८-११. अभब्बट्ठानसुत्तचतुक्कवण्णना
९२-९५. अट्ठमे अनागमनीयं वत्थुन्ति अनुपगन्तब्बं कारणं, पञ्चन्नं वेरानं द्वासट्ठिया च दिट्ठिगतानमेतं अधिवचनं. अट्ठमं भवन्ति कामावचरे अट्ठमं पटिसन्धिं. नवमे कोतूहलमङ्गलेनाति दिट्ठसुतमुतमङ्गलेन. दसमे सयंकतन्तिआदीनि अत्तदिट्ठिवसेन वुत्तानि. अधिच्चसमुप्पन्नन्ति अहेतुनिब्बत्तं. सेसं सब्बत्थ उत्तानमेवाति.
सीतिवग्गो नवमो.