४. दुतियसत्तकसुत्तवण्णना

२४. चतुत्थे न कम्मारामाति ये दिवसं चीवरकम्म-कायबन्धनपरिस्सावन-धम्मकरण-सम्मज्जनि-पादकठलिकादीनेव करोन्ति, ते सन्धायेस पटिक्खेपो. यो पन तेसं करणवेलाय एवं एतानि करोति, उद्देसवेलाय उद्देसं गण्हाति, सज्झायवेलाय सज्झायति, चेतियङ्गणवत्तवेलाय चेतियङ्गणवत्तं करोति, मनसिकारवेलाय मनसिकारं करोति, न सो कम्मारामो नाम.

यो इत्थिवण्णपुरिसवण्णादिवसेन आलापसल्लापं करोन्तोयेव रत्तिन्दिवं वीतिनामेति, एवरूपे भस्से परियन्तकारी न होति, अयं भस्सारामो नाम. यो पन रत्तिन्दिवं धम्मं कथेति, पञ्हं विस्सज्जेति, अयं अप्पभस्सोव भस्से परियन्तकारीयेव. कस्मा? ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो’’ति (म. नि. १.२७३) वुत्तत्ता.

यो ठितोपि गच्छन्तोपि निसिन्नोपि थिनमिद्धाभिभूतो निद्दायतियेव, अयं निद्दारामो नाम. यस्स पन करजकायगेलञ्ञेन चित्तं भवङ्गं ओतरति, नायं निद्दारामो. तेनेवाह – ‘‘अभिजानामहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म. नि. १.३८७).

यो ‘‘एकस्स दुतियो, द्विन्नं ततियो, तिण्णं चतुत्थो’’ति एवं संसट्ठोव विहरति, एकको अस्सादं न लभति, अयं सङ्गणिकारामो. यो पन चतूसु इरियापथेसु एककोव अस्सादं लभति, नायं सङ्गणिकारामो.

असन्तसम्भावनिच्छाय समन्नागता दुस्सीला पापिच्छा नाम. येसं पापका मित्ता चतूसु इरियापथेसु सह अयनतो पापसहाया, ये च तन्निन्नतप्पोणतप्पब्भारताय पापेसु सम्पवङ्का, ते पापमित्ता पापसहाया पापसम्पवङ्का नाम.

ओरमत्तकेनाति अवरमत्तकेन अप्पमत्तकेन. अन्तराति अरहत्तं अप्पत्वाव एत्थन्तरे. वोसानन्ति परिनिट्ठितभावं ‘‘अलमेत्तावता’’ति ओसक्कनं. इदं वुत्तं होति – याव सीलपारिसुद्धिज्झानविपस्सना सोतापन्नभावादीनं अञ्ञतरमत्तकेन वोसानं नापज्जिस्सन्ति, ताव वुद्धियेव भिक्खूनं पाटिकङ्खा, नो परिहानीति.