१०. कुसीतारम्भवत्थुसुत्तवण्णना

८०. दसमे कुसीतवत्थूनीति कुसीतस्स अलसस्स वत्थूनि पतिट्ठा, कोसज्जकारणानीति अत्थो. कम्मं कत्तब्बं होतीति चीवरविचारणादिकम्मं कत्तब्बं होति. न वीरियं आरभतीति दुविधम्पि वीरियं नारभति. अप्पत्तस्साति झानविपस्सनामग्गफलधम्मस्स अप्पत्तस्स पत्तिया. अनधिगतस्साति तस्सेव अनधिगतस्स अधिगमत्थाय. असच्छिकतस्साति तदेव असच्छिकतस्स सच्छिकरणत्थाय. इदं पठमन्ति इदं ‘‘हन्दाहं निपज्जामी’’ति एवं ओसीदनं पठमं कुसीतवत्थु. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. मासाचितकं मञ्ञेति एत्थ पन मासाचितं नाम तिन्तमासो. यथा तिन्तमासो गरुको होति, एवं गरुकोति अधिप्पायो. गिलाना वुट्ठितो होतीति गिलानो हुत्वा पच्छा वुट्ठितो होति. आरम्भवत्थूनीति वीरियकारणानि. तेसम्पि इमिनाव नयेन अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

यमकवग्गो अट्ठमो.