३. पञ्हापुच्छकवण्णना
७१४. पञ्हापुच्छके पाळिअनुसारेनेव सिक्खापदानं कुसलादिभावो वेदितब्बो. आरम्मणत्तिकेसु पन यानि सिक्खापदानि एत्थ सत्तारम्मणानीति वुत्तानि, तानि यस्मा सत्तोति सङ्खं गते सङ्खारेयेव आरम्मणं करोन्ति, यस्मा च सब्बानिपि एतानि सम्पत्तविरतिवसेनेव निद्दिट्ठानि, तस्मा ‘‘परित्तारम्मणा’’ति च ‘‘पच्चुप्पन्नारम्मणा’’ति च वुत्तं. यतो पन विरमति तस्स वत्थुनो अच्चन्तबहिद्धत्ता सब्बेसम्पि बहिद्धारम्मणता वेदितब्बाति.
इमस्मिं पन सिक्खापदविभङ्गे सम्मासम्बुद्धेन अभिधम्मभाजनीयेपि पञ्हापुच्छकेपि लोकियानेव सिक्खापदानि कथितानि. उभोपि हि एते नया लोकियत्ता एकपरिच्छेदा एव. एवमयं सिक्खापदविभङ्गो द्वेपरिवट्टं नीहरित्वाव भाजेत्वा दस्सितोति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
सिक्खापदविभङ्गवण्णना निट्ठिता.