१०. नन्दमातासुत्तवण्णना

५३. दसमं अत्थुप्पत्तिवसेन देसितं. सत्था किर वुत्थवस्सो पवारेत्वा द्वे अग्गसावके ओहाय ‘‘दक्खिणागिरिं चारिकं गमिस्सामी’’ति निक्खमि, राजा पसेनदि कोसलो, अनाथपिण्डिको गहपति, विसाखा महाउपासिका, अञ्ञे च बहुजना दसबलं निवत्तेतुं नासक्खिंसु. अनाथपिण्डिको गहपति ‘‘सत्थारं निवत्तेतुं नासक्खि’’न्ति रहो चिन्तयमानो निसीदि. अथ नं पुण्णा नाम दासी दिस्वा ‘‘किं नु खो ते, सामि, न पुब्बे विय इन्द्रियानि विप्पसन्नानी’’ति पुच्छि. आम, पुण्णे, सत्था चारिकं पक्कन्तो, तमहं निवत्तेतुं नासक्खिं. न खो पन सक्का जानितुं पुन सीघं आगच्छेय्य वा न वा, तेनाहं चिन्तयमानो निसिन्नोति. सचाहं दसबलं निवत्तेय्यं, किं मे करेय्यासीति? भुजिस्सं तं करिस्सामीति. सा गन्त्वा सत्थारं वन्दित्वा ‘‘निवत्तथ, भन्ते’’ति आह. मम निवत्तनपच्चया त्वं किं करिस्ससीति? तुम्हे, भन्ते, मम पराधीनभावं जानाथ, अञ्ञं किञ्चि कातुं न सक्कोमि, सरणेसु पन पतिट्ठाय पञ्च सीलानि रक्खिस्सामीति. साधु साधु पुण्णेति, सत्था धम्मगारवेन एकपदस्मिञ्ञेव निवत्ति. वुत्तञ्हेतं – ‘‘धम्मगरु, भिक्खवे, तथागतो धम्मगारवो’’ति (अ. नि. ५.९९).

सत्था निवत्तित्वा जेतवनमहाविहारं पाविसि. महाजनो पुण्णाय साधुकारसहस्सानि अदासि. सत्था तस्मिं समागमे धम्मं देसेसि, चतुरासीतिपाणसहस्सानि अमतपानं पिविंसु. पुण्णापि सेट्ठिना अनुञ्ञाता भिक्खुनिउपस्सयं गन्त्वा पब्बजि. सम्मासम्बुद्धो सारिपुत्तमोग्गल्लाने आमन्तेत्वा ‘‘अहं यं दिसं चारिकाय निक्खन्तो, तत्थ न गच्छामि. तुम्हे तुम्हाकं परिसाय सद्धिं तं दिसं चारिकं गच्छथा’’ति वत्वा उय्योजेसि. इमिस्सं अत्थुप्पत्तियं एकं समयं आयस्मा सारिपुत्तोतिआदि वुत्तं.

तत्थ वेळुकण्डकीति वेळुकण्टकनगरवासिनी. तस्स किर नगरस्स पाकारगुत्तत्थाय पाकारपरियन्तेन वेळू रोपिता, तेनस्स वेळुकण्टकन्तेव नामं जातं. पारायनन्ति निब्बानसङ्खातपारं अयनतो पारायनन्ति लद्धवोहारं धम्मं. सरेन भासतीति सत्तभूमिकस्स पासादस्स उपरिमतले सुसंविहितारक्खट्ठाने निसिन्ना समापत्तिबलेन रत्तिभागं वीतिनामेत्वा समापत्तितो वुट्ठाय ‘‘इमं रत्तावसेसं कतराय रतिया वीतिनामेस्सामी’’ति चिन्तेत्वा ‘‘धम्मरतिया’’ति कतसन्निट्ठाना तीणि फलानि पत्ता अरियसाविका अड्ढतेय्यगाथासतपरिमाणं पारायनसुत्तं मधुरेन सरभञ्ञेन भासति. अस्सोसि खोति आकासट्ठकविमानानि परिहरित्वा तस्स पासादस्स उपरिभागं गतेन मग्गेन नरवाहनयानं आरुय्ह गच्छमानो अस्सोसि. कथापरियोसानं आगमयमानो अट्ठासीति ‘‘किं सद्दो एस भणे’’ति पुच्छित्वा ‘‘नन्दमाताय उपासिकाय सरभञ्ञसद्दो’’ति वुत्ते ओतरित्वा ‘‘इदमवोचा’’ति इदं देसनापरियोसानं ओलोकेन्तो अविदूरट्ठाने आकासे अट्ठासि.

साधु भगिनि, साधु भगिनीति ‘‘सुग्गहिता ते भगिनि धम्मदेसना सुकथिता, पासाणकचेतिये निसीदित्वा सोळसन्नं पारायनिकब्राह्मणानं सम्मासम्बुद्धेन कथितदिवसे च अज्ज च न किञ्चि अन्तरं पस्सामि, मज्झे भिन्नसुवण्णं विय ते सत्थु कथितेन सद्धिं सदिसमेव कथित’’न्ति वत्वा साधुकारं ददन्तो एवमाह. को पनेसो भद्रमुखाति इमस्मिं सुसंविहितारक्खट्ठाने एवं महन्तेन सद्देन को नामेस, भद्रमुख, लद्धमुख, किं नागो सुपण्णो देवो मारो ब्रह्माति सुवण्णपट्टवण्णं वातपानं विवरित्वा विगतसारज्जा तीणि फलानि पत्ता अरियसाविका वेस्सवणेन सद्धिं कथयमाना एवमाह. अहं ते भगिनि भाताति सयं सोतापन्नत्ता अनागामिअरियसाविकं जेट्ठिकं मञ्ञमानो ‘‘भगिनी’’ति वत्वा पुन तं पठमवये ठितत्ता अत्तनो कनिट्ठं, अत्तानं पन नवुतिवस्ससतसहस्सायुकत्ता महल्लकतरं मञ्ञमानो ‘‘भाता’’ति आह. साधु भद्रमुखाति, भद्रमुख, साधु सुन्दरं, स्वागमनं ते आगमनं, आगन्तुं युत्तट्ठानमेवसि आगतोति अत्थो. इदं ते होतु आतिथेय्यन्ति इदमेव धम्मभणनं तव अतिथिपण्णाकारो होतु, न हि ते अञ्ञं इतो उत्तरितरं दातब्बं पस्सामीति अधिप्पायो. एवञ्चेव मे भविस्सति आतिथेय्यन्ति एवं अत्तनो पत्तिदानं याचित्वा ‘‘अयं ते धम्मकथिकसक्कारो’’ति अड्ढतेळसानि कोट्ठसतानि रत्तसालीनं पूरेत्वा ‘‘यावायं उपासिका चरति, ताव मा खयं गमिंसू’’ति अधिट्ठहित्वा पक्कामि. याव उपासिका अट्ठासि, ताव कोट्ठानं हेट्ठिमतलं नाम दट्ठुं नासक्खिंसु. ततो पट्ठाय ‘‘नन्दमाताय कोट्ठागारं विया’’ति वोहारो उदपादि.

अकतपातरासोति अभुत्तपातरासो. पुञ्ञन्ति पुब्बचेतना च मुञ्चनचेतना च. पुञ्ञमहीति अपरचेतना. सुखाय होतूति सुखत्थाय हितत्थाय होतु. एवं अत्तनो दाने वेस्सवणस्स पत्तिं अदासि.

पकरणेति कारणे. ओक्कस्स पसय्हाति आकड्ढित्वा अभिभवित्वा. यक्खयोनिन्ति भुम्मदेवताभावं. तेनेव पुरिमेन अत्तभावेन उद्दस्सेतीति पुरिमसरीरसदिसमेव सरीरं मापेत्वा अलङ्कतपटियत्तो सिरिगब्भसयनतले अत्तानं दस्सेति. उपासिका पटिदेसिताति उपासिका अहन्ति एवं उपासिकाभावं देसेसिं. यावदेति यावदेव. सेसं सब्बत्थ उत्तानमेवाति.

महायञ्ञवग्गो पञ्चमो.