६. भयसुत्तवण्णना

५६. छट्ठे गब्भोति गब्भवासो. दिट्ठधम्मिकापीति सन्दिट्ठिका गब्भवाससदिसा पुनपि मनुस्सगब्भा. सम्परायिकापीति ठपेत्वा मनुस्सगब्भे सेसगब्भा. उभयं एते कामा पवुच्चन्तीति भयञ्च दुक्खञ्च, भयञ्च रोगो च, भयञ्च गण्डो च, भयञ्च सल्लञ्च, भयञ्च सङ्गो च, भयञ्च पङ्को च, भयञ्च गब्भो चाति एवं उभयं एते कामा पवुच्चन्ति. सातरूपेनाति कामसुखेन. पलिपथन्ति वट्टपलिपथं. अतिक्कम्माति इमस्मिं ठाने विपस्सनं वड्ढेत्वा अस्स भिक्खुनो अरहत्तप्पत्तभावो गहितो. एवरूपं पजं जातिजरूपेतं तीसु भवेसु फन्दमानं अवेक्खतीति सुत्ते वट्टं कथेत्वा गाथासु विवट्टं कथितन्ति. सत्तमट्ठमानि उत्तानत्थानेव.