६. दूतेय्यसुत्तवण्णना
१६. छट्ठे दूतेय्यन्ति दूतकम्मं. गन्तुमरहतीति तं दूतेय्यसङ्खातं सासनं धारेत्वा हरितुं अरहति. सोताति यो तं अस्स सासनं देति, तस्स सोता. सावेताति तं उग्गण्हित्वा ‘‘इदं नाम तुम्हेहि वुत्त’’न्ति पटिसावेता. उग्गहेताति सुग्गहितं कत्वा उग्गहेता. धारेताति सुधारितं कत्वा धारेता. विञ्ञाति अत्थानत्थस्स अत्थं जानिता. विञ्ञापेताति परं विजानापेता. सहिता सहितस्साति इदं सहितं, इदं असहितन्ति एवं सहितासहितस्स कुसलो, उपगतानुपगतेसु छेको सासनं आरोचेन्तो सहितं सल्लक्खेत्वा आरोचेति. न ब्यथतीति वेधति न छम्भति. असन्दिद्धन्ति निस्सन्देहं विगतसंसयं. पुच्छितोति पञ्हत्थाय पुच्छितो.