२. दुतियउग्गसुत्तवण्णना

२२. दुतिये नागवनेति तस्स किर सेट्ठिनो नागवनं नाम उय्यानं, सो तत्थ पुरेभत्तं गन्धमालादीनि गाहापेत्वा उय्यानकीळिकं कीळितुकामो गन्त्वा परिचारियमानो भगवन्तं अद्दस. सह दस्सनेनेवस्स पुरिमनयेनेव चित्तं पसीदि, सुरापानेन च उप्पन्नमन्दो तङ्खणंयेव पहीयि. तं सन्धायेवमाह. ओणोजेसिन्ति उदकं हत्थे पातेत्वा अदासिं. असुकोति अमुको. समचित्तोव देमीति ‘‘इमस्स थोकं, इमस्स बहुक’’न्ति एवं चित्तनानत्तं न करोमि, देय्यधम्मं पन एकसदिसं करोमीति दस्सेति. आरोचेन्तीति आकासे ठत्वा आरोचेन्ति. नत्थि तं संयोजनन्ति इमिना उपासको अत्तनो अनागामिफलं ब्याकरोति.