१०. भूमिचालसुत्तवण्णना
७०. दसमे निसीदनन्ति इध चम्मखण्डं अधिप्पेतं. उदेनं चेतियन्ति उदेनयक्खस्स वसनट्ठाने कतविहारो वुच्चति. गोतमकादीसुपि एसेव नयो. भाविताति वड्ढिता. बहुलीकताति पुनप्पुनं कता. यानीकताति युत्तयानं विय कता. वत्थुकताति पतिट्ठानट्ठेन वत्थु विय कता. अनुट्ठिताति अधिट्ठिता. परिचिताति समन्ततो चिता सुवड्ढिता. सुसमारद्धाति सुट्ठु समारद्धा.
इति अनियमेन कथेत्वा पुन नियमेत्वा दस्सेन्तो तथागतस्स खोतिआदिमाह. एत्थ कप्पन्ति आयुकप्पं. तस्मिं तस्मिं काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो तिट्ठेय्य. कप्पावसेसं वाति ‘‘अप्पं वा भिय्यो’’ति वुत्तवस्ससततो अतिरेकं वा. महासीवत्थेरो पनाह – ‘‘बुद्धानं अट्ठाने गज्जितं नाम नत्थि, पुनप्पुनं समापज्जित्वा मरणन्तिकवेदनं विक्खम्भेन्तो भद्दकप्पमेव तिट्ठेय्य. कस्मा पन न ठितोति? उपादिन्नकसरीरं नाम खण्डिच्चादीहि अभिभुय्यति, बुद्धा च खण्डिच्चादिभावं अप्पत्वा पञ्चमे आयुकोट्ठासे बहुजनस्स पियमनापकालेयेव परिनिब्बायन्ति. बुद्धानुबुद्धेसु च महासावकेसु परिनिब्बुतेसु एककेनेव खाणुकेन विय ठातब्बं होति दहरसामणेरपरिवारेन वा, ततो ‘अहो बुद्धानं परिसा’ति हीळेतब्बतं आपज्जेय्य. तस्मा न ठितो’’ति. एवं वुत्तेपि यो पन वुच्चति ‘‘आयुकप्पो’’ति, इदमेव अट्ठकथाय नियामितं.
यथा तं मारेन परियुट्ठितचित्तोति एत्थ तन्ति निपातमत्तं, यथा मारेन परियुट्ठितचित्तो अज्झोत्थटचित्तो अञ्ञोपि कोचि पुथुज्जनो पटिविज्झितुं न सक्कुणेय्य, एवमेव नासक्खि पटिविज्झितुन्ति अत्थो. मारो हि यस्स सब्बेन सब्बं द्वादस विपल्लासा अप्पहीना, तस्स चित्तं परियुट्ठाति. थेरस्स च चत्तारो विपल्लासा अप्पहीना, तेनस्स मारो चित्तं परियुट्ठासि. सो पन चित्तपरियुट्ठानं करोन्तो किं करोतीति? भेरवं रूपारम्मणं वा दस्सेति, सद्दारम्मणं वा सावेति. ततो सत्ता तं दिस्वा वा सुत्वा वा सतिं विस्सज्जेत्वा विवटमुखा होन्ति, तेसं मुखेन हत्थं पवेसेत्वा हदयं मद्दति, ततो विसञ्ञाव हुत्वा तिट्ठन्ति. थेरस्स पनेस मुखे हत्थं पवेसेतुं किं सक्खिस्सति, भेरवारम्मणं पन दस्सेसि. तं दिस्वा थेरो निमित्तोभासं नप्पटिविज्झि. भगवा जानन्तोयेव किमत्थं याव ततियं आमन्तेसीति? परतो ‘‘तिट्ठतु, भन्ते भगवा’’ति याचिते ‘‘तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्ध’’न्ति दोसारोपनेन सो कतनुकरणत्थं.
मारो पापिमाति एत्थ सत्ते अनत्थे नियोजेन्तो मारेतीति मारो. पापिमाति तस्सेव वेवचनं. सो हि पापधम्मसमन्नागतत्ता ‘‘पापिमा’’ति वुच्चति. कण्हो, अन्तको, नमुचि, पमत्तबन्धूतिपि तस्सेव नामानि. भासिता खो पनेसाति अयञ्हि भगवतो सम्बोधिपत्तिया अट्ठमे सत्ताहे बोधिमण्डेयेव आगन्त्वा ‘‘भगवा यदत्थं तुम्हेहि पारमियो पूरिता, सो वो अत्थो अनुप्पत्तो, पटिविद्धं सब्बञ्ञुतञ्ञाणं, किं ते लोकविचारणेना’’ति वत्वा यथा अज्ज, एवमेव ‘‘परिनिब्बातु दानि, भन्ते भगवा’’ति याचि. भगवा चस्स ‘‘न तावाह’’न्तिआदीनि वत्वा पटिक्खिपि. तं सन्धाय – ‘‘भासिता खो पनेसा, भन्ते’’तिआदिमाह.
तत्थ वियत्ताति मग्गवसेन ब्यत्ता, तथेव विनीता, तथा विसारदा. बहुस्सुताति तेपिटकवसेन बहु सुतं एतेसन्ति बहुस्सुता. तमेव धम्मं धारेन्तीति धम्मधरा. अथ वा परियत्तिबहुस्सुता चेव पटिवेधबहुस्सुता च. परियत्तिपटिवेधधम्मानंयेव धारणतो धम्मधराति एवमेत्थ अत्थो दट्ठब्बो. धम्मानुधम्मप्पटिपन्नाति अरियधम्मस्स अनुधम्मभूतं विपस्सनाधम्मं पटिपन्ना. सामीचिप्पटिपन्नाति अनुच्छविकपटिपदं पटिपन्ना. अनुधम्मचारिनोति अनुधम्मं चरणसीला. सकं आचरियकन्ति अत्तनो आचरियवादं. आचिक्खिस्सन्तीतिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि. सहधम्मेनाति सहेतुकेन सकारणेन वचनेन. सप्पाटिहारियन्ति याव निय्यानिकं कत्वा धम्मं देसेस्सन्ति.
ब्रह्मचरियन्ति सिक्खात्तयसङ्गहितं सकलं सासनब्रह्मचरियं. इद्धन्ति समिद्धं झानस्सादवसेन. फीतन्ति वुद्धिपत्तं सब्बपालिफुल्लं विय अभिञ्ञासम्पत्तिवसेन. वित्थारिकन्ति वित्थतं तस्मिं तस्मिं दिसाभागे पतिट्ठितवसेन. बाहुजञ्ञन्ति बहूहि ञातं पटिविद्धं महाजनाभिसमयवसेन. पुथुभूतन्ति सब्बाकारेन पुथुलभावप्पत्तं. कथं? याव देवमनुस्सेहि सुप्पकासितन्ति, यत्तका विञ्ञुजातिका देवा चेव मनुस्सा च अत्थि, सब्बेहि सुट्ठु पकासितन्ति अत्थो. अप्पोस्सुक्कोति निरालयो. त्वञ्हि पापिम अट्ठमसत्ताहतो पट्ठाय ‘‘परिनिब्बातु दानि, भन्ते भगवा, परिनिब्बातु सुगतो’’ति विरवन्तो आहिण्डित्थ. अज्ज दानि पट्ठाय विगतुस्साहो होहि, मा मय्हं परिनिब्बानत्थं वायामं करोहीति वदति.
सतो सम्पजानो आयुसङ्खारं ओस्सज्जीति सतिं सूपट्ठितं कत्वा ञाणेन परिच्छिन्दित्वा आयुसङ्खारं विस्सज्जि पजहि. तत्थ न भगवा हत्थेन लेड्डुं विय आयुसङ्खारं ओस्सजि, तेमासमत्तमेव पन फलसमापत्तिं समापज्जित्वा ततो परं न समापज्जिस्सामीति चित्तं उप्पादेसि. तं सन्धाय वुत्तं ‘‘ओस्सजी’’ति. उस्सजीतिपि पाठो. महाभूमिचालोति महन्तो पथवीकम्पो. तदा किर दससहस्सी लोकधातु कम्पित्थ. भिंसनकोति भयजनको. देवदुन्दुभियो च फलिंसूति देवभेरियो फलिंसु, देवो सुक्खगज्जितं गज्जि, अकालविज्जुलता निच्छरिंसु, खणिकवस्सं वस्सीति वुत्तं होति.
उदानं उदानेसीति कस्मा उदानेसि? कोचि नाम वदेय्य ‘‘भगवा पच्छतो पच्छतो अनुबन्धित्वा ‘परिनिब्बातु, भन्ते’ति उपद्दुतो भयेन आयुसङ्खारं विस्सज्जेसी’’ति, तस्सोकासो मा होतु, भीतस्स हि उदानं नाम नत्थीति पीतिवेगविस्सट्ठं उदानं उदानेसि.
तत्थ सब्बेसं सोणसिङ्गालादीनम्पि पच्चक्खभावतो तुलितं परिच्छिन्नन्ति तुलं. किं तं? कामावचरकम्मं. न तुलं, न वा तुलं सदिसमस्स अञ्ञं लोकियं कम्मं अत्थीति अतुलं. किं तं? महग्गतकम्मं. अथ वा कामावचरं रूपावचरं तुलं, अरूपावचरं अतुलं. अप्पविपाकं वा तुलं, बहुविपाकं अतुलं. सम्भवन्ति सम्भवहेतुभूतं, रासिकारकं पिण्डकारकन्ति अत्थो. भवसङ्खारन्ति पुनब्भवसङ्खारणकं. अवस्सजीति विस्सज्जेसि. मुनीति बुद्धमुनि. अज्झत्तरतोति नियकज्झत्तरतो. समाहितोति उपचारप्पनासमाधिवसेन समाहितो. अभिन्दि कवचमिवाति कवचं विय अभिन्दि. अत्तसम्भवन्ति अत्तनि सञ्जातं किलेसं. इदं वुत्तं होति – सविपाकट्ठेन सम्भवं, भवाभिसङ्खरणट्ठेन भवसङ्खारन्ति च लद्धनामं तुलातुलसङ्खातं लोकियकम्मञ्च ओस्सजि, सङ्गामसीसे महायोधो कवचं विय अत्तसम्भवं किलेसञ्च अज्झत्तरतो हुत्वा समाहितो हुत्वा अभिन्दीति.
अथ वा तुलन्ति तुलेन्तो तीरेन्तो. अतुलञ्च सम्भवन्ति निब्बानञ्चेव सम्भवञ्च. भवसङ्खारन्ति भवगामिकम्मं. अवस्सजि मुनीति ‘‘पञ्चक्खन्धा अनिच्चा, पञ्चन्नं खन्धानं निरोधो निब्बानं निच्च’’न्तिआदिना (पटि. म. ३.३७-३८) नयेन तुलयन्तो बुद्धमुनि भवे आदीनवं, निब्बाने च आनिसंसं दिस्वा तं खन्धानं मूलभूतं भवसङ्खारं कम्मं ‘‘कम्मक्खयाय संवत्तती’’ति (म. नि. २.८१; अ. नि. ४.२३२-२३३) एवं वुत्तेन कम्मक्खयकरेन अरियमग्गेन अवस्सजि. कथं? अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भवं. सो हि विपस्सनावसेन अज्झत्तरतो, समथवसेन समाहितोति एवं पुब्बभागतो पट्ठाय समथविपस्सनाबलेन कवचमिव अत्तभावं परियोनन्धित्वा ठितं, अत्तनि सम्भवत्ता ‘‘अत्तसम्भव’’न्ति लद्धनामं सब्बकिलेसजालं अभिन्दि. किलेसाभावेन च कतं कम्मं अप्पटिसन्धिकत्ता अवस्सट्ठं नाम होतीति एवं किलेसप्पहानेन कम्मं पजहि. पहीनकिलेसस्स च भयं नाम नत्थि, तस्मा अभीतोव आयुसङ्खारं ओस्सज्जि, अभीतभावञापनत्थञ्च उदानं उदानेसीति वेदितब्बो.
यं महावाताति येन समयेन यस्मिं वा समये महावाता. वायन्तीति उपक्खेपकवाता नाम उट्ठहन्ति, ते वायन्ता सट्ठिसहस्साधिकनवयोजनसतसहस्सबहलं उदकसन्धारकवातं उपच्छिन्दन्ति, ततो आकासे उदकं भस्सति, तस्मिं भस्सन्ते पथवी भस्सति, पुन वातो अत्तनो बलेन अन्तोधम्मकरणे विय उदकं आबन्धित्वा गण्हाति, ततो उदकं उग्गच्छति, तस्मिं उग्गच्छन्ते पथवी उग्गच्छति. एवं उदकं कम्पितं पथविं कम्पेति. एतञ्च कम्पनं यावज्जकालापि होतियेव, बहुभावेन पन ओगच्छनुग्गच्छनं न पञ्ञायति.
महिद्धिका महानुभावाति इज्झनस्स महन्तताय महिद्धिका, अनुभवितब्बस्स महन्तताय महानुभावा. परित्ताति दुब्बला. अप्पमाणाति बलवा. सो इमं पथविं कम्पेतीति सो इद्धिं निब्बत्तेत्वा संवेजेन्तो महामोग्गल्लानो विय, वीमंसन्तो वा महानागत्थेरस्स भागिनेय्यो सङ्घरक्खितसामणेरो विय पथविं कम्पेति. सङ्कम्पेतीति समन्ततो कम्पेति. सम्पकम्पेतीति तस्सेव वेवचनं. इति इमेसु अट्ठसु पथविकम्पेसु पठमो धातुकोपेन, दुतियो इद्धानुभावेन, ततियचतुत्था पुञ्ञतेजेन, पञ्चमो ञाणतेजेन, छट्ठो साधुकारदानवसेन, सत्तमो कारुञ्ञसभावेन, अट्ठमो आरोदनेन. मातुकुच्छिं ओक्कमन्ते च ततो निक्खमन्ते च महासत्ते तस्स पुञ्ञतेजेन पथवी अकम्पित्थ, अभिसम्बोधियं ञाणतेजाभिहता हुत्वा अकम्पित्थ, धम्मचक्कप्पवत्तने साधुकारभावसण्ठिता साधुकारं ददमाना अकम्पित्थ, आयुसङ्खारओस्सज्जने कारुञ्ञसभावसण्ठिता चित्तसङ्खोभं असहमाना अकम्पित्थ, परिनिब्बाने आरोदनवेगतुन्ना हुत्वा अकम्पित्थ. अयं पनत्थो पथविदेवताय वसेन वेदितब्बो. महाभूतपथविया पनेतं नत्थि अचेतनत्ता. सेसं सब्बत्थ उत्तानत्थमेवाति.
भूमिचालवग्गो सत्तमो.