३. ततियपण्णासकं
(११) १. सम्बोधवग्गो
१. पुब्बेवसम्बोधसुत्तवण्णना
१०४. ततियस्स पठमे पुब्बेव सम्बोधाति सम्बोधितो पुब्बेव, अरियमग्गप्पत्तितो अपरभागेयेवाति वुत्तं होति. अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्चस्स. बोधिसत्तस्सेव सतोति बुज्झनकसत्तस्सेव सतो, सम्मासम्बोधिं अधिगन्तुं आरभन्तस्सेव सतो, सम्बोधिया वा सत्तस्सेव लग्गस्सेव सतो. दीपङ्करस्स हि भगवतो पादमूले अट्ठधम्मसमोधानेन अभिनीहारसमिद्धितो पभुति तथागतो सम्मासम्बोधिं सत्तो लग्गो ‘‘पत्तब्बा मया एसा’’ति तदधिगमाय परक्कमं अमुञ्चन्तोयेव आगतो, तस्मा बोधिसत्तोति वुच्चति. को नु खोति कतमो नु खो. लोकोति सङ्खारलोको. अस्सादोति मधुराकारो. आदीनवोति अनभिनन्दितब्बाकारो. तस्स मय्हन्ति तस्स एवं बोधिसत्तस्सेव सतो मय्हं. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं आगम्म आरब्भ पटिच्च छन्दरागो विनयं गच्छति पहीयति, तस्मा निब्बानं ‘‘छन्दरागविनयो छन्दरागप्पहान’’न्ति वुच्चति. इदं लोकनिस्सरणन्ति इदं निब्बानं लोकतो निस्सटत्ता लोकनिस्सरणन्ति वुच्चति. यावकीवन्ति यत्तकं पमाणं कालं. अब्भञ्ञासिन्ति अभिविसिट्ठेन अरियमग्गञाणेन अञ्ञासिं. ञाणञ्च पन मे दस्सनन्ति द्वीहिपि पदेहि पच्चवेक्खणञाणं वुत्तं. सेसमेत्थ उत्तानमेवाति.
२. पठमअस्सादसुत्तवण्णना
१०५. दुतिये अस्सादपरियेसनं अचरिन्ति अस्सादपरियेसनत्थाय अचरिं. कुतो पट्ठायाति? सुमेधकालतो पट्ठाय. पञ्ञायाति सहविपस्सनाय मग्गपञ्ञाय. सुदिट्ठोति सुप्पटिविद्धो. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बो. ततियं सब्बत्थ उत्तानमेव.
४. समणब्राह्मणसुत्तवण्णना
१०७. चतुत्थे सामञ्ञत्थन्ति चतुब्बिधं अरियफलं. इतरं तस्सेव वेवचनं. सामञ्ञत्थेन वा चत्तारो मग्गा, ब्रह्मञ्ञत्थेन चत्तारि फलानि. इमेसु पन चतूसुपि सुत्तेसु खन्धलोकोव कथितो.
५. रुण्णसुत्तवण्णना
१०८. पञ्चमं अत्थुप्पत्तिया निक्खित्तं. कतराय अत्थुप्पत्तिया? छब्बग्गियानं अनाचारे. ते किर गायन्ता नच्चन्ता हसन्ता विचरिंसु. भिक्खू दसबलस्स आरोचयिंसु. सत्था ते पक्कोसापेत्वा तेसं ओवादत्थाय इदं सुत्तं आरभि. तत्थ रुण्णन्ति रोदितं. उम्मत्तकन्ति उम्मत्तककिरिया. कोमारकन्ति कुमारकेहि कत्तब्बकिच्चं. दन्तविदंसकहसितन्ति दन्ते दस्सेत्वा पाणिं पहरन्तानं महासद्देन हसितं. सेतुघातो गीतेति गीते वो पच्चयघातो होतु, सहेतुकं गीतं पजहथाति दीपेति. नच्चेपि एसेव नयो. अलन्ति युत्तं. धम्मप्पमोदितानं सतन्ति एत्थ धम्मो वुच्चति कारणं, केनचिदेव कारणेन पमुदितानं सन्तानं. सितं सितमत्तायाति तस्मिं सितकारणे सति यं सितं करोथ, तं वो सितमत्ताय अग्गदन्ते दस्सेत्वा पहट्ठाकारमत्तदस्सनाययेव युत्तन्ति वुत्तं होति.
६. अतित्तिसुत्तवण्णना
१०९. छट्ठे सोप्पस्साति निद्दाय. पटिसेवनाय नत्थि तित्तीति यथा यथा पटिसेवति, तथा तथा रुच्चतियेवाति तित्ति नाम नत्थि. सेसपदद्वयेपि एसेव नयो. सचे हि महासमुद्दे उदकं सुरा भवेय्य, सुरासोण्डो च मच्छो हुत्वा निब्बत्तेय्य, तस्स तत्थ चरन्तस्सपि सयन्तस्सपि तित्ति नाम न भवेय्य. इमस्मिं सुत्ते वट्टमेव कथितं.
७. अरक्खितसुत्तवण्णना
११०. सत्तमे अवस्सुतं होतीति तिन्तं होति. न भद्दकं मरणं होतीति अपाये पटिसन्धिपच्चयताय न लद्धकं होति. कालकिरियाति तस्सेव वेवचनं. सुक्कपक्खे सग्गे पटिसन्धिपच्चयताय भद्दकं होति लद्धकं. तं पन एकन्तेन सोतापन्नादीनं तिण्णं अरियसावकानंयेव वट्टति. सेसमेत्थ उत्तानमेवाति.
८. ब्यापन्नसुत्तवण्णना
१११. अट्ठमे ब्यापन्नन्ति पकतिभावं जहित्वा ठितं. सेसं पुरिमसुत्ते वुत्तनयमेव.
९. पठमनिदानसुत्तवण्णना
११२. नवमे निदानानीति कारणानि. कम्मानं समुदयायाति वट्टगामिकम्मानं पिण्डकरणत्थाय. लोभपकतन्ति लोभेन पकतं. सावज्जन्ति सदोसं. तं कम्मं कम्मसमुदयाय संवत्ततीति तं कम्मं अञ्ञेसम्पि वट्टगामिकम्मानं समुदयाय पिण्डकरणत्थाय संवत्तति. न तं कम्मं कम्मनिरोधायाति तं पन कम्मं वट्टगामिकम्मानं निरोधत्थाय न संवत्तति. सुक्कपक्खे कम्मानं समुदयायाति विवट्टगामिकम्मानं समुदयत्थाय. इमिना नयेन सब्बं अत्थतो वेदितब्बं.
१०. दुतियनिदानसुत्तवण्णना
११३. दसमे कम्मानन्ति वट्टगामिकम्मानमेव. छन्दरागट्ठानियेति छन्दरागस्स कारणभूते. आरब्भाति आगम्म सन्धाय पटिच्च. छन्दोति तण्हाछन्दो. यो चेतसो सारागोति यो चित्तस्स रागो रज्जना रज्जितत्तं, एतमहं संयोजनं वदामि, बन्धनं वदामीति अत्थो. सुक्कपक्खे कम्मानन्ति विवट्टगामिकम्मानं. तदभिनिवत्तेतीति तं अभिनिवत्तेति. यदा वा तेन विपाको ञातो होति विदितो, तदा ते चेव धम्मे तञ्च विपाकं अभिनिवत्तेति. इमिना च पदेन विपस्सना कथिता, तदभिनिवत्तेत्वाति इमिना मग्गो. चेतसा अभिनिविज्झित्वाति इमिना च मग्गोव. पञ्ञाय अतिविज्झ पस्सतीति सह विपस्सनाय मग्गपञ्ञाय निब्बिज्झित्वा पस्सति. एवं सब्बत्थ अत्थो वेदितब्बो. इमस्मिं पन सुत्ते वट्टविवट्टं कथितन्ति.
सम्बोधवग्गो पठमो.
(१२) २. आपायिकवग्गो
१. आपायिकसुत्तवण्णना
११४. दुतियस्स पठमे अपायं गच्छिस्सन्तीति आपायिका. निरयं गच्छिस्सन्तीति नेरयिका. इदमप्पहायाति इदं ब्रह्मचारिपटिञ्ञतादिं पापधम्मत्तयं अविजहित्वा. ब्रह्मचारिपटिञ्ञोति ब्रह्मचारिपटिरूपको, तेसं वा आकप्पं अविजहनेन ‘‘अहम्पि ब्रह्मचारी’’ति एवंपटिञ्ञो. अनुद्धंसेतीति अक्कोसति परिभासति चोदेति. नत्थि कामेसु दोसोति किलेसकामेन वत्थुकामे सेवन्तस्स नत्थि दोसो. पातब्यतन्ति पिवितब्बतं परिभुञ्जितब्बतं निरासङ्केन चित्तेन पिपासितस्स पानीयपिवनसदिसं परिभुञ्जितब्बतं. इमस्मिं सुत्ते वट्टमेव कथितं.
२. दुल्लभसुत्तवण्णना
११५. दुतिये कतञ्ञू कतवेदीति ‘‘इमिना मय्हं कत’’न्ति तेन कतकम्मं ञत्वा विदितं पाकटं कत्वा पटिकरणकपुग्गलो.
३. अप्पमेय्यसुत्तवण्णना
११६. ततिये सुखेन मेतब्बोति सुप्पमेय्यो. दुक्खेन मेतब्बोति दुप्पमेय्यो. पमेतुं न सक्कोतीति अप्पमेय्यो. उन्नळोति उग्गतनळो, तुच्छमानं उक्खिपित्वा ठितोति अत्थो. चपलोति पत्तमण्डनादिना चापल्लेन समन्नागतो. मुखरोति मुखखरो. विकिण्णवाचोति असञ्ञतवचनो. असमाहितोति चित्तेकग्गतारहितो. विब्भन्तचित्तोति भन्तचित्तो भन्तगाविभन्तमिगसप्पटिभागो. पाकतिन्द्रियोति विवटिन्द्रियो. सेसमेत्थ उत्तानमेवाति.
४. आनेञ्जसुत्तवण्णना
११७. चतुत्थे तदस्सादेतीति तं झानं अस्सादेति. तं निकामेतीति तदेव पत्थेति. तेन च वित्तिं आपज्जतीति तेन झानेन तुट्ठिं आपज्जति. तत्र ठितोति तस्मिं झाने ठितो. तदधिमुत्तोति तत्थेव अधिमुत्तो. तब्बहुलविहारीति तेन बहुलं विहरन्तो. सहब्यतं उपपज्जतीति सहभावं उपपज्जति, तस्मिं देवलोके निब्बत्ततीति अत्थो. निरयम्पि गच्छतीतिआदि निरयादीहि अविप्पमुत्तत्ता अपरपरियायवसेन तत्थ गमनं सन्धाय वुत्तं. न हि तस्स उपचारज्झानतो बलवतरं अकुसलं अत्थि, येन अनन्तरं अपाये निब्बत्तेय्य. भगवतो पन सावकोति सोतापन्नसकदागामिअनागामीनं अञ्ञतरो. तस्मिंयेव भवेति तत्थेव अरूपभवे. परिनिब्बायतीति अप्पच्चयपरिनिब्बानेन परिनिब्बायति. अधिप्पयासोति अधिकप्पयोगो. सेसमेत्थ वुत्तनयेनेव वेदितब्बं. इमस्मिं पन सुत्ते पुथुज्जनस्स उपपत्तिज्झानं कथितं, अरियसावकस्स तदेव उपपत्तिज्झानञ्च विपस्सनापादकज्झानञ्च कथितं.
५. विपत्तिसम्पदासुत्तवण्णना
११८. पञ्चमे सीलविपत्तीति सीलस्स विपन्नाकारो. सेसद्वयेपि एसेव नयो. नत्थि दिन्नन्ति दिन्नस्स फलाभावं सन्धाय वदति. यिट्ठं वुच्चति महायोगो. हुतन्ति पहेणकसक्कारो अधिप्पेतो. तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति. सुकतदुक्कटानन्ति सुकतदुक्कतानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि, नत्थि परो लोकोति इध लोके ठितस्सापि परलोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति. नत्थि सत्ता ओपपातिकाति चवित्वा उप्पज्जनकसत्ता नाम नत्थीति वदति. सम्पदाति पारिपूरियो. सीलसम्पदाति सीलस्स परिपुण्णअवेकल्लभावो. सेसद्वयेपि एसेव नयो. अत्थि दिन्नन्तिआदि वुत्तपटिपक्खनयेन गहेतब्बं.
६. अपण्णकसुत्तवण्णना
११९. छट्ठे अपण्णको मणीति छहि तलेहि समन्नागतो पासको. सुगतिं सग्गन्ति चातुमहाराजिकादीसु अञ्ञतरं सग्गं लोकं. इमस्मिं सुत्ते सीलञ्च सम्मादिट्ठि चाति उभयम्पि मिस्सकं कथितं. सत्तमं उत्तानमेव.
८. पठमसोचेय्यसुत्तवण्णना
१२१. अट्ठमे सोचेय्यानीति सुचिभावा. कायसोचेय्यन्ति कायद्वारे सुचिभावो. सेसद्वयेपि एसेव नयो. इमेसु पन पटिपाटिया चतूसु सुत्तेसु अगारिकपटिपदा कथिता. सोतापन्नसकदागामीनम्पि वट्टति.
९. दुतियसोचेय्यसुत्तवण्णना
१२२. नवमे अज्झत्तन्ति नियकज्झत्तं. कामच्छन्दन्ति कामच्छन्दनीवरणं. ब्यापादादीसुपि एसेव नयो. सेसमेत्थ हेट्ठा वुत्तनयमेव. गाथाय पन कायसुचिन्ति कायद्वारे सुचिं, कायेन वा सुचिं. सेसद्वयेपि एसेव नयो. निन्हातपापकन्ति सब्बे पापे निन्हापेत्वा धोवित्वा ठितं. इमिना सुत्तेनपि गाथायपि खीणासवोव कथितोति.
१०. मोनेय्यसुत्तवण्णना
१२३. दसमे मोनेय्यानीति मुनिभावा. कायमोनेय्यन्ति कायद्वारे मुनिभावो साधुभावो पण्डितभावो. सेसद्वयेपि एसेव नयो. इदं वुच्चति, भिक्खवे, कायमोनेय्यन्ति इदं तिविधकायदुच्चरितप्पहानं कायमोनेय्यं नाम. अपिच तिविधं कायसुचरितम्पि कायमोनेय्यं, तथा कायारम्मणं ञाणं कायमोनेय्यं, कायपरिञ्ञा कायमोनेय्यं, परिञ्ञासहगतो मग्गो कायमोनेय्यं, काये छन्दरागस्स पहानं कायमोनेय्यं, कायसङ्खारनिरोधो चतुत्थज्झानसमापत्ति कायमोनेय्यं. वचीमोनेय्येपि एसेव नयो.
अयं पनेत्थ विसेसो – यथा इध चतुत्थज्झानसमापत्ति, एवं तत्थ वचीसङ्खारनिरोधो दुतियज्झानसमापत्ति वचीमोनेय्यन्ति वेदितब्बा. मनोमोनेय्यम्पि इमिनाव नयेन अत्थं ञत्वा चित्तसङ्खारनिरोधो सञ्ञावेदयितनिरोधसमापत्ति मनोमोनेय्यन्ति वेदितब्बा. कायमुनिन्ति कायद्वारे मुनिं उत्तमं परिसुद्धं, कायेन वा मुनिं. सेसद्वयेपि एसेव नयो. सब्बप्पहायिनन्ति खीणासवं. खीणासवो हि सब्बप्पहायी नामाति.
आपायिकवग्गो दुतियो.
(१३) ३. कुसिनारवग्गो
१. कुसिनारसुत्तवण्णना
१२४. ततियस्स पठमे कुसिनारायन्ति एवंनामके नगरे. बलिहरणे वनसण्डेति एवंनामके वनसण्डे. तत्थ किर भूतबलिकरणत्थं बलिं हरन्ति, तस्मा बलिहरणन्ति वुच्चति. आकङ्खमानोति इच्छमानो. सहत्थाति सहत्थेन. सम्पवारेतीति अलं अलन्ति वाचाय चेव हत्थविकारेन च पटिक्खिपापेति. साधु वत मायन्ति साधु वत मं अयं. गथितोति तण्हागेधेन गथितो. मुच्छितोति तण्हामुच्छनाययेव मुच्छितो. अज्झोपन्नोति तण्हाय गिलित्वा परिनिट्ठपेत्वा पवत्तो. अनिस्सरणपञ्ञोति छन्दरागं पहाय संकड्ढित्वा परिभुञ्जन्तो निस्सरणपञ्ञो नाम होति, अयं न तादिसो, सच्छन्दरागो परिभुञ्जतीति अनिस्सरणपञ्ञो. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो. नेक्खम्मवितक्कादयो पनेत्थ मिस्सका कथिताति वेदितब्बा.
२. भण्डनसुत्तवण्णना
१२५. दुतिये पजहिंसूति पजहन्ति. बहुलमकंसूति पुनप्पुनं करोन्ति. इधापि तयो वितक्का मिस्सकाव कथिता.
३. गोतमकचेतियसुत्तवण्णना
१२६. ततिये गोतमके चेतियेति गोतमकयक्खस्स भवने. तथागतो हि पठमबोधियं वीसति वस्सानि कदाचि चापाले चेतिये, कदाचि सारन्ददे, कदाचि बहुपुत्ते, कदाचि गोतमकेति एवं येभुय्येन देवकुलेसुयेव विहासि. इमस्मिं पन काले वेसालिं उपनिस्साय गोतमकस्स यक्खस्स भवनट्ठाने विहासि. तेन वुत्तं – ‘‘गोतमके चेतिये’’ति. एतदवोचाति एतं ‘‘अभिञ्ञायाह’’न्तिआदिकं सुत्तं अवोच.
इदञ्च भगवता सुत्तं अत्थुप्पत्तियं वुत्तन्ति वेदितब्बं. कतरअत्थुप्पत्तियन्ति? मूलपरियायअत्थुप्पत्तियं (म. नि. १.१ आदयो). सम्बहुला किर ब्राह्मणपब्बजिता अत्तना उग्गहितबुद्धवचनं निस्साय जाननमदं उप्पादेत्वा धम्मस्सवनग्गं न गच्छन्ति – ‘‘सम्मासम्बुद्धो कथेन्तो अम्हेहि ञातमेव कथेस्सति, नो अञ्ञात’’न्ति. भिक्खू तथागतस्स आरोचेसुं. सत्था ते भिक्खू पक्कोसापेत्वा मुखपटिञ्ञं गहेत्वा मूलपरियायं देसेसि. ते भिक्खू देसनाय नेव आगतट्ठानं, न गतट्ठानं अद्दसंसु. अपस्सन्ता ‘‘सम्मासम्बुद्धो ‘मय्हं कथा निय्याती’ति मुखसम्पत्तमेव कथेती’’ति चिन्तयिंसु. सत्था तेसं मनं जानित्वा इमं सुत्तन्तं आरभि.
तत्थ अभिञ्ञायाति ‘‘इमे पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, बावीसतिन्द्रियानि, चत्तारि सच्चानि, नव हेतू, सत्त फस्सा, सत्त वेदना, सत्त चेतना, सत्त सञ्ञा, सत्त चित्तानी’’ति जानित्वा पटिविज्झित्वा पच्चक्खं कत्वा, तथा – ‘‘इमे चत्तारो सतिपट्ठाना’’तिआदिना नयेन ते ते धम्मे जानित्वा पटिविज्झित्वा पच्चक्खमेव कत्वाति अत्थो. सनिदानन्ति सप्पच्चयमेव कत्वा कथेमि, नो अप्पच्चयं. सप्पाटिहारियन्ति पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा कथेमि, नो अप्पाटिहारियं. अलञ्च पन वोति युत्तञ्च पन तुम्हाकं. तुट्ठियाति ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति तीणि रतनानि गुणतो अनुस्सरन्तानं तुम्हाकं युत्तमेव तुट्ठिं कातुन्ति अत्थो. सेसपदद्वयेपि एसेव नयो.
अकम्पित्थाति छहि आकारेहि अकम्पित्थ. एवरूपो हि पथविकम्पो बोधिमण्डेपि अहोसि. बोधिसत्ते किर दक्खिणदिसाभागेन बोधिमण्डं अभिरुळ्हे दक्खिणदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, उत्तरभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. पच्छिमदिसं गते पच्छिमभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, पाचीनभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. उत्तरदिसं गते उत्तरदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, दक्खिणदिसाभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. पाचीनदिसं गते पाचीनदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, पच्छिमभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. बोधिरुक्खोपि सकिं हेट्ठा अवीचिं पापुणन्तो विय, सकिं उग्गन्त्वा भवग्गं अभिहनन्तो विय. तस्मिम्पि दिवसे एवं छहि आकारेहि चक्कवाळसहस्सी महापथवी अकम्पित्थ.
४. भरण्डुकालामसुत्तवण्णना
१२७. चतुत्थे केवलकप्पन्ति सकलकप्पं. अन्वाहिण्डन्तोति विचरन्तो. नाद्दसाति किं कारणा न अद्दस? अयं किर भरण्डु कालामो सक्यानं अग्गपिण्डं खादन्तो विचरति. तस्स वसनट्ठानं सम्पत्तकाले एका धम्मदेसना समुट्ठहिस्सतीति ञत्वा भगवा एवं अधिट्ठासि, यथा अञ्ञो आवसथो न पञ्ञायित्थ. तस्मा न अद्दस. पुराणसब्रह्मचारीति पोराणको सब्रह्मचारी. सो किर आळारकालामकाले तस्मिंयेव अस्समे अहोसि, तं सन्धायेवमाह. सन्थरं पञ्ञापेहीति सन्थरितब्बं सन्थराहीति अत्थो. सन्थरं पञ्ञापेत्वाति कप्पियमञ्चके पच्चत्थरणं पञ्ञापेत्वा. कामानं परिञ्ञं पञ्ञापेतीति एत्थ परिञ्ञा नाम समतिक्कमो, तस्मा कामानं समतिक्कमं पठमज्झानं पञ्ञापेति. न रूपानं परिञ्ञन्ति रूपानं समतिक्कमभूतं अरूपावचरसमापत्तिं न पञ्ञापेति. न वेदनानं परिञ्ञन्ति वेदनानं समतिक्कमं निब्बानं न पञ्ञापेति. निट्ठाति गति निप्फत्ति. उदाहु पुथूति उदाहु नाना.
५. हत्थकसुत्तवण्णना
१२८. पञ्चमे अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनादीसु दिस्सति. तत्थ ‘‘अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो, उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति एवमादीसु खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’ति एवमादीसु (अ. नि. ४.१००) सुन्दरे.
‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७) –
एवमादीसु अभिरूपे. ‘‘अभिक्कन्तं, भो गोतमा’’ति एवमादीसु (पारा. १५) अब्भनुमोदने. इध पन सुन्दरे. तेन अभिक्कन्ताय रत्तियाति इट्ठाय कन्ताय मनापाय रत्तियाति वुत्तं होति. अभिक्कन्तवण्णाति इध अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु (म. नि. २.३९९; सु. नि. ५५३) छवियं. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति एवमादीसु (म. नि. २.७७) थुतियं. ‘‘चत्तारोमे, भो गोतम, वण्णा’’ति एवमादीसु (दी. नि. ३.११५) कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति एवमादीसु (सं. नि. १.२३४) कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’ति एवमादीसु (सं. नि. १.१३८) सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु (पारा. ६०२) पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतने. सो इध छविया दट्ठब्बो. तेन अभिक्कन्तवण्णाति अभिरूपच्छवि, इट्ठवण्णा मनापवण्णाति वुत्तं होति.
केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्याब्यामिस्सानतिरेकदळ्हत्थविसंयोगादिअनेकत्थो. तथा हिस्स ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरिय’’न्ति एवमादीसु (पारा. १) अनवसेसता अत्थो. ‘‘केवलकप्पा च अङ्गमगधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती’’ति एवमादीसु (महाव. ४३) येभुय्यता. ‘‘केवलस्स दुक्खक्खन्धस्स समुदयो होती’’ति एवमादीसु (विभ. २२५) अब्यामिस्सता. ‘‘केवलं सद्धामत्तकं नून अयमायस्मा’’ति एवमादीसु (महाव. २४४) अनतिरेकता. ‘‘आयस्मतो, भन्ते, अनुरुद्धस्स बाहियो नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो’’ति एवमादीसु (अ. नि. ४.२४३) दळ्हत्थता. ‘‘केवली वुसितवा उत्तमपुरिसोति वुच्चती’’ति एवमादीसु (सं. नि. ३.५७) विसंयोगो. इध पन अनवसेसता अत्थोति अधिप्पेता.
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनियमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु (म. नि. १.३८७) अभिसद्दहनमत्थो. ‘‘अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु (चूळव. २५०) वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु (म. नि. १.३८७) कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु (सु. नि. १०९८; चूळनि. कप्पमाणवपुच्छा ११७, कप्पमाणवपुच्छानिद्देसो ६१) पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु (जा. २.२२.१३६८; वि. व. १०९४) छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु (चूळव. ४४६) विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु (अ. नि. ८.८०) लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु (सं. नि. १.९४) समन्तभावो. इध पनस्स समन्तभावो अत्थो अधिप्पेतो. तस्मा केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति अत्थो.
ओभासेत्वाति आभाय फरित्वा. वालुकायाति सण्हाय वालुकाय. न सण्ठातीति न पतिट्ठाति. ओळारिकन्ति ब्रह्मदेवताय हि पथवियं पतिट्ठानकाले अत्तभावो ओळारिको मापेतुं वट्टति पथवी वा, तस्मा एवमाह. धम्माति इमिना पुब्बे उग्गहितबुद्धवचनं दस्सेति. नप्पवत्तिनो अहेसुन्ति सज्झायमूळ्हका वाचा परिहीनायेव अहेसुं. अप्पटिवानोति अनिवत्तो अनुक्कण्ठितो.
दस्सनस्साति चक्खुविञ्ञाणेन दस्सनस्स. उपट्ठानस्साति चतूहि पच्चयेहि उपट्ठानस्स. अधिसीलन्ति दसविधं सीलं. तञ्हि पञ्चसीलं उपादाय अधिसीलन्ति वुच्चति. अविहं गतोति अविहब्रह्मलोके निब्बत्तोस्मीति दस्सेति.
६. कटुवियसुत्तवण्णना
१२९. छट्ठे गोयोगपिलक्खस्मिन्ति गावीनं विक्कयट्ठाने उट्ठितपिलक्खस्स सन्तिके. रित्तस्सादन्ति झानसुखाभावेन रित्तस्सादं. बाहिरस्सादन्ति कामगुणसुखवसेन बाहिरस्सादं. कटुवियन्ति उच्छिट्ठं. आमगन्धेनाति कोधसङ्खातेन विस्सगन्धेन. अवस्सुतन्ति तिन्तं. मक्खिकाति किलेसमक्खिका. नानुपतिस्सन्तीति उट्ठाय न अनुबन्धिस्सन्ति. नान्वास्सविस्सन्तीति अनुबन्धित्वा न खादिस्सन्ति. संवेगमापादीति सोतापन्नो जातो.
कटुवियकतोति उच्छिट्ठकतो. आरका होतीति दूरे होति. विघातस्सेव भागवाति दुक्खस्सेव भागी. चरेतीति चरति गच्छति. दुम्मेधोति दुप्पञ्ञो. इमस्मिं सुत्ते वट्टमेव कथितं, गाथासु वट्टविवट्टं कथितन्ति. सत्तमे वट्टमेव भासितं.
८. दुतियअनुरुद्धसुत्तवण्णना
१३१. अट्ठमे इदं ते मानस्मिन्ति अयं ते नवविधेन वड्ढितमानोति अत्थो. इदं ते उद्धच्चस्मिन्ति इदं तव उद्धच्चं चित्तस्स उद्धतभावो. इदं ते कुक्कुच्चस्मिन्ति इदं तव कुक्कुच्चं.
९. पटिच्छन्नसुत्तवण्णना
१३२. नवमे आवहन्तीति निय्यन्ति. पटिच्छन्नो आवहतीति पटिच्छन्नोव हुत्वा निय्याति. विवटो विरोचतीति एत्थ एकतो उभतो अत्ततो सब्बत्थकतोति चतुब्बिधा विवटता वेदितब्बा. तत्थ एकतो विवटं नाम असाधारणसिक्खापदं. उभतो विवटं नाम साधारणसिक्खापदं. अत्ततो विवटं नाम पटिलद्धधम्मगुणो. सब्बत्थकविवटं नाम तेपिटकं बुद्धवचनं.
१०. लेखसुत्तवण्णना
१३३. दसमे अभिण्हन्ति अभिक्खणं निरन्तरं. आगाळ्हेनाति गाळ्हेन कक्खळेन. फरुसेनाति फरुसवचनेन. गाळ्हं कत्वा फरुसं कत्वा वुच्चमानोपीति अत्थो. अमनापेनाति मनं अनल्लीयन्तेन अवड्ढन्तेन. सन्धियतिमेवाति घटियतियेव. संसन्दतिमेवाति निरन्तरोव होति. सम्मोदतिमेवाति एकीभावमेव गच्छति. सेसं सब्बत्थ उत्तानमेवाति.
कुसिनारवग्गो ततियो.
(१४) ४. योधाजीववग्गो
१. योधाजीवसुत्तवण्णना
१३४. चतुत्थस्स पठमे युद्धं उपजीवतीति योधाजीवो. राजारहोति रञ्ञो अनुच्छविको. राजभोग्गोति रञ्ञो उपभोगपरिभोगो. अङ्गन्तेव सङ्ख्यं गच्छतीति हत्थो विय पादो विय च अवस्सं इच्छितब्बत्ता अङ्गन्ति सङ्ख्यं गच्छति. दूरे पाती होतीति उदके उसभमत्तं, थले अट्ठुसभमत्तं, ततो वा उत्तरिन्ति दूरे कण्डं पातेति. दुट्ठगामणिअभयस्स हि योधाजीवो नवउसभमत्तं कण्डं पातेसि, पच्छिमभवे बोधिसत्तो योजनप्पमाणं. अक्खणवेधीति अविराधितवेधी, अक्खणं वा विज्जु विज्जन्तरिकाय विज्झितुं समत्थोति अत्थो. महतो कायस्स पदालेताति एकतोबद्धं फलकसतम्पि महिंसचम्मसतम्पि अङ्गुट्ठपमाणबहलं लोहपट्टम्पि चतुरङ्गुलबहलं असनपदरम्पि विदत्थिबहलं उदुम्बरपदरम्पि दीघन्तेन वालिकसकटम्पि विनिविज्झितुं समत्थोति अत्थो. यंकिञ्चि रूपन्तिआदि विसुद्धिमग्गे वित्थारितमेव. नेतं ममातिआदि तण्हामानदिट्ठिपटिक्खेपवसेन वुत्तं. सम्मप्पञ्ञाय पस्सतीति सम्मा हेतुना कारणेन सहविपस्सनाय मग्गपञ्ञाय पस्सति. पदालेतीति अरहत्तमग्गेन पदालेति.
२. परिसासुत्तवण्णना
१३५. दुतिये उक्काचितविनीताति अप्पटिपुच्छित्वा विनीता दुब्बिनीतपरिसा. पटिपुच्छाविनीताति पुच्छित्वा विनीता सुविनीतपरिसा. यावताविनीताति पमाणवसेन विनीता, पमाणं ञत्वा विनीतपरिसाति अत्थो. ‘‘यावतज्झा’’ति पाळिया पन याव अज्झासयाति अत्थो, अज्झासयं ञत्वा विनीतपरिसाति वुत्तं होति. ततियं उत्तानमेव.
४. उप्पादासुत्तवण्णना
१३७. चतुत्थे धम्मट्ठितताति सभावट्ठितता. धम्मनियामताति सभावनियामता. सब्बे सङ्खाराति चतुभूमकसङ्खारा. अनिच्चाति हुत्वा अभावट्ठेन अनिच्चा. दुक्खाति सम्पटिपीळनट्ठेन दुक्खा. अनत्ताति अवसवत्तनट्ठेन अनत्ता. इति इमस्मिं सुत्ते तीणि लक्खणानि मिस्सकानि कथितानि.
५. केसकम्बलसुत्तवण्णना
१३८. पञ्चमे तन्तावुतानं वत्थानन्ति पच्चत्ते सामिवचनं, तन्तेहि वायितवत्थानीति अत्थो. केसकम्बलोति मनुस्सकेसेहि वायितकम्बलो. पुथुसमणब्राह्मणवादानन्ति इदम्पि पच्चत्ते सामिवचनं. पटिकिट्ठोति पच्छिमको लामको. मोघपुरिसोति तुच्छपुरिसो. पटिबाहतीति पटिसेधेति. खिप्पं उड्डेय्याति कुमिनं ओड्डेय्य. छट्ठसत्तमानि उत्तानत्थानेव.
८. अस्सखळुङ्कसुत्तवण्णना
१४१. अट्ठमे अस्सखळुङ्कोति अस्सपोतो. इदमस्स जवस्मिं वदामीति अयमस्स ञाणजवोति वदामि. इदमस्स वण्णस्मिं वदामीति अयमस्स गुणवण्णोति वदामि. इदमस्स आरोहपरिणाहस्मिन्ति अयमस्स उच्चभावो परिमण्डलभावोति वदामीति.
९. अस्सपरस्ससुत्तवण्णना
१४२. नवमे अस्सपरस्सेति अस्सेसु परस्से. पुरिसपरस्सेति पुरिसेसु परस्से, पुरिसपुरिसेति अत्थो. इमस्मिं सुत्ते तीणि मग्गफलानि कथितानि. तत्थ अयं तीहि मग्गेहि ञाणजवसम्पन्नोति वेदितब्बो.
१०. अस्साजानीयसुत्तवण्णना
१४३. दसमे भद्रेति भद्दके. अस्साजानीयेति कारणाकारणं जाननके अस्से. पुरिसाजानीयेसुपि एसेव नयो. इमस्मिं सुत्ते अरहत्तफलं कथितं. तत्रायं अरहत्तमग्गेन ञाणजवसम्पन्नोति वेदितब्बो.
११. पठममोरनिवापसुत्तवण्णना
१४४. एकादसमे अच्चन्तनिट्ठोति अन्तं अतिक्कन्तनिट्ठो, अकुप्पनिट्ठो धुवनिट्ठोति अत्थो. सेसं सदिसमेव.
१२. दुतियमोरनिवापसुत्तवण्णना
१४५. द्वादसमे इद्धिपाटिहारियेनाति इज्झनकपाटिहारियेन. आदेसनापाटिहारियेनाति आदिसित्वा अपदिसित्वा कथनअनुकथनकथापाटिहारियेन.
१३. ततियमोरनिवापसुत्तवण्णना
१४६. तेरसमे सम्मादिट्ठियाति फलसमापत्तत्थाय सम्मादिट्ठिया. सम्माञाणेनाति फलञाणेन. सम्माविमुत्तियाति सेसेहि फलसमापत्तिधम्मेहि. इमेसु तीसुपि सुत्तेसु खीणासवोव कथितोति.
योधाजीववग्गो चतुत्थो.
(१५) ५. मङ्गलवग्गो
१-९. अकुसलसुत्तादिवण्णना
१४७-१५५. पञ्चमस्स पठमे यथाभतं निक्खित्तोति यथा आनेत्वा ठपितो. दुतिये सावज्जेनाति सदोसेन. ततिये विसमेनाति सपक्खलनेन. समेनाति अपक्खलनेन. चतुत्थे असुचिनाति गूथसदिसेन अपरिसुद्धेन अमेज्झेन. सुचिनाति परिसुद्धेन मेज्झेन. पञ्चमादीनि उत्तानानेव.
१०. पुब्बण्हसुत्तवण्णना
१५६. दसमे सुनक्खत्तन्तिआदीसु यस्मिं दिवसे तयो सुचरितधम्मा पूरिता होन्ति, सो दिवसो लद्धनक्खत्तयोगो नाम, तेनस्स सदा सुनक्खत्तं नाम होतीति वुच्चति. स्वेव दिवसो कतमङ्गलो नाम होति, तेनस्स सदा सुमङ्गलन्ति वुच्चति. पभातम्पिस्स सदा सुप्पभातमेव, सयनतो उट्ठानम्पि सुहुट्ठितमेव, खणोपि सुक्खणोव, मुहुत्तोपि सुमुहुत्तोव. एत्थ च दसच्छरपमाणो कालो खणो नाम, तेन खणेन दसक्खणो कालो लयो नाम, तेन लयेन च दसलयो कालो खणलयो नाम, तेन दसगुणो मुहुत्तो नाम, तेन दसगुणो खणमुहुत्तो नामाति अयं विभागो वेदितब्बो. सुयिट्ठं ब्रह्मचारिसूति यस्मिं दिवसे तीणि सुचरितानि पूरितानि, तदास्स सेट्ठचारीसु दिन्नदानं सुयिट्ठं नाम होति. पदक्खिणं कायकम्मन्ति तं दिवसं तेन कतं कायकम्मं वड्ढिकायकम्मं नाम होति. सेसपदेसुपि एसेव नयो. पदक्खिणानि कत्वानाति वड्ढियुत्तानि कायकम्मादीनि कत्वा. लभन्तत्थे पदक्खिणेति पदक्खिणे वड्ढिअत्थेयेव लभति. सेसं उत्तानमेवाति.
मङ्गलवग्गो पञ्चमो.
ततियपण्णासकं निट्ठितं.