६. हत्थिसारिपुत्तसुत्तवण्णना
६०. छट्ठे अभिधम्मकथन्ति अभिधम्ममिस्सकं कथं. कथं ओपातेतीति तेसं कथं विच्छिन्दित्वा अत्तनो कथं कथेति. थेरानं भिक्खूनन्ति करणत्थे सामिवचनं, थेरेहि भिक्खूहि सद्धिन्ति अत्थो. या च थेरानं अभिधम्मकथा, तं अयम्पि कथेतुं सक्कोतीति अत्थो. चेतोपरियायन्ति चित्तवारं. इधाति इमस्मिं लोके. सोरतसोरतोति सूरतो विय सूरतो, सोरच्चसमन्नागतो वियाति अत्थो. निवातनिवातोति निवातो विय निवातो, निवातवुत्ति वियाति अत्थो. उपसन्तुपसन्तोति उपसन्तो विय उपसन्तो. वपकस्सतेव सत्थाराति सत्थु सन्तिका अपगच्छति. संसट्ठस्साति पञ्चहि संसग्गेहि संसट्ठस्स. विस्सट्ठस्साति विस्सज्जितस्स. पाकतस्साति पाकतिन्द्रियस्स.
किट्ठादोति किट्ठखादको. अन्तरधापेय्याति नासेय्य. गोपसूति गावो च अजिका च. सिप्पिसम्बुकन्ति सिप्पियो च सम्बुका च. सक्खरकठलन्ति सक्खरा च कठलानि च. आभिदोसिकन्ति अभिञ्ञातदोसं कुद्रूसकभोजनं. नच्छादेय्याति न रुच्चेय्य. तत्थ यदेतं पुरिसं भुत्ताविन्ति उपयोगवचनं, तं सामिअत्थे दट्ठब्बं. अमुं हावुसो, पुरिसन्ति, आवुसो, अमुं पुरिसं.
सब्बनिमित्तानन्ति सब्बेसं निच्चनिमित्तादीनं निमित्तानं. अनिमित्तं चेतोसमाधिन्ति बलवविपस्सनासमाधिं. चीरिकसद्दोति झल्लिकसद्दो. सरिस्सति नेक्खम्मस्साति पब्बज्जाय गुणं सरिस्सति. अरहतं अहोसीति भगवतो सावकानं अरहन्तानं अन्तरे एको अरहा अहोसि. अयञ्हि थेरो सत्त वारे गिही हुत्वा सत्त वारे पब्बजि. किं कारणा? कस्सपसम्मासम्बुद्धकाले किरेस एकस्स भिक्खुनो गिहिभावे वण्णं कथेसि. सो तेनेव कम्मेन अरहत्तस्स उपनिस्सये विज्जमानेयेव सत्त वारे गिहिभावे च पब्बज्जाय च सञ्चरन्तो सत्तमे वारे पब्बजित्वा अरहत्तं पापुणीति.