१०. मोरनिवापसुत्तवण्णना
१०. दसमे अच्चन्तनिट्ठोति अन्तं अतीतत्ता अच्चन्तसङ्खातं अविनासधम्मं निब्बानं निट्ठा अस्साति अच्चन्तनिट्ठो. इमिना नयेन सेसपदानि वेदितब्बानि. जनेतस्मिन्ति जनितस्मिं, पजायाति अत्थो. ये गोत्तपटिसारिनोति ये जना तस्मिं गोत्ते पटिसरन्ति ‘‘अहं गोतमो, अहं कस्सपो’’ति, तेसु लोके गोत्तपटिसारीसु खत्तियो सेट्ठो. अनुमता मयाति मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्देत्वा देसिता मया अनुञ्ञाता. सेसं सब्बत्थ उत्तानत्थमेवाति.
निस्सयवग्गो पठमो.