३. पञ्हापुच्छकवण्णना
४६२. पञ्हापुच्छके पाळिअनुसारेनेव इद्धिपादानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बेपेते अप्पमाणं निब्बानं आरब्भ पवत्तितो अप्पमाणारम्मणा एव, न मग्गारम्मणा; सहजातहेतुवसेन पन मग्गहेतुका, न मग्गाधिपतिनो. चत्तारो हि अधिपतयो अञ्ञमञ्ञं गरुं न करोन्ति. कस्मा? सयं जेट्ठकत्ता. यथा हि समजातिका समवया समथामा समसिप्पा चत्तारो राजपुत्ता अत्तनो अत्तनो जेट्ठकताय अञ्ञमञ्ञस्स अपचितिं न करोन्ति, एवमिमेपि चत्तारो अधिपतयो पाटियेक्कं पाटियेक्कं जेट्ठकधम्मताय अञ्ञमञ्ञं गरुं न करोन्तीति एकन्तेनेव न मग्गाधिपतिनो. अतीतादीसु एकारम्मणभावेपि न वत्तब्बा. निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणा नाम होन्तीति. एवमेतस्मिं पञ्हापुच्छके निब्बत्तितलोकुत्तराव इद्धिपादा कथिता. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव लोकियलोकुत्तरमिस्सका इद्धिपादा कथिता, अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेवाति. एवमयं इद्धिपादविभङ्गोपि तेपरिवट्टं नीहरित्वाव दस्सितोति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
इद्धिपादविभङ्गवण्णना निट्ठिता.