७. पठमपटिसम्भिदासुत्तवण्णना

३८. सत्तमे इदं मे चेतसो लीनत्तन्ति उप्पन्ने चेतसो लीनत्ते ‘‘इदं मे चेतसो लीनत्त’’न्ति यथासभावतो जानाति. अज्झत्तं संखित्तं नाम थिनमिद्धानुगतं. बहिद्धा विक्खित्तं नाम पञ्चसु कामगुणेसु विक्खित्तं. वेदनातिआदीनि पपञ्चमूलवसेन गहितानि. वेदना हि तण्हाय मूलं सुखवसेन तण्हुप्पत्तितो, सञ्ञा दिट्ठिया मूलं अविभूतारम्मणे दिट्ठिउप्पत्तितो, वितक्को मानस्स मूलं वितक्कवसेन अस्मीति मानुप्पत्तितो. सप्पायासप्पायेसूति उपकारानुपकारेसु. निमित्तन्ति कारणं. सेसं सब्बत्थ उत्तानत्थमेवाति.

देवतावग्गो चतुत्थो.