६. अनुरुद्धसुत्तवण्णना

४६. छट्ठे येनायस्मा अनुरुद्धोति ता किर देवता अत्तनो सम्पत्तिं ओलोकेत्वा ‘‘किं नु खो निस्साय अयं सम्पत्ति अम्हेहि लद्धा’’ति आवज्जमाना थेरं दिस्वा ‘‘मयं अम्हाकं अय्यस्स पुब्बे चक्कवत्तिरज्जं करोन्तस्स पादपरिचारिका हुत्वा तेन दिन्नोवादे ठत्वा इमं सम्पत्तिं लभिम्ह, गच्छाम थेरं आनेत्वा इमं सम्पत्तिं अनुभविस्सामा’’ति दिवा येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु. तीसु ठानेसूति तीसु कारणेसु. ठानसो पटिलभामाति खणेनेव लभाम. सरन्ति वचनसद्दं वा गीतसद्दं वा आभरणसद्दं वा. पीता अस्सूतिआदीनि नीला ताव जाता, पीता भवितुं न सक्खिस्सन्तीतिआदिना नयेन चिन्तेत्वा वितक्केति. तापि ‘‘इदानि अय्यो अम्हाकं पीतभावं इच्छति, इदानि लोहितभाव’’न्ति तादिसाव अहेसुं.

अच्छरं वादेसीति पाणितलं वादेसि. पञ्चङ्गिकस्साति आततं, विततं, आततविततं, घनं, सुसिरन्ति इमेहि पञ्चहि अङ्गेहि समन्नागतस्स. तत्थ आततं नाम चम्मपरियोनद्धेसु भेरिआदीसु एकतलतूरियं, विततं नाम उभयतलं, आततविततं नाम सब्बसो परियोनद्धं, सुसिरं वंसादि, घनं सम्मादि. सुविनीतस्साति आकड्ढनसिथिलकरणादीहि समुच्छितस्स. सुप्पटिपताळितस्साति पमाणे ठितभावजाननत्थं सुट्ठु पटिपताळितस्स. कुसलेहि सुसमन्नाहतस्साति ये वादेतुं कुसला छेका, तेहि वादितस्स. वग्गूति छेको सुन्दरो. रजनीयोति रञ्जेतुं समत्थो. कमनीयोति कामेतब्बयुत्तो. खमनीयोति वा पाठो, दिवसम्पि सुय्यमानो खमतेव, न निब्बिन्दतीति अत्थो. मदनीयोति मानमदपुरिसमदजननो. इन्द्रियानि ओक्खिपीति ‘‘असारुप्पं इमा देवता करोन्ती’’ति इन्द्रियानि हेट्ठा खिपि, न अक्खीनि उम्मीलेत्वा ओलोकेसि. न ख्वय्यो अनुरुद्धो सादियतीति ‘‘मयं नच्चाम गायाम, अय्यो पन अनुरुद्धो न खो सादियति, अक्खीनि उम्मीलेत्वा न ओलोकेति, किं मयं नच्चित्वा वा गायित्वा वा करिस्सामा’’ति तत्थेव अन्तरधायिंसु. येन भगवा तेनुपसङ्कमीति तासं देवतानं आनुभावं दिस्वा ‘‘कतिहि नु खो धम्मेहि समन्नागतो मातुगामो मनापकायिके देवलोके निब्बत्तती’’ति इममत्थं पुच्छितुं उपसङ्कमि.