१. सीतिभावसुत्तवण्णना
८५. नवमस्स पठमे सीतिभावन्ति सीतलभावं. यस्मिं समये चित्तं निग्गण्हितब्बन्तिआदीसु उद्धच्चसमये चित्तं समाधिना निग्गहेतब्बं नाम, कोसज्जानुपतितकाले वीरियेन पग्गहेतब्बं नाम, निरस्सादगतकाले समाधिना सम्पहंसितब्बं नाम, समप्पवत्तकाले बोज्झङ्गुपेक्खाय अज्झुपेक्खितब्बं नाम.