८. पुरिसिन्द्रियञाणसुत्तवण्णना
६२. अट्ठमे अञ्ञतरोति देवदत्तपक्खिको एको. समन्नाहरित्वाति आवज्जित्वा. इदं सो ‘‘किं नु खो भगवता जानित्वा कथितं, उदाहु अजानित्वा, एकंसिकं वा कथितं उदाहु विभज्जकथित’’न्ति अधिप्पायेन पुच्छति. आपायिकोति अपाये निब्बत्तनको. नेरयिकोति निरयगामी. कप्पट्ठोति कप्पट्ठियकम्मस्स कतत्ता कप्पं ठस्सति. अतेकिच्छोति न सक्का तिकिच्छितुं. द्वेज्झन्ति द्विधाभावं. वालग्गकोटिनित्तुदनमत्तन्ति वालस्स अग्गकोटिया दस्सेतब्बमत्तकं, वालग्गकोटिनिपातमत्तकं वा. पुरिसिन्द्रियञाणानीति पुरिसपुग्गलानं इन्द्रियपरोपरियत्तञाणानि, इन्द्रियानं तिक्खमुदुभावजाननञाणानीति अत्थो.
विज्जमाना कुसलापि धम्मा अकुसलापि धम्माति एत्तका कुसला धम्मा विज्जन्ति, एत्तका अकुसला धम्माति जानामि. अन्तरहिताति अदस्सनं गता. सम्मुखीभूताति समुदाचारवसेन पाकटा जाता. कुसलमूलन्ति कुसलज्झासयो. कुसला कुसलन्ति तम्हा कुसलज्झासया अञ्ञम्पि कुसलं निब्बत्तिस्सति. सारदानीति सारादानि गहितसारानि, सरदमासे वा निब्बत्तानि. सुखसयितानीति सुखसन्निचितानि. सुखेत्तेति मण्डखेत्ते. निक्खित्तानीति वुत्तानि. सप्पटिभागाति सरिक्खका. अभिदो अद्धरत्तन्ति अभिअद्धरत्तं अद्धरत्ते अभिमुखीभूते. भत्तकालसमयेति राजकुलानं भत्तकालसङ्खाते समये. परिहानधम्मोति को एवं भगवता ञातोति? अजातसत्तुराजा. सो हि पापमित्तं निस्साय मग्गफलेहि परिहीनो. अपरेपि सुप्पबुद्धसुनक्खत्तादयो भगवता ञाताव. अपरिहानधम्मोति एवं भगवता को ञातो? सुसीमो परिब्बाजको अञ्ञे च एवरूपा. परिनिब्बायिस्सतीति एवं को ञातो भगवताति? सन्ततिमहामत्तो अञ्ञे च एवरूपा.