१. सुत्तन्तभाजनीयं

१. सङ्गहवारवण्णना

७१८. इदानि तदनन्तरे पटिसम्भिदाविभङ्गे चतस्सोति गणनपरिच्छेदो. पटिसम्भिदाति पभेदा. यस्मा पन परतो अत्थे ञाणं अत्थपटिसम्भिदातिआदिमाह, तस्मा न अञ्ञस्स कस्सचि पभेदा, ञाणस्सेव पभेदाति वेदितब्बा. इति ‘‘चतस्सो पटिसम्भिदा’’ति पदेन चत्तारो ञाणप्पभेदाति अयमत्थो सङ्गहितो. अत्थपटिसम्भिदाति अत्थे पटिसम्भिदा; अत्थप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणन्ति अत्थो. सेसपदेसुपि एसेव नयो. धम्मप्पभेदस्स हि सल्लक्खणविभावनाववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा नाम. निरुत्तिप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा नाम. पटिभानप्पभेदस्स सल्लक्खणविभावनाववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा नाम.

इदानि यथानिक्खित्ता पटिसम्भिदा भाजेत्वा दस्सेन्तो अत्थे ञाणं अत्थपटिसम्भिदातिआदिमाह. तत्थ अत्थोति सङ्खेपतो हेतुफलं. तञ्हि हेतुवसेन अरणीयं गन्तब्बं पत्तब्बं, तस्मा अत्थोति वुच्चति. पभेदतो पन यंकिञ्चि पच्चयसमुप्पन्नं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा. तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा.

धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा. तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा.

तत्र धम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति, तस्सा अभिलापे तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्तिआरम्मणा. कस्मा? यस्मा सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानन्ति. पटिसम्भिदाप्पत्तो हि ‘‘फस्सो’’ति वुत्ते ‘‘अयं सभावनिरुत्ती’’ति जानाति, ‘‘फस्सा’’ति वा ‘‘फस्स’’न्ति वा वुत्ते पन ‘‘अयं न सभावनिरुत्ती’’ति जानाति. वेदनादीसुपि एसेव नयो. अञ्ञं पनेस नामआख्यातउपसग्गब्यञ्जनसद्दं जानाति न जानातीति? यदग्गेन सद्दं सुत्वा ‘‘अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती’’ति जानाति, तदग्गेन तम्पि जानिस्सतीति. तं पन नयिदं पटिसम्भिदाकिच्चन्ति पटिक्खिपित्वा इदं वत्थु कथितं –

तिस्सदत्तत्थेरो किर बोधिमण्डे सुवण्णसलाकं गहेत्वा अट्ठारससु भासासु ‘कतरभासाय कथेमी’ति पवारेसि. तं पन तेन अत्तनो उग्गहे ठत्वा पवारितं, न पटिसम्भिदाय ठितेन. सो हि महापञ्ञताय तं तं भासं कथापेत्वा कथापेत्वा उग्गण्हि; ततो उग्गहे ठत्वा एवं पवारेसि.

भासं नाम सत्ता उग्गण्हन्तीति वत्वा च पनेत्थ इदं कथितं. मातापितरो हि दहरकाले कुमारके मञ्चे वा पीठे वा निपज्जापेत्वा तं तं कथयमाना तानि तानि किच्चानि करोन्ति. दारका तेसं तं तं भासं ववत्थापेन्ति – इमिना इदं वुत्तं, इमिना इदं वुत्तन्ति. गच्छन्ते गच्छन्ते काले सब्बम्पि भासं जानन्ति. माता दमिळी, पिता अन्धको. तेसं जातो दारको सचे मातुकथं पठमं सुणाति, दमिळभासं भासिस्सति; सचे पितुकथं पठमं सुणाति, अन्धकभासं भासिस्सति. उभिन्नम्पि पन कथं अस्सुणन्तो मागधभासं भासिस्सति.

योपि अगामके महारञ्ञे निब्बत्तो, तत्थ अञ्ञो कथेन्तो नाम नत्थि, सोपि अत्तनो धम्मताय वचनं समुट्ठापेन्तो मागधभासमेव भासिस्सति. निरये, तिरच्छानयोनियं, पेत्तिविसये, मनुस्सलोके, देवलोकेति सब्बत्थ मागधभासाव उस्सन्ना. तत्थ सेसा ओट्टकिरातअन्धकयोनकदमिळभासादिका अट्ठारस भासा परिवत्तन्ति. अयमेवेका यथाभुच्चब्रह्मवोहारअरियवोहारसङ्खाता मागधभासा न परिवत्तति. सम्मासबुद्धोपि तेपिटकं बुद्धवचनं तन्तिं आरोपेन्तो मागधभासाय एव आरोपेसि. कस्मा? एवञ्हि अत्थं आहरितुं सुखं होति. मागधभासाय हि तन्तिं आरुळ्हस्स बुद्धवचनस्स पटिसम्भिदाप्पत्तानं सोतपथागमनमेव पपञ्चो; सोते पन सङ्घट्टितमत्तेयेव नयसतेन नयसहस्सेन अत्थो उपट्ठाति. अञ्ञाय पन भासाय तन्तिं आरुळ्हं पोथेत्वा पोथेत्वा उग्गहेतब्बं होति. बहुम्पि उग्गहेत्वा पन पुथुज्जनस्स पटिसम्भिदाप्पत्ति नाम नत्थि. अरियसावको नो पटिसम्भिदाप्पतो नाम नत्थि.

ञाणेसु ञाणन्ति सब्बत्थकञाणं आरम्मणं कत्वा ञाणं पच्चवेक्खन्तस्स पभेदगतं ञाणं पटिभानपटिसम्भिदाति. इमा पन चतस्सोपि पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति, पञ्चहि कारणेहि विसदा होन्तीति वेदितब्बा. कतमेसु द्वीसु? सेक्खभूमियञ्च असेक्खभूमियञ्च. तत्थ सारिपुत्तत्थेरस्स महामोग्गल्लानत्थेरस्स महाकस्सपत्थेरस्स महाकच्चायनत्थेरस्स महाकोट्ठितत्थेरस्साति असीतियापि महाथेरानं पटिसम्भिदा असेक्खभूमियं पभेदं गता. आनन्दत्थेरस्स चित्तस्स गहपतिनो धम्मिकस्स उपासकस्स उपालिस्स गहपतिनो खुज्जुत्तराय उपासिकायाति एवमादीनं पटिसम्भिदा सेक्खभूमियं पभेदं गताति इमासु द्वीसु भूमीसु पभेदं गच्छन्ति.

कतमेहि पञ्चहि कारणेहि पटिसम्भिदा विसदा होन्तीति? अधिगमेन, परियत्तिया, सवनेन, परिपुच्छाय, पुब्बयोगेनाति. तत्थ ‘अधिगमो’ नाम अरहत्तं. तञ्हि पत्तस्स पटिसम्भिदा विसदा होन्ति. ‘परियत्ति’ नाम बुद्धवचनं. तञ्हि उग्गण्हन्तस्स पटिसम्भिदा विसदा होन्ति. ‘सवनं’ नाम धम्मस्सवनं. सक्कच्चञ्हि धम्मं सुणन्तस्स पटिसम्भिदा विसदा होन्ति. ‘परिपुच्छा’ नाम अट्ठकथा. उग्गहितपाळिया अत्थं कथेन्तस्स हि पटिसम्भिदा विसदा होन्ति. ‘पुब्बयोगो’ नाम पुब्बयोगावचरता, अतीतभवे हरणपच्चाहरणनयेन परिग्गहितकम्मट्ठानता; पुब्बयोगावचरस्स हि पटिसम्भिदा विसदा होन्ति. तत्थ अरहत्तप्पत्तिया पुनब्बसुकुटुम्बिकपुत्तस्स तिस्सत्थेरस्स पटिसम्भिदा विसदा अहेसुं. सो किर तम्बपण्णिदीपे बुद्धवचनं उग्गण्हित्वा परतीरं गन्त्वा योनकधम्मरक्खितत्थेरस्स सन्तिके बुद्धवचनं उग्गण्हित्वा आगच्छन्तो नावं अभिरुहनतित्थे एकस्मिं पदे उप्पन्नकङ्खो योजनसतमग्गं निवत्तित्वा आचरियस्स सन्तिकं गच्छन्तो अन्तरामग्गे एकस्स कुटुम्बिकस्स पञ्हं कथेसि. सो पसीदित्वा सतसहस्सग्घनिकं कम्बलं अदासि. सोपि तं आहरित्वा आचरियस्स अदासि. थेरो वासिया कोट्टेत्वा निसीदनट्ठाने परिभण्डं कारेसि. किमत्थायाति? पच्छिमाय जनताय अनुग्गहत्थायाति. एवं किरस्स अहोसि – ‘‘अम्हाकं गतमग्गं आवज्जेत्वा अनागते सब्रह्मचारिनो पटिपत्तिं पूरेतब्बं मञ्ञिस्सन्ती’’ति. तिस्सत्थेरोपि आचरियस्स सन्तिके कङ्खं छिन्दित्वा जम्बुकोलपट्टने ओरुय्ह चेतियङ्गणं सम्मज्जनवेलाय वालिकविहारं पत्वा सम्मज्जि. तस्स सम्मज्जितट्ठानं दिस्वा ‘इदं वीतरागस्स भिक्खुनो सम्मट्ठट्ठान’न्ति थेरस्स वीमंसनत्थाय पञ्हं पुच्छिंसु. थेरो पटिसम्भिदाप्पत्तताय पुच्छितपुच्छिते पञ्हे कथेसीति.

परियत्तिया पन तिस्सदत्तत्थेरस्स चेव नागसेनत्थेरस्स च पटिसम्भिदा विसदा अहेसुं. सक्कच्चधम्मसवनेन सुधम्मसामणेरस्स पटिसम्भिदा विसदा अहेसुं. सो किर तलङ्गरवासी धम्मदिन्नत्थेरस्स भागिनेय्यो खुरग्गेयेव अरहत्तं पत्तो मातुलत्थेरस्स धम्मविनिच्छयट्ठाने निसीदित्वा सुणन्तोयेव तीणि पिटकानि पगुणानि अकासि. उग्गहितपाळिया अत्थं कथेन्तस्स पन तिस्सदत्तत्थेरस्स एव पटिसम्भिदा विसदा अहेसुं. गतपच्चागतवत्तं पन पूरेत्वा याव अनुलोमं कम्मट्ठानं उस्सुक्कापेत्वा आगतानं विसदभावप्पत्तपटिसम्भिदानं पुब्बयोगावचरानं अन्तो नत्थि.

एतेसु पन कारणेसु परियत्ति, सवनं, परिपुच्छाति इमानि तीणि पभेदस्सेव बलवकारणानि. पुब्बयोगो अधिगमस्स बलवपच्चयो, पभेदस्स होति न होतीति? होति, न पन तथा. परियत्तिसवनपरिपुच्छा हि पुब्बे होन्तु वा मा वा, पुब्बयोगेन पुब्बे चेव एतरहि च सङ्खारसम्मसनं विना पटिसम्भिदा नाम नत्थि. इमे पन द्वेपि एकतो हुत्वा पटिसम्भिदा उपत्थम्भेत्वा विसदा करोन्तीति.

सङ्गहवारवण्णना.

२. सच्चवारादिवण्णना

७१९. इदानि ये सङ्गहवारे पञ्च अत्था च धम्मा च सङ्गहिता, तेसं पभेददस्सननयेन पटिसम्भिदा विभजितुं पुन चतस्सोतिआदिना नयेन पभेदवारो आरद्धो. सो सच्चवारहेतुवारधम्मवारपच्चयाकारवारपरियत्तिवारवसेन पञ्चविधो. तत्थ पच्चयसमुप्पन्नस्स दुक्खसच्चस्स पच्चयेन पत्तब्बस्स निब्बानस्स च अत्थभावं, फलनिब्बत्तकस्स समुदयस्स निब्बानसम्पापकस्स अरियमग्गस्स च धम्मभावञ्च दस्सेतुं ‘सच्चवारो’ वुत्तो. यस्स कस्सचि पन हेतुफलनिब्बत्तकस्स हेतुनो धम्मभावं, हेतुफलस्स च अत्थभावं दस्सेतुं ‘हेतुवारो’ वुत्तो. तत्थ च हेतुफलक्कमवसेन उप्पटिपाटिया पठमं धम्मपटिसम्भिदा निद्दिट्ठा. ये पन धम्मा तम्हा तम्हा रूपारूपप्पभेदा हेतुतो जाता, तेसं अत्थभावं, तस्स तस्स च रूपारूपधम्मप्पभेदस्स हेतुनो धम्मभावं दस्सेतुं ‘धम्मवारो’ वुत्तो. जरामरणादीनं पन अत्थभावं, जरामरणादिसमुदयसङ्खातानं जातिआदीनञ्च धम्मभावं दस्सेतुं ‘पच्चयाकारवारो’ वुत्तो. ततो परियत्तिसङ्खातस्स तस्स तस्स भासितस्स धम्मभावं, भासितसङ्खातेन पच्चयेन पत्तब्बस्स भासितत्थस्स च अत्थभावं दस्सेतुं ‘परियत्तिवारो’ वुत्तो.

तत्थ च यस्मा भासितं ञत्वा तस्सत्थो ञायति, तस्मा भासितभासितत्थक्कमेन उप्पटिपाटिया पठमं धम्मपटिसम्भिदा निद्दिट्ठा. परियत्तिधम्मस्स च पभेददस्सनत्थं ‘‘तत्थ कतमा धम्मपटिसम्भिदा’’ति पुच्छापुब्बङ्गमो पटिनिद्देसवारो वुत्तो. तत्थ सुत्तन्तिआदीहि नवहि अङ्गेहि निप्पदेसतो तन्ति गहिता. अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थोति इमस्मिम्पि ठाने भासितवसेन निप्पदेसतो तन्ति एव गहिताति.

सुत्तन्तभाजनीयवण्णना.