३. उत्तरिमनुस्सधम्मसुत्तवण्णना

७७. ततिये उत्तरिमनुस्सधम्माति मनुस्सधम्मतो उत्तरि. अलमरियञाणदस्सनविसेसन्ति अरियभावं कातुं समत्थं ञाणदस्सनविसेसं, चत्तारो मग्गे चत्तारि च फलानीति अत्थो. कुहनन्ति तिविधं कुहनवत्थुं. लपनन्ति लाभत्थिकताय उक्खिपित्वा अवक्खिपित्वा वा लपनं.