२. दुकनिद्देसवण्णना
४५. दुकनिद्देसे कोधनोति कुज्झनसीलो महाकोधो. एवं पुग्गलं पुच्छित्वापि धम्मेन पुग्गलं दस्सेतुं तत्थ कतमो कोधोतिआदिमाह. उपनाहीनिद्देसादीसुपि एसेव नयो. कोधो कुज्झनातिआदीनि हेट्ठा वुत्तत्थानेव. तथा उपनाहीनिद्देसादीसु पुब्बकालं कोधोतिआदीनि. अयं कोधो अप्पहीनोति अयं एत्तको कोधो विक्खम्भनप्पहानेन वा तदङ्गप्पहानेन वा समुच्छेदप्पहानेन वा अप्पहीनो. परतो उपनाहादीसुपि एसेव नयो.
५३. अहिरिकनिद्देसादीसु – इमिना अहिरिकेनाति इमिना एवंपकारेन अहिरिकधम्मेन समन्नागतो. इमिना अनोत्तप्पेनातिआदीसुपि एसेव नयो.
६३. अज्झत्तसंयोजनोति अज्झत्तबन्धनो. बहिद्धासंयोजनोति बहिद्धाबन्धनो. ते उभोपि वच्छकसालूपमाय दीपेतब्बा. वच्छकसालाय हि अन्तो बद्धो अन्तोयेव सयितवच्छको विय इधट्ठकसोतापन्नसकदागामिनो. तेसञ्हि बन्धनम्पि इधेव, सयम्पि इधेव. अन्तो बद्धो पन बहि सयितवच्छको विय रूपारूपभवे सोतापन्नसकदागामिनो. तेसञ्हि बन्धनमेव इध, सयं पन ब्रह्मलोके ठिता. बहि बद्धो बहि सयितवच्छको विय रूपारूपभवे अनागामी. तस्स हि बन्धनम्पि बहिद्धा, सयम्पि बहिद्धाव. बहि बद्धो पन अन्तोसयितवच्छको विय इधट्ठकअनागामी. तस्स हि बन्धनं रूपारूपभवेसु, सयं पन इध ठितो.
६५. अक्कोधननिद्देसादीसु – पहीनोति विक्खम्भनप्पहानेन वा, तदङ्गप्पहानेन वा, समुच्छेदप्पहानेन वा पहीनो.
८३. दुल्लभनिद्देसे – दुल्लभाति न सुलभा. पुब्बकारीति पठममेव कारको. कतवेदीति कतं वेदेति, विदितं पाकटं करोति. ते अगारियानगारियेहि दीपेतब्बा. अगारियेसु हि मातापितरो पुब्बकारिनो नाम. पुत्तधीतरो पन मातापितरो पटिजग्गन्ता अभिवादनादीनि तेसं कुरुमाना कतवेदिनो नाम. अनगारियेसु आचरियुपज्झाया पुब्बकारिनो नाम. अन्तेवासिकसद्धिविहारिका आचरियुपज्झाये पटिजग्गन्ता अभिवादनादीनि तेसं कुरुमाना कतवेदिनो नाम. तेसं आविभावत्थाय उपज्झायपोसकसोणत्थेरादीनं वत्थूनि कथेतब्बानि.
अपरो नयो – परेन अकतेयेव उपकारे अत्तनि कतं उपकारं अनपेक्खित्वा कारको पुब्बकारी, सेय्यथापि मातापितरो चेव आचरियुपज्झाया च. सो दुल्लभो; सत्तानं तण्हाभिभूतत्ता. परेन कतस्स उपकारस्स अनुरूपप्पवत्तिं अत्तनि कतं उपकारं उपकारतो जानन्तो, वेदियन्तो, कतञ्ञुकतवेदी. सेय्यथापि मातापितुआचरियुपज्झायेसु सम्मा पटिपन्नो. सोपि दुल्लभो; सत्तानं अविज्जाभिभूतत्ता.
अपिच – अकारणवच्छलो पुब्बकारी, सकारणवच्छलो कतञ्ञुकतवेदी. ‘करिस्सति मे’ति एवमादिकारणनिरपेक्खकिरियो पुब्बकारी. ‘करिस्सति मे’ति एवमादिकारणसापेक्खकिरियो कतञ्ञुकतवेदी. तमोजोतिपरायणो पुब्बकारी, जोतिजोतिपरायणो कतञ्ञुकतवेदी. देसेता पुब्बकारी, पटिपज्जिता कतञ्ञुकतवेदी. सदेवके लोके अरहं सम्मासम्बुद्धो पुब्बकारी, अरियसावको कतञ्ञुकतवेदीति. दुकनिपातट्ठकथायं (अ. नि. अट्ठ. २.२.१२०) पन – ‘‘‘पुब्बकारी’ति पठमं उपकारस्स कारको, ‘कतञ्ञुकतवेदी’ति तेन कतं ञत्वा पच्छा कारको. तेसु पुब्बकारी इणं देमीति सञ्ञं करोति, पच्छाकारको ‘इणं जीरापेमी’ति सञ्ञं करोती’’ति एत्तकमेव वुत्तं.
८४. दुत्तप्पयनिद्देसे – दुत्तप्पयाति अतप्पया, न सक्का केनचि तप्पेतुं. यो हि उपट्ठाककुलं वा ञातिकुलं वा निस्साय वसमानो चीवरे जिण्णे तेहि दिन्नं चीवरं निक्खिपति, न परिभुञ्जति. पुनप्पुनं दिन्नम्पि गहेत्वा निक्खिपतेव. यो च तेनेव नयेन लद्धं लद्धं विस्सज्जेति परस्स देति. पुनप्पुनं लद्धम्पि तथेव करोति. इमे द्वे पुग्गला सकटेहिपि पच्चये उपनेन्तेन तप्पेतुं न सक्काति दुत्तप्पया नाम.
८५. सुतप्पयनिद्देसे – न विस्सज्जेतीति अत्तनो अकत्वा परस्स न देति. अतिरेके पन सति न निक्खिपति परस्स देति. इदं वुत्तं होति – यो पन भिक्खु उपट्ठाककुला वा ञातिकुला वा जिण्णचीवरो साटकं लभित्वा चीवरं कत्वा परिभुञ्जति, न निक्खिपति; अग्गळं दत्वा पारुपन्तोपि पुन दिय्यमाने सहसा न पटिग्गण्हाति. यो च लद्धं लद्धं अत्तना परिभुञ्जति, परेसं न देति. इमे द्वेपि सुखेन सक्का तप्पेतुन्ति सुतप्पया नामाति.
८६. आसवाति किलेसा. न कुक्कुच्चायितब्बं कुक्कुच्चायतीति न कुक्कुच्चायितब्बयुत्तकं कुक्कुच्चायति. सूकरमंसं लभित्वा अच्छमंसन्ति कुक्कुच्चायति, मिगमंसं, लभित्वा दीपिमंसन्ति कुक्कुच्चायति. काले सन्तेयेव ‘कालो नत्थी’ति, अप्पवारेत्वाव ‘पवारितोस्मी’ति, पत्ते रजस्मिं अपतितेयेव ‘पतित’न्ति, अत्तानं उद्दिस्स मच्छमंसे अकतेयेव ‘मं उद्दिस्स कत’न्ति कुक्कुच्चायति. कुक्कुच्चायितब्बं न कुक्कुच्चायतीति कुक्कुच्चायितब्बयुत्तकं न कुक्कुच्चायति. अच्छमंसं लभित्वा सूकरमंसन्ति न कुक्कुच्चायति…पे… अत्तानं उद्दिस्स मच्छमंसे कते ‘मं उद्दिस्स कत’न्ति न कुक्कुच्चायति. अङ्गुत्तरट्ठकथायं पन – ‘‘‘न कुक्कुच्चायितब्ब’न्ति सङ्घभोगस्स अपट्ठपनं अविचारणं न कुक्कुच्चायितब्बं नाम, तं कुक्कुच्चायति. ‘कुक्कुच्चायितब्ब’न्ति तस्सेव पट्ठपनं विचारणं, तं न कुक्कुच्चायती’’ति एत्तकमेव वुत्तं. इमेसन्ति इमेसं द्विन्नं पुग्गलानं सुभूमियं तिणलतादीनि विय रत्तिम्पि दिवापि आसवा वड्ढन्तियेव. सुक्कपक्खे कप्पियमंसं लभित्वा कप्पियमंसन्त्वेव गण्हन्तो न कुक्कुच्चायितब्बं न कुक्कुच्चायति नामाति इमिना नयेन अत्थो वेदितब्बो.
८८. हीनाधिमुत्तोति हीनज्झासयो. दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो.
८९. पणीताधिमुत्तोति पणीतज्झासयो. कल्याणधम्मोति भद्दकधम्मो, सुचिधम्मो, सुन्दरधम्मो.
९०. तित्तोति सुहितो परियोसितो. तप्पेताति अञ्ञेसम्पि तित्तिकरो. पच्चेकसम्बुद्धा ये च तथागतसावकाति एत्थ पच्चेकबुद्धा नवहि लोकुत्तरधम्मेहि सयं तित्ता परिपुण्णा. अञ्ञे पन तप्पेतुं न सक्कोन्ति. तेसञ्हि धम्मकथाय अभिसमयो न होति. सावकानं पन धम्मकथाय अपरिमाणानम्पि देवमनुस्सानं अभिसमयो होति. एवं सन्तेपि यस्मा पन ते धम्मं देसेन्ता न अत्तनो वचनं कत्वा कथेन्ति, बुद्धानं वचनं कत्वा कथेन्ति. सोतुं निसिन्नपरिसापि ‘अयं भिक्खु न अत्तना पटिविद्धधम्मं कथेति, बुद्धेहि पटिविद्धधम्मं कथेती’ति चित्तीकारं करोति. इति सो चित्तीकारो बुद्धानंयेव होति. एवं तत्थ सम्मासम्बुद्धोव तप्पेता नाम. यथा हि ‘असुकस्स नाम इदञ्चिदञ्च देथा’ति रञ्ञा आणत्ता किञ्चापि आनेत्वा देन्ति, अथ खो राजाव तत्थ दायको. येहिपि लद्धं होति, ते ‘रञ्ञा अम्हाकं ठानन्तरं दिन्नं, इस्सरियविभवो दिन्नो’त्वेव गण्हन्ति, न राजपुरिसेहीति. एवंसम्पदमिदं वेदितब्बं. सेसं सब्बत्थ उत्तानत्थमेवाति.
दुकनिद्देसवण्णना.