३. पञ्हापुच्छकवण्णना
१५०. इदानि पञ्हापुच्छकं होति. तत्थ पञ्हापुच्छने पञ्चन्नं खन्धानं ‘‘कतिकुसला? कतिअकुसला? कतिअब्याकता’’तिआदिना नयेन यं लब्भति, यञ्च न लब्भति, तं सब्बं पुच्छित्वा विस्सज्जने ‘‘रूपक्खन्धो अब्याकतो’’तिआदिना नयेन यं लब्भति तदेव उद्धटन्ति वेदितब्बं. यत्थ यत्थ च ‘एको खन्धो’ति वा ‘द्वे खन्धा’ति वा परिच्छेदं अकत्वा ‘‘सिया उप्पन्ना, सिया अनुप्पन्ना’’तिआदिना नयेन तन्ति ठपिता, तत्थ तत्थ पञ्चन्नम्पि खन्धानं गहणं वेदितब्बं. सेसो तेसं तेसं खन्धानं कुसलादिविभागो हेट्ठा धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. ९८५) वुत्तोयेव.
आरम्मणत्तिकेसु पन चत्तारो खन्धा पञ्चपण्णास कामावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स सम्मसन्तस्स पच्चवेक्खन्तस्स च परित्तारम्मणा होन्ति, सत्तवीसति रूपारूपावचरधम्मे आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स महग्गतारम्मणा, मग्गफलनिब्बानानि पच्चवेक्खन्तस्स अप्पमाणारम्मणा, पञ्ञत्तिं पच्चवेक्खणकाले नवत्तब्बारम्मणाति.
तेयेव सेक्खासेक्खानं मग्गपच्चवेक्खणकाले मग्गारम्मणा होन्ति, मग्गकाले सहजातहेतुना मग्गहेतुका, मग्गं गरुं कत्वा पच्चवेक्खणकाले आरम्मणाधिपतिना मग्गाधिपतिनो, वीरियजेट्ठकं वा वीमंसजेट्ठकं वा मग्गं भावेन्तस्स सहजाताधिपतिना मग्गाधिपतिनो, छन्दजेट्ठकं पन चित्तजेट्ठकं वा भावेन्तस्स नवत्तब्बारम्मणा नाम होन्ति.
अतीतानि पन खन्धधातुआयतनानि आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स अतीतारम्मणा होन्ति, अनागतानि आरब्भ अनागतारम्मणा होन्ति, पच्चुप्पन्नानि आरब्भ पच्चुप्पन्नारम्मणा होन्ति, पञ्ञत्तिं वा निब्बानं वा पच्चवेक्खन्तस्स नवत्तब्बारम्मणा होन्ति.
तथा अत्तनो खन्धधातुआयतनानि आरब्भ रज्जन्तस्स दुस्सन्तस्स मुय्हन्तस्स संवरन्तस्स परिग्गहं पट्ठपेन्तस्स अज्झत्तारम्मणा होन्ति, परेसं खन्धधातुआयतनानि आरब्भ एवं पवत्तेन्तस्स बहिद्धारम्मणा, पण्णत्तिनिब्बानपच्चवेक्खणकालेपि बहिद्धारम्मणायेव, कालेन अज्झत्तं कालेन बहिद्धा धम्मेसु एवं पवत्तेन्तस्स अज्झत्तबहिद्धारम्मणा, आकिञ्चञ्ञायतनकाले नवत्तब्बारम्मणाति वेदितब्बा.
इति भगवा इमं खन्धविभङ्गं सुत्तन्तभाजनीयादिवसेन तयो परिवट्टे नीहरित्वा भाजेन्तो दस्सेसि. तीसुपि हि परिवट्टेसु एकोव परिच्छेदो. रूपक्खन्धो हि सब्बत्थ कामावचरोयेव. चत्तारो खन्धा चतुभूमका लोकियलोकुत्तरमिस्सका कथिताति.
सम्मोहविनोदनिया विभङ्गट्ठकथाय
खन्धविभङ्गवण्णना निट्ठिता.