३. पञ्हापुच्छकवण्णना

३८६. पञ्हापुच्छके पाळिअनुसारेनेव सतिपट्ठानानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन सब्बानिपि एतानि अप्पमाणं निब्बानं आरब्भ पवत्तनतो अप्पमाणारम्मणानेव, न मग्गारम्मणानि; सहजातहेतुवसेन पन मग्गहेतुकानि; वीरियं वा वीमंसं वा जेट्ठकं कत्वा मग्गभावनाकाले मग्गाधिपतीनि; छन्दचित्तजेट्ठकाय मग्गभावनाय नवत्तब्बानि मग्गाधिपतीनीति फलकालेपि नवत्तब्बानेव; अतीतादीसु एकारम्मणभावेनपि नवत्तब्बानि; निब्बानस्स पन बहिद्धाधम्मत्ता बहिद्धारम्मणानि नाम होन्तीति. एवमेतस्मिं पञ्हापुच्छके निब्बत्तितलोकुत्तरानेव सतिपट्ठानानि कथितानि. सम्मासम्बुद्धेन हि सुत्तन्तभाजनीयस्मिंयेव लोकियलोकुत्तरमिस्सका सतिपट्ठाना कथिता; अभिधम्मभाजनीयपञ्हापुच्छकेसु पन लोकुत्तरायेवाति. एवमयं सतिपट्ठानविभङ्गोपि तेपरिवट्टं नीहरित्वा भाजेत्वा दस्सितोति.

सम्मोहविनोदनिया विभङ्गट्ठकथाय

सतिपट्ठानविभङ्गवण्णना निट्ठिता.