५. पारिच्छत्तकसुत्तवण्णना
६९. पञ्चमे पन्नपलासोति पतितपलासो. जालकजातोति सञ्जातपत्तपुप्फजालो. तस्स हि पत्तजालञ्च पुप्फजालञ्च सहेव निक्खमति. खारकजातोति पाटियेक्कं सञ्जातेन सुविभत्तेन पत्तजालकेन च पुप्फजालकेन च समन्नागतो. कुटुमलकजातोति सञ्जातमकुळो. कोरकजातोति अविकसितेहि महाकुच्छीहि सम्भिन्नमुखेहि पुप्फेहि समन्नागतो. सब्बपालिफुल्लोति सब्बाकारेन सुपुप्फितो. दिब्बे चत्तारो मासेति दिब्बेन आयुना चत्तारो मासे. मनुस्सगणनाय पन तानि द्वादस वस्ससहस्सानि होन्ति. परिचारेन्तीति इतो चितो च इन्द्रियानि चारेन्ति, कीळन्ति रमन्तीति अत्थो.
आभाय फुटं होतीति तत्तकं ठानं ओभासेन फुटं होति. तेसञ्हि पुप्फानं बालसूरियस्स विय आभा होति, पत्तानि पण्णच्छत्तप्पमाणानि, अन्तो महातुम्बमत्ता रेणु होति. पुप्फिते पन पारिच्छत्तके आरोहनकिच्चं वा अङ्कुसकं गहेत्वा नमनकिच्चं वा पुप्फाहरणत्थं चङ्गोटककिच्चं वा नत्थि, कन्तनकवातो उट्ठहित्वा पुप्फानि वण्टतो कन्तति, सम्पटिच्छनकवातो सम्पटिच्छति, पवेसनकवातो सुधम्मं देवसभं पवेसेति, सम्मज्जनकवातो पुराणपुप्फानि नीहरति, सन्थरणकवातो पत्तकण्णिककेसरानि रञ्जेन्तो सन्थरति. मज्झट्ठाने धम्मासनं होति योजनप्पमाणो रतनपल्लङ्को उपरि तियोजनेन सेतच्छत्तेन धारियमानेन, तदनन्तरं सक्कस्स देवरञ्ञो आसनं अत्थरियति, ततो तेत्तिंसाय देवपुत्तानं, ततो अञ्ञेसं महेसक्खानं देवानं, अञ्ञतरदेवतानं पुप्फकण्णिकाव आसनं होति. देवा देवसभं पविसित्वा निसीदन्ति. ततो पुप्फेहि रेणुवट्टि उग्गन्त्वा उपरिकण्णिकं आहच्च निपतमाना देवतानं तिगावुतप्पमाणं अत्तभावं लाखारसपरिकम्मसज्जितं विय सुवण्णचुण्णपिञ्जरं विय करोति. एकच्चे देवा एकेकं पुप्फं गहेत्वा अञ्ञमञ्ञं पहरन्तापि कीळन्तियेव. पहरणकालेपि महातुम्बप्पमाणा रेणु निक्खमित्वा सरीरं पभासम्पन्नेहि गन्धचुण्णेहि सञ्जतमनोसिलारागं विय करोति. एवं सा कीळा चतूहि मासेहि परियोसानं गच्छति. अयमानुभावोति अयं अनुफरितुं आनुभावो.
इदानि यस्मा न सत्था पारिच्छत्तकेन अत्थिको, तेन पन सद्धिं उपमेत्वा सत्त अरियसावके दस्सेतुकामो, तस्मा ते दस्सेतुं एवमेव खोतिआदिमाह. तत्थ पब्बज्जाय चेतेतीति पब्बजिस्सामीति चिन्तेति. देवानंवाति देवानं विय. याव ब्रह्मलोका सद्दो अब्भुग्गच्छतीति पथवितलतो याव ब्रह्मलोका साधुकारसद्देन सब्बं एकसद्दमेव होति. अयमानुभावोति अयं खीणासवस्स भिक्खुनो अनुफरणानुभावो. इमस्मिं सुत्ते चतुपारिसुद्धिसीलं पब्बज्जानिस्सितं होति, कसिणपरिकम्मं पठमज्झानसन्निस्सितं, विपस्सनाय सद्धिं तयो मग्गा तीणि च फलानि अरहत्तमग्गसन्निस्सितानि होन्ति. देसनाय हेट्ठतो वा उपरितो वा उभयतो वा परिच्छेदो होति, इध पन उभयतो परिच्छेदो. तेनेतं वुत्तं. सङ्खेपतो पनेत्थ वट्टविवट्टं कथितन्ति वेदितब्बं.