिगुणाभियुत्तो वा थेरोति वुच्चति. थेरो च थेरो चेति थेरा, थेरानं अपदानं कारणं थेरापदानं, तं थेरापदानं सुणाथाति सम्बन्धो. हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतोतिआदि आयस्मतो सारिपुत्तत्थेरस्स अपदानं, तस्सायस्मतो महामोग्गल्लानत्थेरस्स च वत्थु एवं वेदितब्बं –
अतीते किर इतो कप्पतो सतसहस्सकप्पाधिके एकअसङ्ख्येय्यमत्थके आयस्मा सारिपुत्तो ब्राह्मणमहासालकुले निब्बत्तित्वा नामेन सरदमाणवो नाम अहोसि. महामोग्गल्लानो गहपतिमहासालकुले निब्बत्तित्वा नामेन सिरिवड्ढनकुटुम्बिको नाम अहोसि. ते उभोपि सहपंसुकीळनसहाया अहेसुं. तेसु सरदमाणवो पितु अच्चयेन कुलसन्तकं धनं पटिपज्जित्वा एकदिवसं रहोगतो चिन्तेसि – ‘‘इमेसं सत्तानं मरणं नाम एकन्तिकं, तस्मा मया एकं पब्बज्जं उपगन्त्वा विमोक्खमग्गो गवेसितब्बो’’ति सहायं उपसङ्कमित्वा ‘‘सम्म, अहं पब्बजितुकामो. किं त्वं पब्बजितुं सक्खिस्ससी’’ति वत्वा तेन ‘‘न सक्खिस्सामी’’ति वुत्ते ‘‘होतु अहमेव पब्बजिस्सामी’’ति रतनकोट्ठागारानि विवरापेत्वा कपणद्धिकादीनं महादानं दत्वा पब्बतपादं गन्त्वा इसिपब्बज्जं पब्बजि. तस्स पब्बजितस्स अनुपब्बज्जं पब्बजिता चतुसत्ततिसहस्समत्ता ब्राह्मणपुत्ता अहेसुं. सो पञ्च अभिञ्ञायो अट्ठ च समापत्तियो निब्बत्तेत्वा तेसम्पि जटिलानं कसिणपरिकम्मं आचिक्खि. ते सब्बेपि पञ्चाभिञ्ञा अट्ठ च समापत्तियो निब्बत्तिसुं.
तेन समयेन अनोमदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को सत्ते संसारमहोघतो तारेत्वा एकदिवसं सरदतापसस्स च अन्तेवासिकानञ्च सङ्गहं कत्तुकामो एको अदुतियो पत्तचीवरमादाय आकासेन गन्त्वा ‘‘बुद्धभावं मे जानातू’’ति तापसस्स पस्सन्तस्सेव आकासतो ओतरित्वा पथवियं पतिट्ठासि. सरदतापसो सत्थु सरीरे महापुरिसलक्खणानि उपधारेत्वा ‘‘सब्बञ्ञुबुद्धोयेवाय’’न्ति निट्ठं गन्त्वा पच्चुग्गमनं कत्वा आसनं पञ्ञापेत्वा अदासि. निसीदि भगवा पञ्ञत्ते आसने. सरदतापसो सत्थु सन्तिके एकमन्तं निसीदि.
तस्मिं समये तस्स अन्तेवासिका चतुसत्ततिसहस्समत्ता जटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आगता सत्थारं दिस्वा सञ्जातपसादा अत्तनो आचरियस्स सत्थु च निसिन्नाकारं ओलोकेत्वा ‘‘आचरिय, मयं पुब्बे ‘तुम्हेहि महन्ततरो कोचि नत्थी’ति मञ्ञाम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे’’ति आहंसु. किं वदेथ, ताता, सासपेन सद्धिं अट्ठसट्ठियोजनसतसहस्सुब्बेधं सिनेरुं समं कातुं इच्छथ, सब्बञ्ञुबुद्धेन मं तुलं मा करित्थाति. अथ ते तापसा आचरियस्स वचनं सुत्वा ‘‘याव महा वतायं पुरिसुत्तमो’’ति सब्बेव पादेसु निपतित्वा सत्थारं वन्दिंसु.
अथ ते आचरियो आह – ‘‘ताता, सत्थु अनुच्छविको नो देय्यधम्मो नत्थि, सत्था च भिक्खाचरवेलाय इधागतो, हन्द, मयं देय्यधम्मं यथाबलं दस्साम. तुम्हेहि यं यं पणीतं फलाफलं आभतं, तं तं आहरथा’’ति आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा सत्थरि निसिन्ने सब्बे अन्तेवासिके पक्कोसापेत्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था ‘‘द्वे अग्गसावका भिक्खुसङ्घेन सद्धिं आगच्छन्तू’’ति चिन्तेसि. तावदेव सतसहस्सखीणासवपरिवारा अग्गसावका आगन्त्वा भगवन्तं वन्दित्वा एकमन्तं अट्ठंसु.
ततो सरदतापसो अन्तेवासिके आमन्तेसि – ‘‘ताता, सत्थु भिक्खुसङ्घस्स च पुप्फासनेन पूजा कातब्बा, तस्मा पुप्फानि आहरथा’’ति. ते तावदेव इद्धिया वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धस्स योजनप्पमाणं पुप्फासनं पञ्ञापेसुं, उभिन्नं अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं पञ्ञापेसुं. एवं पञ्ञत्तेसु आसनेसु सरदतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ‘‘भन्ते, मय्हं अनुग्गहत्थाय इमं पुप्फासनं अतिरुहथा’’ति आह. निसीदि भगवा पुप्फासने. सत्थरि निसिन्ने द्वे अग्गसावका सेसभिक्खू च अत्तनो अत्तनो पत्तासने निसीदिंसु. सत्था ‘‘तेसं महप्फलं होतू’’ति निरोधं समापज्जि. सत्थु समापन्नभावं ञत्वा द्वे अग्गसावकापि सेसभिक्खूपि निरोधं समापज्जिंसु. तापसो सत्ताहं निरन्तरं सत्थु पुप्फच्छत्तं धारेन्तो अट्ठासि. इतरे वनमूलफलं परिभुञ्जित्वा सेसकाले अञ्जलिं पग्गय्ह अट्ठंसु. सत्था सत्ताहस्स अच्चयेन निरोधतो वुट्ठहित्वा अग्गसावकं निसभत्थेरं आमन्तेसि – ‘‘तापसानं पुप्फासनानुमोदनं करोही’’ति. थेरो सावकपारमीञाणे ठत्वा तेसं पुप्फासनानुमोदनं अकासि. तस्स देसनावसाने सत्था दुतियं अग्गसावकं अनोमत्थेरं आमन्तेसि – ‘‘त्वम्पि इमेसं धम्मं देसेही’’ति. सोपि तेपिटकं बुद्धवचनं सम्मसित्वा तेसं धम्मं कथेसि. द्विन्नम्पि देसनाय धम्माभिसमयो नाहोसि. अथ सत्था बुद्धविसये ठत्वा धम्मदेसनं आरभि. देसनावसाने ठपेत्वा सरदतापसं अवसेसा सब्बेपि चतुसत्ततिसहस्सजटिला अरहत्तं पापुणिंसु. सत्था ते ‘‘एथ भिक्खवो’’ति हत्थं पसारेसि. ते तावदेव अन्तरहिततापसवेसा अट्ठपरिक्खारधरा सट्ठिवस्सिकत्थेरो विय अहेसुं.
सरदतापसो पन ‘‘अहो वताहम्पि अयं निसभत्थेरो विय अनागते एकस्स बुद्धस्स सावको भवेय्य’’न्ति देसनाकाले उप्पन्नपरिवितक्कताय अञ्ञविहितो हुत्वा मग्गफलानि पटिविज्झितुं नासक्खि. अथ सत्थारं वन्दित्वा तथा पणिधानं अकासि. सत्था अनन्तरायेन समिज्झनभावं दिस्वा ‘‘इतो कप्पसतसहस्साधिकं एकं असङ्ख्येय्यं अतिक्कमित्वा गोतमस्स नाम सम्मासम्बुद्धस्स अग्गसावको सारिपुत्तो नाम भविस्सती’’ति ब्याकरित्वा धम्मकथं वत्वा भिक्खुसङ्घपरिवारो आकासं पक्खन्दि. सरदतापसोपि सहायस्स सिरिवड्ढस्स सन्तिकं गन्त्वा ‘‘सम्म, मया अनोमदस्सिस्स भगवतो पादमूले अनागते उप्पज्जनकस्स गोतमसम्मासम्बुद्धस्स अग्गसावकट्ठानं पत्थितं, त्वम्पि तस्स दुतियसावकट्ठानं पत्थेही’’ति. सिरिवड्ढो तं उपदेसं सुत्वा अत्तनो निवेसनद्वारे अट्ठकरीसमत्तं ठानं समतलं कारेत्वा लाजपञ्चमानि पुप्फानि विकिरित्वा नीलुप्पलच्छदनं मण्डपं कारेत्वा बुद्धासनं पञ्ञापेत्वा भिक्खूनम्पि आसनानि पञ्ञापेत्वा महन्तं सक्कारसम्मानं सज्जेत्वा सरदतापसेन सत्थारं निमन्तापेत्वा सत्ताहं महादानं पवत्तेत्वा बुद्धप्पमुखं भिक्खुसङ्घं महारहेहि वत्थेहि अच्छादेत्वा दुतियसावकभावाय पणिधानं अकासि. सत्था तस्स अनन्तरायेन समिज्झनभावं दिस्वा वुत्तनयेन ब्याकरित्वा भत्तानुमोदनं कत्वा पक्कामि. सिरिवड्ढो हट्ठपहट्ठो यावजीवं कुसलकम्मं कत्वा दुतियचित्तवारे कामावचरदेवलोके निब्बत्ति. सरदतापसो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति.
ततो पट्ठाय तेसं उभिन्नम्पि अन्तरा कम्मं न कथितं. अम्हाकं पन भगवतो उप्पत्तितो पुरेतरमेव सरदतापसो राजगहस्स अविदूरे उपतिस्सागामे रूपसारिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तंदिवसमेवस्स सहायोपि राजगहस्सेव अविदूरे कोलितगामे मोग्गलिया ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्मा मोग्गल्लानो मोग्गलिया ब्राह्मणिया पुत्तोति मोग्गल्लानो. मोग्गलिगोत्तेन जातोति वा मोग्गल्लानो. अथ वा मातुकुमारिककाले तस्सा मातापितूहि वुत्तं – ‘‘मा उग्गलि मा उग्गली’’ति वचनमुपादाय ‘‘मुग्गली’’ति नामं. तस्सा मुग्गलिया पुत्तोति मोग्गल्लानो. अथ वा सोतापत्तिमग्गादिमग्गस्स लाभे आदाने पटिविज्झने अलं समत्थोति मोग्गल्लानोति. तानि किर द्वे कुलानि याव सत्तमा कुलपरिवट्टा आबद्धसहायानेव. तेसं द्विन्नं एकदिवसमेव गब्भपरिहारमदंसु. दसमासच्चयेन जातानम्पि तेसं छसट्ठि धातियो पट्ठपेसुं. नामग्गहणदिवसे रूपसारीब्राह्मणिया पुत्तस्स उपतिस्सगामे जेट्ठकुलस्स पुत्तत्ता उपतिस्सोति नामं करिंसु. इतरस्स कोलितगामे जेट्ठकुलस्स पुत्तत्ता कोलितोति नामं करिंसु. ते उभोपि महता परिवारेन वड्ढन्ता वुद्धिमन्वाय सब्बसिप्पानं पारं अगमंसु.
अथेकदिवसं ते राजगहे गिरग्गसमज्जं पस्सन्ता महाजनं सन्निपतितं दिस्वा ञाणस्स परिपाकं गतत्ता योनिसो उम्मुज्जन्ता ‘‘सब्बेपिमे ओरं वस्ससताव मच्चुमुखं पविसन्ती’’ति संवेगं पटिलभित्वा ‘‘अम्हेहि मोक्खधम्मो परियेसितब्बो, तञ्च परियेसन्तेहि एका पब्बज्जा लद्धुं वट्टती’’ति निच्छयं कत्वा पञ्चमाणवकसतेहि सद्धिं सञ्चयस्स परिब्बाजकस्स सन्तिके पब्बजिंसु. तेसं पब्बजितकालतो पट्ठाय सञ्चयो लाभग्गयसग्गप्पत्तो अहोसि. ते कतिपाहेनेव सब्बं सञ्चयस्स समयं परिमज्जित्वा तत्थ सारं अदिस्वा ततो निब्बिज्जित्वा तत्थ तत्थ पण्डितसम्मते समणब्राह्मणे पञ्हं पुच्छन्ति, ते तेहि पुट्ठा न सम्पादेन्ति. अञ्ञदत्थु तेयेव तेसं पञ्हं विस्सज्जेन्ति. एवं ते मोक्खं परियेसन्ता कतिकं अकंसु – ‘‘अम्हेसु यो पठमं अमतं अधिगच्छति, सो इतरस्स आरोचेतू’’ति.
तेन च समयेन अम्हाकं सत्थरि पठमाभिसम्बोधिं पत्वा पवत्तितवरधम्मचक्के अनुपुब्बेन उरुवेलकस्सपादिके सहस्सजटिले दमेत्वा राजगहे विहरन्ते एकदिवसं उपतिस्सो परिब्बाजको परिब्बाजकारामं गच्छन्तो आयस्मन्तं अस्सजित्थेरं राजगहे पिण्डाय चरन्तं दिस्वा ‘‘न मया एवरूपो आकप्पसम्पन्नो पब्बजितो दिट्ठपुब्बो, सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सञ्जातपसादो पञ्हं पुच्छितुं आयस्मन्तं उदिक्खन्तो पिट्ठितो पिट्ठितो अनुबन्धि. थेरोपि लद्धपिण्डपातो परिभुञ्जितुं पतिरूपं ओकासं गतो. परिब्बाजको अत्तनो परिब्बाजकपीठं पञ्ञापेत्वा अदासि. भत्तकिच्चपरियोसाने चस्स अत्तनो कुण्डिकाय उदकं अदासि. एवं सो आचरियवत्तं कत्वा कतभत्तकिच्चेन थेरेन सद्धिं पटिसन्थारं कत्वा – ‘‘को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति पुच्छि. थेरो सम्मासम्बुद्धं अपदिसि. पुन तेन ‘‘किं वादी पनायस्मतो सत्था’’ति पुट्ठो ‘‘इमस्स सासनस्स गम्भीरतं दस्सेस्सामी’’ति अत्तनो नवकभावं पवेदेत्वा सङ्खेपवसेन चस्स सासनधम्मं कथेन्तो ‘‘ये धम्मा हेतुप्पभवा’’ति (महाव. ६०; अप. थेर १.१.२८६) गाथमाह. परिब्बाजको पठमपदद्वयमेव सुत्वा सहस्सनयसम्पन्ने सोतापत्तिमग्गफले पतिट्ठहि. इतरं पदद्वयं सोतापन्नकाले निट्ठासि. गाथापरियोसाने पन सोतापन्नो हुत्वा उपरिविसेसे अपवत्तन्ते ‘‘भविस्सति एत्थ कारण’’न्ति सल्लक्खेत्वा थेरं आह – ‘‘मा, भन्ते, उपरि धम्मदेसनं वड्ढयित्थ, एत्तकमेव अलं, कहं अम्हाकं सत्था वसती’’ति? ‘‘वेळुवने’’ति. ‘‘भन्ते, तुम्हे पुरतो गच्छथ, अहं मय्हं सहायस्स कतपटिञ्ञं मोचेत्वा तं गहेत्वा आगमिस्सामी’’ति पञ्चपतिट्ठितेन वन्दित्वा पदक्खिणं कत्वा थेरं उय्योजेत्वा परिब्बाजकारामं अगमासि.
कोलितपरिब्बाजको तं दूरतोव आगच्छन्तं दिस्वा ‘‘मुखवण्णो न अञ्ञदिवसेसु विय अद्धानेन अमतं अधिगतं भविस्सती’’ति तेनेवस्स विसेसाधिगमं सम्भावेत्वा अमताधिगमं पुच्छि. सोपिस्स ‘‘आवुसो, अमतमधिगत’’न्ति पटिजानित्वा तमेव गाथं अभासि. गाथापरियोसाने कोलितो सोतापत्तिफले पतिट्ठहित्वा आह – ‘‘कहं नो सत्था’’ति? ‘‘वेळुवने’’ति. ‘‘तेन हि, आवुसो, आयाम, सत्थारं पस्सिस्सामा’’ति. उपतिस्सो सब्बकालम्पि आचरियपूजकोव, तस्मा सञ्चयस्स सत्थु गुणे पकासेत्वा तम्पि सत्थु सन्तिकं नेतुकामो अहोसि. सो लाभासापकतो अन्तेवासिकभावं अनिच्छन्तो ‘‘न सक्कोमि चाटि हुत्वा उदकसिञ्चनं होतु’’न्ति पटिक्खिपि. ते अनेकेहि कारणेहि तं सञ्ञापेतुं असक्कोन्ता अत्तनो ओवादे वत्तमानेहि अड्ढुतेय्यसतेहि अन्तेवासिकेहि सद्धिं वेळुवनं अगमंसु. सत्था ते दूरतोव आगच्छन्ते दिस्वा ‘‘एतं मे सावकयुगं भविस्सति, अग्गं भद्दयुग’’न्ति वत्वा तेसं परिसाय चरियवसेन धम्मं देसेत्वा अरहत्ते पतिट्ठापेत्वा एहिभिक्खुभावेन उपसम्पदं अदासि. यथा तेसं एवं अग्गसावकानम्पि इद्धिमयपत्तचीवरं आगतमेव. उपरिमग्गत्तयकिच्चं पन न निट्ठासि. कस्मा? सावकपारमीञाणस्स महन्तताय.
तेसु आयस्मा महामोग्गल्लानो पब्बजिततो सत्तमे दिवसे मगधरट्ठे कल्लवालगामे समणधम्मं करोन्तो थिनमिद्धे ओक्कमन्ते सत्थारा संवेजितो थिनमिद्धं विनोदेत्वा धातुकम्मट्ठानं सुणन्तो एव उपरिमग्गत्तयं अधिगन्त्वा सावकपारमीञाणस्स मत्थकं पापुणि. आयस्मा सारिपुत्तो पब्बज्जाय अद्धमासं अतिक्कमित्वा सत्थारा सद्धिं राजगहे सूकरखतलेणे विहरन्तो अत्तनो भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनापरिग्गहसुत्तन्ते (म. नि. २.२०१ आदयो) देसियमाने देसनानुसारेन ञाणं पेसेत्वा परस्स वड्ढितं भत्तं भुञ्जन्तो विय सावकपारमीञाणस्स मत्थकं पापुणि. इति द्विन्नं अग्गसावकानं सत्थु समीपे एव सावकपारमीञाणं मत्थकं पत्तं.
एवं पत्तसावकपारमीञाणो आयस्मा सारिपुत्तो ‘‘केन कम्मेन अयं सम्पत्ति लद्धा’’ति आवज्जेन्तो तं ञत्वा पीतिसोमनस्सवसेन उदानं उदानेन्तो ‘‘हिमवन्तस्स अविदूरे’’तिआदिमाह. तेन वुत्तं –
१४१. ‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता’’ति.
तत्थ हिमवन्तस्साति हिमो अस्स अत्थीति हिमवा, तस्स हिमवन्तस्स अविदूरे समीपे, हिमालयपटिबद्धवनेहि अत्थो. लम्बको नाम पब्बतोति एवंनामको पंसुमिस्सकपब्बतो. अस्समो सुकतो मय्हन्ति तस्मिं लम्बके पब्बते मय्हं ममत्थाय कतो अस्समो अरञ्ञवासो आसमन्ततो समोति अस्समो. नत्थि पविट्ठानं समो परिस्समो एत्थाति वा अस्समो, सो इत्थम्भूतो अरञ्ञवासो सुट्ठु कतो, रत्तिट्ठानदिवाट्ठानकुटिमण्डपादिवसेन सुन्दरेनाकारेन कतोति अत्थो. पण्णसालाति उसीरपब्बजादीहि पण्णेहि छादिता निवसनपण्णसालाति अत्थो.
१४२. ‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा;
सुसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं’’.
तत्थ उत्तानकूलाति अगम्भीरा नदी. सुपतित्थाति सुन्दरपतित्था. मनोरमा मनल्लीना मनापा. सुसुद्धपुलिनाकिण्णाति सुट्ठु धवलमुत्तादलसदिसवालुकाकिण्णा गहनीभूताति अत्थो. सा इत्थम्भूता नदिका कुन्नदी ममस्समं मय्हं अस्समस्स अविदूरे समीपे अहोसीति अत्थो. ‘‘अस्सम’’न्ति च सत्तम्यत्थे उपयोगवचनन्ति वेदितब्बं.
१४३. ‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका;
सन्दती नदिका तत्थ, सोभयन्ता ममस्समं’’.
तत्थ असक्खराति ‘‘पुलिनाकिण्णा’’ति वुत्तत्ता असक्खरा सक्खरविरहिता. अपब्भाराति पब्भारविरहिता, अगम्भीरकूलाति अत्थो. सादु अप्पटिगन्धिकाति सादुरसोदका दुग्गन्धरहिता मय्हं अस्समपदं सोभयन्ती नदिका खुद्दकनदी सन्दति पवत्ततीति अत्थो.
१४४. ‘‘कुम्भीला मकरा चेत्थ, सुसुमारा च कच्छपा;
सन्दति नदिका तत्थ, सोभयन्ता ममस्समं’’.
तत्थ कुम्भीलमच्छा मकरमच्छा च सुसुमारा चण्डमच्छा च कच्छपमच्छा च एत्थ एतिस्सं नदियं कीळन्ता अहेसुन्ति सम्बन्धो. ममस्समं सोभयन्ता नदिका खुद्दकनदी सन्दति पवत्ततीति सम्बन्धो.
१४५. ‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
वग्गळा पपतायन्ता, सोभयन्ति ममस्समं’’.
पाठीनमच्छा च पावुसा मच्छा च बलजमच्छा च मुञ्जमच्छा रोहितमच्छा च वग्गळमच्छा च एते सब्बे मच्छजातिका इतो चितो च पपतायन्ता नदिया सद्धिं पवत्तन्ता मम अस्समपदं सोभयन्तीति अत्थो.
१४६. ‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा;
उभतो अभिलम्बन्ता, सोभयन्ति ममस्समं’’.
तत्थ उभो कूलेसूति तस्सा नदिया उभोसु पस्सेसु धुवपुप्फिनो धुवफलिनो रुक्खा उभतो अभिलम्बन्ता नदिया उभो तीरे हेट्ठा ओनमन्ता मम अस्समं सोभयन्तीति अत्थो.
१४७. ‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे’’.
तत्थ अम्बाति मधुपिण्डिअम्बा च सालरुक्खा च तिलकरुक्खा च पाटलिरुक्खा च सिन्दुवारकरुक्खा च एते रुक्खा निच्चकालं पुप्फिता पुप्फन्ता. दिब्बा गन्धा इव मम अस्समे सुगन्धा सम्पवन्ति समन्ततो पवायन्तीति अत्थो.
१४८. ‘‘चम्पका सळला नीपा, नागपुन्नागकेतका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे’’.
तत्थ चम्पकरुक्खा च सळलरुक्खा च सुवण्णवट्टलसदिसपुप्फा नीपरुक्खा च नागरुक्खा च पुन्नागरुक्खा च सुगन्धयन्ता केतकरुक्खा च एते सब्बे रुक्खा दिब्बा गन्धारिव मम अस्समे पुप्फिता फुल्लिता सम्पवन्ति सुगन्धं सुट्ठु पवायन्तीति अत्थो.
१४९. असोका च‘‘अधिमुत्ता असोका च, भगिनीमाला च पुप्फिता;
अङ्कोला बिम्बिजाला च, पुप्फिता मम अस्समे’’.
तत्थ पुप्फिता अधिमुत्तकरुक्खा च पुप्फिता असोकरुक्खा च पुप्फिता भगिनीमाला च पुप्फिता अङ्कोला च पुप्फिता बिम्बिजाला च एते रुक्खा मम अस्समे फुल्लिता सोभयन्तीति सम्बन्धो.
१५०. ‘‘केतका कन्दलि चेव, गोधुका तिणसूलिका;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
तत्थ केतकाति सुगन्धकेतकगच्छा च. कन्दलिरुक्खा च गोधुकरुक्खा च तिणसूलिकगच्छा च एते सब्बे रुक्खजातिका दिब्बगन्धं पवायमाना मम अस्समं सकलं सोभयन्तीति अत्थो.
१५१. ‘‘कणिकारा कण्णिका च, असना अज्जुना बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
एते कणिकारादयो रुक्खा मम अस्समं सकलं सोभयन्ता दिब्बगन्धं सम्पवायन्तीति सम्बन्धो.
१५२. ‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
पुन्नागादयो रुक्खा दिब्बगन्धं पवायमाना मम अस्समं सोभयन्तीति अत्थो.
१५३. ‘‘उद्दालका च कुटजा, कदम्बा वकुला बहू;
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं’’.
उद्दालकादयो रुक्खा दिब्बगन्धं वायमाना मम अस्समं सोभयन्तीति सम्बन्धो.
१५४. ‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो;
गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते’’.
तत्थ एते आळकादयो गच्छा चन्दनादिसुगन्धगन्धोदकेन वड्ढित्वा सुवण्णफलानि धारेन्ता मम अस्समं सोभयन्तीति अत्थो.
१५५. ‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी;
अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा’’.
तत्थ अञ्ञे पुप्फन्ति पदुमाति मम अस्समस्स अविदूरे तळाके अञ्ञे एकच्चे पदुमा पुप्फन्ति, एकच्चे केसरी पदुमा जायन्ति निब्बत्तन्ति, एकच्चे पदुमा ओपुप्फा विगलितपत्तकेसराति अत्थो.
१५६. ‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुळालियो;
सिङ्घाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा’’.
तत्थ गब्भं गण्हन्ति पदुमाति तदा तापसेन हुत्वा मम वसनसमये एकच्चे पदुमा तळाकब्भन्तरे मकुळपुप्फादयो गण्हन्ति. मुळालियो पदुममूला निद्धावन्ति इतो कद्दमब्भन्तरतो हत्थिदाठा विय गच्छन्तीति अत्थो. पत्तपुप्फमाकिण्णा गहनीभूता सिङ्घाटियो सोभयन्तीति अत्थो.
१५७. ‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका;
दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा’’.
तदा मम वसनसमये तळाकस्स समीपे नयिता च गच्छा अम्बगन्धी च गच्छा उत्तली नाम गच्छा च बन्धुजीवका च एते सब्बे गच्छा पुप्फिता पुप्फधारिता सुगन्धवाहका तळाकं सोभयन्तीति अत्थो.
१५८. ‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता;
संगुला मग्गुरा चेव, वसन्ति तळाके तदा’’.
तदा मम वसनसमये निब्भीता पाठीनादयो मच्छा तळाके वसन्तीति सम्बन्धो.
१५९. ‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा;
ओगुहा अजगरा च, वसन्ति तळाके तदा’’.
तदा मम वसनसमये मम अस्समसमीपे तळाके एते कुम्भीलादयो मच्छा निब्भीता निरूपद्दवा वसन्तीति सम्बन्धो.
१६०. ‘‘पारेवता रविहंसा, चक्कवाका नदीचरा;
कोकिला सुकसाळिका, उपजीवन्ति तं सरं’’.
तत्थ मम अस्समसमीपे सरं निस्साय पारेवतापक्खी च रविहंसापक्खी च नदीचरा चक्कवाकपक्खी च कोकिलापक्खी च सुकपक्खी च साळिकापक्खी च तं सरं उपनिस्साय जीवन्तीति सम्बन्धो.
१६१. ‘‘कुकुत्थका कुळीरका, वने पोक्खरसातका;
दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं’’.
तत्थ कुकुत्थकाति एवंनामिका पक्खी च. कुळीरकाति एवंनामिका पक्खी च. वने पोक्खरसातका पक्खी च दिन्दिभा पक्खी च सुवपोता पक्खी च एते सब्बे पक्खिनो तं मम अस्समसमीपे सरं निस्साय जीवन्तीति सम्बन्धो.
१६२. ‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका;
पम्मका जीवंजीवा च, उपजीवन्ति तं सरं’’.
सब्बे एते हंसादयो पक्खिनो तं सरं उपनिस्साय जीवन्ति जीविकं पालेन्तीति अत्थो.
१६३. ‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू;
महाकाळा च सकुणा, उपजीवन्ति तं सरं’’.
तत्थ कोसिका च पक्खी पोट्ठसीसा च पक्खी कुररा च पक्खी सेनका च पक्खी महाकाळा च पक्खी थले बहू पक्खिनो तं सरं तस्स सरस्स समीपे जीवन्ति जीविकं कप्पेन्तीति अत्थो.
१६४. ‘‘पसदा च वराहा च, चमरा गण्डका बहू;
रोहिच्चा सुकपोता च, उपजीवन्ति तं सरं’’.
तत्थ पसदादयो एते मिगा तं सरं तस्मिं सरसमीपे, भुम्मत्थे उपयोगवचनं, जीवितं परिपालेन्ता विहरन्तीति अत्थो.
१६५. ‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका;
तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं’’.
एते सीहादयो चतुप्पदा सरसमीपे उपद्दवरहिता जीवन्तीति सम्बन्धो.
१६६. ‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका;
चेता च लुद्दका चेव, उपजीवन्ति तं सरं’’.
एत्थ एते एवंनामिका किन्नरादयो सत्ता तस्मिं सरसमीपे वसन्तीति अत्थो.
१६७. ‘‘तिन्दुकानि पियालानि, मधुकेका सुमारियो;
धुवं फलानि धारेन्ति, अविदूरे ममस्समं’’.
तत्थ एते तिन्दुकादयो रुक्खा धुवं हेमन्तगिम्हवस्सानसङ्खाते कालत्तये मम अस्समतो अविदूरे ठाने मधुरफलानि धारेन्तीति सम्बन्धो.
१६८. ‘‘कोसम्बा सळला निम्बा, सादुफलसमायुता;
धुवं फलानि धारेन्ति, अविदूरे ममस्समं’’.
तत्थ एते कोसम्बादयो रुक्खा सारफला मधुरफला उत्तमफला समायुता सं सुट्ठु आयुता समङ्गीभूता निच्चं फलधारिनो मम अस्समसमीपे सोभन्तीति अत्थो.
१६९. ‘‘हरीतका आमलका, अम्बजम्बुविभीतका;
कोला भल्लातका बिल्ला, फलानि धारयन्ति ते’’.
ते हरीतकादयो रुक्खा मम अस्समसमीपे जाता निच्चं फलानि धारयन्तीति सम्बन्धो.
१७०. ‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च;
जीवका सुतका चेव, बहूका मम अस्समे’’.
एते आलुवादयो मूलफला खुद्दा मधुरसा मम अस्समसमीपे बहू सन्तीति सम्बन्धो.
१७१. ‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता;
अच्छोदका सीतजला, सुपतित्था मनोरमा’’.
तत्थ अस्समस्साविदूरम्हि अस्समस्स समीपे सुनिम्मिता सुट्ठु आरोहनओरोहनक्खमं कत्वा निम्मिता अच्छोदका विप्पसन्नोदका सीतजला सीतोदका सुपतित्था सुन्दरतित्था मनोरमा सोमनस्सकरा तळाका आसुं अहेसुन्ति अत्थो.
१७२. ‘‘पदुमुप्पलसञ्छन्ना, पुण्डरीकसमायुता;
मन्दालकेहि सञ्छन्ना, दिब्बगन्धोपवायति’’.
तत्थ पदुमेहि च उप्पलेहि च सञ्छन्ना परिपुण्णा पुण्डरीकेहि समायुता समङ्गीभूता मन्दालकेहि च सञ्छन्ना गहनीभूता तळाका दिब्बगन्धानि उपवायन्ति समन्ततो वायन्तीति अत्थो.
१७३. ‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने;
सुकते अस्समे रम्मे, विहरामि अहं तदा’’.
तत्थ एवं सब्बङ्गसम्पन्नेति अब्बेहि नदिकादिअवयवेहि सम्पन्ने परिपुण्णे पुप्फफलरुक्खेहि गहनीभूते वने सुकते रमणीये अस्समे अरञ्ञावासे तदा तापसभूतकाले अहं विहरामीति अत्थो.
एत्तावता अस्समसम्पत्तिं दस्सेत्वा इदानि अत्तनो सीलादिगुणसम्पत्तिं दस्सेन्तो –
१७४. ‘‘सीलवा वतसम्पन्नो, झायी झानरतो सदा;
पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो’’ति. – आह;
तत्थ सीलवाति झानसम्पयुत्तचतुपारिसुद्धिसीलसदिसेहि पञ्चहि सीलेहि सम्पुण्णोति अत्थो. वतसम्पन्नोति ‘‘इतो पट्ठाय घरावासं पञ्च कामगुणे वा न सेविस्सामी’’ति वतसमादानेन सम्पन्नो. झायीति लक्खणूपनिज्झानआरम्मणूपनिज्झानेहि झायी झायनसीलो. झानरतोति एतेसु झानेसु रतो अल्लीनो सदा सम्पुण्णो. पञ्चाभिञ्ञाबलप्पत्तोति इद्धिविधदिब्बसोतपरचित्तविजाननपुब्बेनिवासानुस्सतिदिब्बचक्खुसङ्खाताहि पञ्चहि अभिञ्ञाहि विसेसपञ्ञाहि बलसम्पन्नो, परिपुण्णोति अत्थो. नामेन सुरुचि नाम तापसो हुत्वा विहरामीति सम्बन्धो.
एत्तकेन अत्तनो गुणसम्पत्तिं दस्सेत्वा परिससम्पत्तिं दस्सेन्तो –
१७५. ‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहुं;
सब्बे मं ब्राह्मणा एते, जातिमन्तो यसस्सिनो’’ति. – आदिमाह;
तत्थ एते सब्बे चतुवीसतिसहस्सब्राह्मणा मय्हं सिस्सा जातिमन्तो जातिसम्पन्ना यसस्सिनो परिवारसम्पन्ना मं उपट्ठहुन्ति सम्बन्धो.
१७६. ‘‘लक्खणे इतिहासे च, सनिघण्डुसकेटुभे;
पदका वेय्याकरणा, सधम्मे पारमिं गता’’.
तत्थ लक्खणेति लक्खणसत्थे. सब्बलोकियानं इत्थिपुरिसानं ‘‘इमेहि लक्खणेहि समन्नागता दुक्खिता भवन्ति, इमेहि सुखिता भवन्ती’’ति लक्खणं जानाति. तप्पकासको गन्थो लक्खणं, तस्मिं लक्खणे च. इतिहासेति ‘‘इतिह आस इतिह आसा’’ति वुत्तवचनपटिदीपके गन्थे. लक्खणे च इतिहासे च पारमिं परियोसानं गताति सम्बन्धो. रुक्खपब्बतादीनं नामप्पकासकगन्थं ‘‘निघण्डू’’ति वुच्चति. केटूभेति किरियाकप्पविकप्पानं कवीनं उपकारको गन्थो. निघण्डुया सह वत्ततीति सनिघण्डु, केटुभेन सह वत्ततीति सकेटुभं, तस्मिं सनिघण्डुसकेटुभे वेदत्तये पारमिं गताति सम्बन्धो. पदकाति नामपदसमासतद्धिताख्यातकितकादिपदेसु छेका. वेय्याकरणानि चन्दपाणिनीयकलापादिब्याकरणे छेका. सधम्मे पारमिं गताति अत्तनो धम्मे ब्राह्मणधम्मे वेदत्तये पारमिं परियोसानं गता पत्ताति अत्थो.
१७७. ‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा;
पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता’’.
तत्थ उक्कापातभूमिकम्पादिकेसु उप्पातेसु च सुभनिमित्तासुभनिमित्तेसु च इत्थिलक्खणपुरिसलक्खणमहापुरिसलक्खणेसु च कोविदा छेका. पथविया च भूमिया च सकललोके च अन्तलिक्खे आकासे चाति सब्बत्थ मम सिस्सा सुसिक्खिता.
१७८. ‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा;
लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा’’.
तत्थ अप्पिच्छाति अप्पकेनापि यापेन्ता. निपकाति नेपक्कसङ्खाताय पञ्ञाय समन्नागता. अप्पाहाराति एकाहारा एकभत्तिकाति अत्थो. अलोलुपाति लोलुपतण्हाय अप्पवत्तनका. लाभालाभेनाति लाभेन अलाभेन च सन्तुट्ठा सोमनस्सा एते मम सिस्सा सदा निच्चकालं मं परिवारेन्ति उपट्ठहन्तीति अत्थो.
१७९. ‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता;
आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा’’.
तत्थ झायीति लक्खणूपनिज्झानआरम्मणूपनिज्झानेहि समन्नागता. झायनसीला वा. झानरताति तेसु च झानेसु रता अल्लीना. धीराति धितिसम्पन्ना. सन्तचित्ताति वूपसन्तमना. समाहिताति एकग्गचित्ता. आकिञ्चञ्ञन्ति निप्पलिबोधभावं. पत्थयन्ताति इच्छन्ता. इत्थम्भूता मे सिस्सा सदा मं परिवारेन्तीति सम्बन्धो.
१८०. ‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता;
अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा’’.
तत्थ अभिञ्ञापारमिप्पत्ताति पञ्चसु अभिञ्ञासु पारमिं परियोसानं पत्ता पूरिताति अत्थो. पेत्तिके गोचरे रताति बुद्धानुञ्ञाताय अविञ्ञत्तिया लद्धे आहारे रताति अत्थो. अन्तलिक्खचराति अन्तलिक्खेन आकासेन गच्छन्ता आगच्छन्ता चाति अत्थो. धीराति थिरभूता सीहब्यग्घादिपरिस्सये अच्छम्भितसभावाति अत्थो. एवंभूता मम तापसा सदा मं परिवारेन्तीति अत्थो.
१८१. ‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया;
असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा’’.
तत्थ चक्खादीसु छसु द्वारेसु रूपादीसु छसु आरम्मणेसु संवुता पिहिता पटिच्छन्ना, रक्खितगोपितद्वाराति अत्थो. अनेजा नित्तण्हा रक्खितिन्द्रिया गोपितचक्खादिइन्द्रिया असंसट्ठा ञातीहि गहट्ठेहि अमिस्सीभूताति अत्थो. दुरासदाति दुट्ठु आसदा, आसादेतुं घट्टेतुं असक्कुणेय्या अयोग्गाति अत्थो.
१८२. ‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च;
वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा’’.
तत्थ मम सिस्सा पल्लङ्केन ऊरुबद्धासनेन सेय्यं विहाय निसज्जाय च ठानेन च चङ्कमेन च सकलं रत्तिं विसेसेन अतिनामेन्ति अतिक्कामेन्तीति सम्बन्धो.
१८३. ‘‘रजनीये न रज्जन्ति, दुस्सनीये न दुस्सरे;
मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा’’.
ते इत्थम्भूता मम सिस्सा तापसा रजनीये रज्जितब्बे वत्थुस्मिं न रज्जन्ति रज्जं न उप्पादेन्ति. दुस्सनीये दुस्सितब्बे दोसं उप्पादेतुं युत्ते वत्थुम्हि न दुस्सरे दोसं न करोन्ति. मोहनीये मोहितुं युत्ते वत्थुम्हि न मुय्हन्ति मोहं न करोन्ति, पञ्ञासम्पयुत्ता भवन्तीति अत्थो.
१८४. ‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकं;
पथविं ते पकम्पेन्ति, सारम्भेन दुरासदा’’.
ते मम सिस्सा ‘‘एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होती’’तिआदिकं (पटि. म. १.१०२) इद्धिविकुब्बनं निच्चकालिकं वीमंसमाना वत्तन्तीति सम्बन्धो. ते मम सिस्सा आकासेपि उदकेपि पथविं निम्मिनित्वा इरियापथं पकम्पेन्तीति अत्थो. सारम्भेन युगग्गाहेन कलहकरणेन न आसादेतब्बाति अत्थो.
१८५. ‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितं;
जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा’’.