५. समणसुत्तवण्णना

८५. पञ्चमे यं समणेनाति यं गुणजातं समणेन पत्तब्बं. वुसीमताति ब्रह्मचरियवासंवुतेन. मुत्तो मोचेमि बन्धनाति अहं सब्बबन्धनेहि मुत्तो हुत्वा महाजनम्पि रागादिबन्धनतो मोचेमि. परमदन्तोति अञ्ञेन केनचि असिक्खापितो अचोदितो सयम्भुञाणेन पटिविज्झित्वा परमदमथेन दन्तत्ता परमदन्तो नाम. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो.