८. अग्गिक्खन्धोपमसुत्तवण्णना

७२. अट्ठमं अत्थुप्पत्तियं कथितं. अत्थुप्पत्ति पनस्स हेट्ठा चूळच्छरासङ्घातसुत्तवण्णनाय (अ. नि. अट्ठ. १.१.५१ आदयो) वित्थारिता एव. पस्सथ नोति पस्सथ नु. आलिङ्गित्वाति उपगूहित्वा. उपनिसीदेय्याति समीपे निस्साय निसीदेय्य. उपनिपज्जेय्याति उपगन्त्वा निपज्जेय्य. आरोचयामीति आचिक्खामि. पटिवेदयामीति पटिवेदेत्वा जानापेत्वा कथेमि. वालरज्जुयाति अस्सवालगोवालेहि वट्टितरज्जुया. पच्चोरस्मिन्ति उरमज्झे. फेणुद्देहकन्ति फेणं उद्देहित्वा, उस्सादेत्वाति अत्थो. अत्तत्थन्ति अत्तनो दिट्ठधम्मिकसम्परायिकलोकियलोकुत्तरं अत्थं. परत्थोभयत्थेसुपि एसेव नयो. सेसमेत्थ यं वत्तब्बं सिया, तं सब्बं चूळच्छरासङ्घातसुत्तस्स (अ. नि. १.५१ आदयो) अत्थुप्पत्तियं कथितमेव. इदञ्च पन सुत्तं कथेत्वा सत्था चूळच्छरासङ्घातसुत्तं कथेसि. नवमं उत्तानत्थमेव.