६. अट्ठकनागरसुत्तवण्णना

१६. छट्ठे दसमोति जातिगोत्तवसेन चेव सारपत्तकुलगणनाय च दसमे ठाने गणीयति, तेनस्स दसमोत्वेव नामं जातं. अट्ठकनागरोति अट्ठकनगरवासी. कुक्कुटारामेति कुक्कुटसेट्ठिना कारिते आरामे.

तेन भगवता…पे… सम्मदक्खातोति एत्थ अयं सङ्खेपत्थो – यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बञेय्यधम्मे पस्सता, अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता, तीहि वा विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता, सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि चापि रूपानि अतिविसुद्धेन मंसचक्खुना वा पस्सता, अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता, अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता, अरीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति एवं चतुवेसारज्जवसेन चतूहि कारणेहि थोमितेन अत्थि नु खो एको धम्मो अक्खातोति.

अभिसङ्खतन्ति कतं उप्पादितं. अभिसञ्चेतयितन्ति चेतयितं कप्पयितं. सो तत्थ ठितोति सो तस्मिं समथविपस्सनाधम्मे ठितो. धम्मरागेन धम्मनन्दियाति पदद्वयेनपि समथविपस्सनासु छन्दरागो वुत्तो. समथविपस्सनासु हि सब्बेन सब्बं छन्दरागं परियादियितुं सक्कोन्तो अरहा होति, असक्कोन्तो अनागामी होति. सो समथविपस्सनासु छन्दरागस्स अप्पहीनत्ता चतुत्थज्झानचेतनाय सुद्धावासे निब्बत्तति. अयं आचरियानं समानत्थकथा.

वितण्डवादी पनाह – ‘‘तेनेव धम्मरागेनाति वचनतो अकुसलेन सुद्धावासे निब्बत्तती’’ति. सो ‘‘सुत्तं आहराही’’ति वत्तब्बो. अद्धा अञ्ञं अपस्सन्तो इदमेव आहरिस्सति. ततो वत्तब्बो ‘‘किम्पनिदं सुत्तं नीतत्थं, उदाहु नेय्यत्थ’’न्ति. अद्धा ‘‘नीतत्थ’’न्ति वक्खति. ततो वत्तब्बो – एवं सन्ते अनागामिफलत्थिकेन समथविपस्सनासु छन्दरागो कत्तब्बो भविस्सति, छन्दरागे उप्पादिते अनागामिफलं पटिलद्धं भविस्सति, मा ‘‘सुत्तं मे लद्ध’’न्ति यं वा तं वा दीपेहि. पञ्हं कथेन्तेन हि आचरियस्स सन्तिके उग्गहेत्वा अत्थरसं पटिविज्झित्वा कथेतुं वट्टति. अकुसलेन हि सग्गे, कुसलेन च अपाये पटिसन्धि नाम नत्थि. वुत्तञ्चेतं भगवता –

‘‘न, भिक्खवे, लोभजेन कम्मेन, दोसजेन कम्मेन, मोहजेन कम्मेन देवा पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पनञ्ञापि काचि सुगतियो. अथ खो, भिक्खवे, लोभजेन कम्मेन, दोसजेन कम्मेन, मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पनञ्ञापि काचि दुग्गतियो’’ति (अ. नि. ६.३९) –

एवं सञ्ञापेतब्बो. सचे सञ्जानाति, सञ्जानातु. नो चे सञ्जानाति, ‘‘गच्छ पातोव विहारं पविसित्वा यागुं पिवा’’ति उय्योजेतब्बो.

अयं खो, गहपति, एकधम्मो अक्खातोति एकं धम्मं पुच्छितेन ‘‘अयम्पि एकधम्मो अक्खातो, अयम्पि एकधम्मो अक्खातो’’ति एवं पुच्छावसेन कथितत्ता एकादसपि धम्मा एकधम्मो नाम कतो. अमतुप्पत्तिअत्थेन वा सब्बेपि एकधम्मोति वत्तुं वट्टति.

निधिमुखं गवेसन्तोति निधिं परियेसन्तो. सकिदेवाति एकप्पयोगेनेव. कथं पन एकप्पयोगेनेव एकादसन्नं निधीनं अधिगमो होतीति? इधेकच्चो अरञ्ञे जीवितवुत्तिं गवेसमानो चरति. तमेनं अञ्ञतरो अत्थचरको दिस्वा ‘‘किं, भो, चरसी’’ति पुच्छति. सो ‘‘जीवितवुत्तिं परियेसामी’’ति आह. इतरो ‘‘तेन हि सम्म आगच्छ, एतं पासाणं पवट्टेही’’ति आह. सो तं पवट्टेत्वा उपरूपरिट्ठिता वा कुच्छिया कुच्छिं आहच्च ठिता वा एकादस कुम्भियो पस्सति. एवं एकप्पयोगेन एकादसन्नं अधिगमो होति.

आचरियधनं परियेसिस्सन्तीति अञ्ञतित्थिया हि यस्स सन्तिके सिप्पं उग्गण्हन्ति, तस्स सिप्पुग्गहणतो पुरे वा पच्छा वा अन्तरन्तरा वा गेहतो नीहरित्वा धनं देन्ति. येसं गेहे नत्थि, ते ञातिसभागतो परियेसन्ति. येसं तम्पि नत्थि, ते सभागतो परियेसन्ति. तथा अलभमाना भिक्खम्पि चरित्वा देन्तियेव. तं सन्धायेतं वुत्तं.

किं पनाहन्ति बाहिरका ताव अनिय्यानिकेपि सासने सिप्पमत्तदायकस्स धनं परियेसन्ति, अहं पन एवंविधे निय्यानिकसासने एकादसविधं अमतुप्पत्तिपटिपदं देसेन्तस्स आचरियस्स पूजं किं न करिस्सामि, करिस्सामियेवाति वदति. पच्चेकं दुस्सयुगेन अच्छादेसीति एकमेकस्स भिक्खुनो एकेकं दुस्सयुगं अदासीति अत्थो. समुदाचारवचनं पनेत्थ एवरूपं होति, तस्मा अच्छादेसीति वुत्तं. पञ्चसतं विहारन्ति पञ्चसतग्घनिकं पण्णसालं कारेसीति अत्थो.