(१५) १. अट्ठानपाळि-पठमवग्गवण्णना

२६८. अट्ठानपाळिया अट्ठानन्ति हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनापि कारणमेव पटिक्खिपति. कारणञ्हि तदायत्तवुत्तिताय अत्तनो फलस्स ठानन्ति च अवकासोति च वुच्चति. यन्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो अरियसावको. तस्स हि दिट्ठिसम्पन्नो इतिपि, दस्सनसम्पन्नो इतिपि, आगतो इमं सद्धम्मं इतिपि, पस्सति इमं सद्धम्मं इतिपि, सेक्खेन ञाणेन समन्नागतो इतिपि, सेक्खाय विज्जाय समन्नागतो इतिपि, धम्मसोतसमापन्नो इतिपि, अरियो निब्बेधिकपञ्ञो इतिपि, अमतद्वारं आहच्च तिट्ठति इतिपिति बहूनि नामानि होन्ति. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु कञ्चि एकं सङ्खारम्पि. निच्चतो उपगच्छेय्याति निच्चोति गण्हेय्य. नेतं ठानं विज्जतीति एतं कारणं नत्थि न उपलब्भति. यं पुथुज्जनोति येन कारणेन पुथुज्जनो. ठानमेतं विज्जतीति एतं कारणं अत्थि. सस्सतदिट्ठिया हि सो तेभूमकेसु सङ्खतसङ्खारेसु कञ्चि सङ्खारं निच्चतो गण्हेय्याति अत्थो. चतुत्थभूमकसङ्खारा पन तेजुस्सदत्ता दिवसंसन्तत्तो अयोगुळो विय मक्खिकानं, दिट्ठिया वा अञ्ञेसं वा अकुसलानं आरम्मणं न होन्ति. इमिना नयेन कञ्चि सङ्खारं सुखतोतिआदीसुपि अत्थो वेदितब्बो.

२६९. सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति आरोगो परम्मरणा’’ति (दी. नि. १.७६, ७९; म. नि. ३.२१, २२) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहाधिभूतो परिळाहवूपसमत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो गूथं कञ्चि सङ्खारं सुखतो उपगच्छति.

२७०. अत्तवारे कसिणादिपण्णत्तिसङ्गहत्थं ‘‘सङ्खार’’न्ति अवत्वा कञ्चि धम्मन्ति वुत्तं. इधापि अरियसावकस्स चतुभूमकवसेन परिच्छेदो वेदितब्बो, पुथुज्जनस्स तेभूमकवसेन. सब्बवारेसु वा अरियसावकस्सापि तेभूमकवसेनेव परिच्छेदो वट्टति. यं यं हि पुथुज्जनो गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति. पुथुज्जनो हि यं यं निच्चं सुखं अत्ताति गण्हाति, तं तं अरियसावको अनिच्चं दुक्खं अनत्ताति गण्हन्तो तं गाहं विनिवेठेति. इति इमस्मिं सुत्तत्तये पुथुज्जनत्तग्गाहविनिवेठनं नाम कथितं.

२७१. मातरन्तिआदीसु जनिकाव माता, जनकोव पिता, मनुस्सभूतोव खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं. सचेपि भवन्तरगतं अरियसावकं अत्तनो अरियसावकभावं अजानन्तम्पि कोचि एवं वदेय्य ‘‘इमं कुन्थकिपिल्लिकं जीविता वोरोपेत्वा सकलचक्कवाळगब्भे चक्कवत्तिरज्जं पटिपज्जाही’’ति, नेव सो तं जीविता वोरोपेय्य. अथापि नं एवं वदेय्युं ‘‘सचे इमं न घातेस्ससि, सीसं ते छिन्दिस्सामा’’ति. सीसमेवस्स छिन्देय्युं, न च सो तं घातेय्य. पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स च बलवदीपनत्थमेतं वुत्तं. अयञ्हेत्थ अधिप्पायो – सावज्जो पुथुज्जनभावो, यत्र हि नाम पुथुज्जनो मातुघातादीनिपि आनन्तरियानि करिस्सति. महाबलो च अरियसावको, यो एतानि कम्मानि न करोतीति.

२७४. पदुट्ठचित्तोति वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य.

२७५. सङ्घं भिन्देय्याति समानसंवासकं समानसीमाय ठितं पञ्चहि कारणेहि सङ्घं भिन्देय्य. वुत्तम्पि चेतं ‘‘पञ्चहुपालि, आकारेहि सङ्घो भिज्जति – कम्मेन, उद्देसेन, वोहरन्तो, अनुस्सावनेन, सलाकग्गाहेना’’ति (परि. ४५८).

तत्थ कम्मेनाति अपलोकनादीसु चतूसु कम्मेसु अञ्ञतरेन कम्मेन. उद्देसेनाति पञ्चसु पातिमोक्खुद्देसेसु अञ्ञतरेन उद्देसेन. वोहरन्तोति कथयन्तो, ताहि ताहि उप्पत्तीहि अधम्मं धम्मोतिआदीनि अट्ठारस भेदकरवत्थूनि दीपेन्तो. अनुस्सावनेनाति ‘‘ननु तुम्हे जानाथ मय्हं उच्चाकुला पब्बजितभावं बहुस्सुतभावञ्च, मादिसो नाम उद्धम्मं उब्बिनयं सत्थु सासनं गाहेय्याति चित्तम्पि उप्पादेतुं न तुम्हाकं युत्तं, किं मय्हं अवीचि नीलुप्पलवनं विय सीतला, किं अहं अपायतो न भायामी’’तिआदिना नयेन कण्णमूले वचीभेदं कत्वा अनुस्सावनेन. सलाकग्गाहेनाति एवं अनुस्सावेत्वा तेसं चित्तं उपत्थम्भेत्वा अनिवत्तिधम्मे कत्वा ‘‘गण्हथ इमं सलाक’’न्ति सलाकग्गाहेन.

एत्थ च कम्मेव उद्देसो वा पमाणं, वोहारानुस्सावनसलाकग्गाहा पन पुब्बभागा. अट्ठारसवत्थुदीपनवसेन हि वोहरन्तेन तत्थ रुचिजननत्थं अनुस्सावेत्वा सलाकाय गहितायपि अभिन्नोव होति सङ्घो. यदा पन एवं चत्तारो वा अतिरेका वा सलाकं गहेत्वा आवेणिकं कम्मं वा उद्देसं वा करोन्ति, तदा सङ्घो भिन्नो नाम होति. एवं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्याति नेतं ठानं विज्जति. एत्तावता मातुघातादीनि पञ्च आनन्तरियकम्मानि दस्सितानि होन्ति, यानि पुथुज्जनो करोति, न अरियसावको. तेसं आविभावत्थं –

‘‘कम्मतो द्वारतो चेव, कप्पट्ठितियतो तथा;

पाकसाधारणादीहि, विञ्ञातब्बो विनिच्छयो’’.

तत्थ कम्मतो ताव – एत्थ हि मनुस्सभूतस्सेव मनुस्सभूतं मातरं वा पितरं वा अपि परिवत्तलिङ्गं जीविता वोरोपेन्तस्स कम्मं आनन्तरियं होति, तस्स विपाकं पटिबाहिस्सामीति सकलचक्कवाळं महाचेतियप्पमाणेहिपि कञ्चनथूपेहि पूरेत्वापि सकलचक्कवाळं पूरेत्वा निसिन्नस्स भिक्खुसङ्घस्स महादानं दत्वापि बुद्धस्स भगवतो सङ्घाटिकण्णं अमुञ्चन्तो विचरित्वापि कायस्स भेदा निरयमेव उपपज्जति. यो पन सयं मनुस्सो तिरच्छानभूतं मातरं वा पितरं वा, सयं वा तिरच्छानभूतो मनुस्सभूतं, तिरच्छानभूतोयेव वा तिरच्छानभूतं जीविता वोरोपेति, तस्स कम्मं आनन्तरियं न होति, भारियं पन होति, आनन्तरियं आहच्चेव तिट्ठति. मनुस्सजातिकानंव पन वसेन अयं पञ्हो कथितो.

तत्थ एळकचतुक्कं, सङ्गामचतुक्कं, चोरचतुक्कञ्च कथेतब्बं. एळकं मारेस्सामीति अभिसन्धिनापि हि एळकट्ठाने ठितं मनुस्सो मनुस्सभूतं मातरं वा पितरं वा मारेन्तो आनन्तरियं फुसति. एळकाभिसन्धिना मातापितिअभिसन्धिना वा एळकं मारेन्तो आनन्तरियं न फुसति, मातापितिअभिसन्धिना मातापितरो मारेन्तो फुसतेव. एस नयो इतरस्मिम्पि चतुक्कद्वये. यथा च मातापितूसु, एवं अरहन्तेपि एतानि चतुक्कानि वेदितब्बानि. मनुस्सअरहन्तमेव च मारेत्वा आनन्तरियं फुसति, न यक्खभूतं. कम्मं पन भारियं, आनन्तरियसदिसमेव. मनुस्सअरहन्तस्स च पुथुज्जनकालेयेव सत्थप्पहारे वा विसे वा दिन्नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातको होतियेव. यं पन पुथुज्जनकाले दिन्नं दानं अरहत्तं पत्वा परिभुञ्जति, पुथुज्जनस्सेव तं दिन्नं होति. सेसअरियपुग्गले मारेन्तस्स आनन्तरियं नत्थि, कम्मं पन भारियं, आनन्तरियसदिसमेव.

लोहितुप्पादे तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मच्छेदं कत्वा लोहितपग्घरणं नाम नत्थि, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति. देवदत्तेन पविद्धसिलतो भिज्जित्वा गता सकलिकापि तथागतस्स पादन्तं पहरि, फरसुना पहटो विय पादो अन्तोलोहितोयेव अहोसि. तथा करोन्तस्स आनन्तरियं होति. जीवको पन तथागतस्स रुचिया सत्थकेन चम्मं छिन्दित्वा तम्हा ठाना दुट्ठलोहितं नीहरित्वा फासुकमकासि. तथा करोन्तस्स पुञ्ञकम्ममेव होति.

अथ ये परिनिब्बुते तथागते चेतियं भिन्दन्ति, बोधिं छिन्दन्ति, धातुम्हि उपक्कमन्ति, तेसं किं होतीति? भारियं कम्मं होति, आनन्तरियसदिसं. सधातुकं पन थूपं वा पटिमं वा बाधयमानं बोधिसाखं छिन्दितुं वट्टति. सचेपि तत्थ निलीना सकुणा चेतिये वच्चं पातेन्ति, छिन्दितुं वट्टतियेव. परिभोगचेतियतो हि सरीरचेतियं महन्ततरं. चेतियवत्थुं भिन्दित्वा गच्छन्तं बोधिमूलम्पि छिन्दित्वा हरितुं वट्टति. या पन बोधिसाखा बोधिघरं बाधति, तं गेहरक्खणत्थं छिन्दितुं न लभति. बोधिअत्थञ्हि गेहं, न गेहत्थाय बोधि. आसनघरेपि एसेव नयो. यस्मिं पन आसनघरे धातु निहिता होति, तस्स रक्खणत्थाय बोधिसाखं छिन्दितुं वट्टति. बोधिजग्गनत्थं ओजाहरणसाखं वा पूतिसाखं वा छिन्दितुं वट्टतियेव, सरीरपटिजग्गने विय पुञ्ञम्पि होति.

सङ्घभेदेपि सीमट्ठकसङ्घे असन्निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावनसलाकग्गाहस्स कम्मं वा करोन्तस्स उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्च. समग्गसञ्ञाय पन वट्टतीति सञ्ञाय वा करोन्तस्स भेदोव होति, न आनन्तरियकम्मं. तथा नवतो ऊनपरिसाय. सब्बन्तिमेन परिच्छेदेन नवन्नं जनानं यो सङ्घं भिन्दति, तस्स आनन्तरियकम्मं होति. तस्स अनुवत्तकानं अधम्मवादीनं महासावज्जकम्मं, धम्मवादिनो पन अनवज्जा. तत्थ नवन्नमेव सङ्घभेदे इदं सुत्तं – ‘‘एकतो, उपालि, चत्तारो होन्ति, एकतो चत्तारो, नवमो अनुस्सावेति, सलाकं गाहेति ‘अयं धम्मो अयं विनयो इदं सत्थु सासनं, इमं गण्हथ, इमं रोचेथा’ति. एवं खो, उपालि, सङ्घराजि चेव होति सङ्घभेदो च. नवन्नं वा, उपालि, अतिरेकनवन्नं वा सङ्घराजि चेव होति सङ्घभेदो चा’’ति (चूळव. ३५१). एतेसु च पन पञ्चसु सङ्घभेदो वचीकम्मं, सेसानि कायकम्मानीति एवं कम्मतो विञ्ञातब्बो विनिच्छयो.

द्वारतोति सब्बानेव चेतानि कायद्वारतोपि वचीद्वारतोपि समुट्ठहन्ति. पुरिमानि पनेत्थ चत्तारि आणत्तिकविज्जामयप्पयोगवसेन वचीद्वारतो समुट्ठहित्वापि कायद्वारमेव पूरेन्ति, सङ्घभेदो हत्थमुद्धाय भेदं करोन्तस्स कायद्वारतो समुट्ठहित्वापि वचीद्वारमेव पूरेतीति एवमेत्थ द्वारतोपि विञ्ञातब्बो विनिच्छयो.

कप्पट्ठितियतोति सङ्घभेदोयेव चेत्थ कप्पट्ठितियो. सण्ठहन्ते हि कप्पे वा कप्पवेमज्झे वा सङ्घभेदं कत्वा कप्पविनासेयेव मुच्चति. सचेपि हि ‘स्वे कप्पो विनस्सिस्सती’’ति अज्ज सङ्घभेदं करोति, स्वेव मुच्चति, एकदिवसमेव निरये पच्चति. एवं करणं पन नत्थि. सेसानि चत्तारि कम्मानि आनन्तरियानेव होन्ति, न कप्पट्ठितियानीति एवमेत्थ कप्पट्ठितियतोपि विञ्ञातब्बो विनिच्छयो.

पाकतोति येन च पञ्चपेतानि कम्मानि कतानि होन्ति, तस्स सङ्घभेदोयेव पटिसन्धिवसेन विपच्चति, सेसानि ‘‘अहोसिकम्मं नाहोसि कम्मविपाको’’ति एवमादीसु सङ्खं गच्छन्ति. सङ्घभेदाभावे लोहितुप्पादो, तदभावे अरहन्तघातो, तदभावे सचे पिता सीलवा होति, माता दुस्सीला, नो वा तथा सीलवती, पितुघातो पटिसन्धिवसेन विपच्चति. सचे माता सीलवती, मातुघातो. द्वीसुपि सीलेन वा दुस्सीलेन वा समानेसु मातुघातोव पटिसन्धिवसेन विपच्चति. माता हि दुक्करकारिनी बहूपकारा च पुत्तानन्ति. एवमेत्थ पाकतोपि विञ्ञातब्बो विनिच्छयो.

साधारणादीहीति पुरिमानि चत्तारि सब्बेसम्पि गहट्ठपब्बजितानं साधारणानि. सङ्घभेदो पन ‘‘न खो, उपालि भिक्खुनी, सङ्घं भिन्दति, न सिक्खमाना, न सामणेरो, न सामणेरी, न उपासको, न उपासिका सङ्घं भिन्दति. भिक्खु खो, उपालि, पकतत्तो समानसंवासको समानसीमायं ठितो सङ्घं भिन्दती’’ति (चूळव. ३५१) वचनतो वुत्तप्पकारस्स भिक्खुनोव होति, न अञ्ञस्स, तस्मा असाधारणो. आदिसद्देन सब्बेपेते दुक्खवेदनाय सहगता दोसमोहसम्पयुत्ता चाति एवमेत्थ साधारणादीहिपि विञ्ञातब्बो विनिच्छयो.

२७६. अञ्ञं सत्थारन्ति ‘‘अयं मे सत्था सत्थु किच्चं कातुं असमत्थो’’ति भवन्तरेपि अञ्ञं तित्थकरं ‘अयं मे सत्था’’ति एवं गण्हेय्य, नेतं ठानं विज्जतीति अत्थो.

२७७. एकिस्सा लोकधातुयाति दससहस्सिलोकधातुया. तीणि हि खेत्तानि जातिखेत्तं, आणाखेत्तं विसयखेत्तन्ति. तत्थ जातिखेत्तं नाम दससहस्सी लोकधातु. सा हि तथागतस्स मातुकुच्छिस्मिं ओक्कमनकाले निक्खमनकाले सम्बोधिकाले धम्मचक्कप्पवत्तने आयुसङ्खारवोस्सज्जने परिनिब्बाने च कम्पति. कोटिसतसहस्सचक्कवाळं पन आणाखेत्तं नाम. आटानाटियपरित्तमोरपरित्तधजग्गपरित्तरतनपरित्तादीनञ्हि एत्थ आणा पवत्तति. विसयखेत्तस्स पन परिमाणं नत्थि. बुद्धानञ्हि ‘‘यावतकं ञाणं तावतकं ञेय्यं, यावतकं ञेय्यं तावतकं ञाणं, ञाणपरियन्तिकं ञेय्यं, ञेय्यपरियन्तिकं ञाण’’न्ति (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८५; पटि. म. ३.५) वचनतो अविसयो नाम नत्थि.

इमेसु पन तीसु खेत्तेसु ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि. तीणि हि पिटकानि – विनयपिटकं, सुत्तन्तपिटकं, अभिधम्मपिटकं. तिस्सो सङ्गीतियो – महाकस्सपत्थेरस्स सङ्गीति, यसत्थेरस्स सङ्गीति, मोग्गलिपुत्तत्थेरस्स सङ्गीति. इमा तिस्सो सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने इमं चक्कवाळं मुञ्चित्वा अञ्ञत्थ बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि.

अपुब्बं अचरिमन्ति अपुरे अपच्छा, एकतो न उप्पज्जन्ति. पुरे वा पच्छा वा उप्पज्जन्तीति वुत्तं होति. तत्थ बोधिपल्लङ्के ‘‘बोधिं अप्पत्वा न उट्ठहिस्सामी’’ति निसिन्नकालतो पट्ठाय याव मातुकुच्छिस्मिं पटिसन्धिग्गहणं, ताव पुब्बेति न वेदितब्बं. बोधिसत्तस्स हि पटिसन्धिक्खणे दससहस्सचक्कवाळकम्पनेनेव खेत्तपरिग्गहो कतो, एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. परिनिब्बानतो पट्ठाय याव सासपमत्तापि धातु तिट्ठति, ताव पच्छाति न वेदितब्बं. धातूसु हि ठितासु बुद्धा ठिताव होन्ति. तस्मा एत्थन्तरे अञ्ञस्स बुद्धस्स उप्पत्ति निवारिताव होति. धातुपरिनिब्बाने पन जाते अञ्ञस्स बुद्धस्स उप्पत्ति न निवारिता.

कस्मा पन अपुब्बं अचरिमं न उप्पज्जन्तीति? अनच्छरियत्ता. बुद्धा हि अच्छरियमनुस्सा. यथाह – ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो. कतमो एकपुग्गलो? तथागतो अरहं सम्मासम्बुद्धो’’ति (अ. नि. १.१७२). यदि च द्वे वा चत्तारो वा अट्ठ वा सोळस वा एकतो उप्पज्जेय्युं, अनच्छरिया भवेय्युं. एकस्मिञ्हि विहारे द्विन्नं चेतियानम्पि लाभसक्कारो उळारा न होन्ति, भिक्खूपि बहुताय अनच्छरिया जाता, एवं बुद्धापि भवेय्युं. तस्मा न उप्पज्जन्ति.

देसनाय च विसेसाभावतो. यञ्हि सतिपट्ठानादिकं धम्मं एको देसेति, अञ्ञेन उप्पज्जित्वापि सोव धम्मो देसेतब्बो सिया. ततो अनच्छरियो सिया. एकस्मिं पन धम्मं देसेन्ते देसनापि अच्छरियाव होति.

विवादभावतो च. बहूसु च बुद्धेसु उप्पन्नेसु बहूनं आचरियानं अन्तेवासिका विय ‘‘अम्हाकं बुद्धो पासादिको, अम्हाकं बुद्धो मधुरस्सरो लाभी पुञ्ञवा’’ति विवदेय्युं, तस्मापि एवं न उप्पज्जन्ति.

अपिचेतं कारणं मिलिन्दरञ्ञा पुट्ठेन नागसेनत्थेरेन वित्थारितमेव. वुत्तञ्हि तत्थ (मि. प. ५.१.१) –

‘‘भन्ते, नागसेन, भासितम्पि हेतं भगवता – ‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति. देसेन्ता च, भन्ते नागसेन, सब्बेपि तथागता सत्ततिंस बोधिपक्खियधम्मे देसेन्ति, कथयमाना च चत्तारि अरियसच्चानि कथेन्ति, सिक्खापेन्ता च तीसु सिक्खासु सिक्खापेन्ति, अनुसासमाना च अप्पमादपटिपत्तियं अनुसासन्ति. यदि, भन्ते नागसेन, सब्बेसम्पि तथागतानं एको उद्देसो एका कथा एका सिक्खा एका अनुसिट्ठि, केन कारणेन द्वे तथागता एकक्खणे न उप्पज्जन्ति. एकेनपि ताव बुद्धुप्पादेन अयं लोको ओभासजातो, यदि दुतियोपि बुद्धो भवेय्य, द्विन्नं पभाय अयं लोको भिय्योसोमत्ताय ओभासजातो भवेय्य. ओवदमाना च द्वे तथागता सुखं ओवदेय्युं, अनुसासमाना च सुखं अनुसासेय्युं. तत्थ मे कारणं देसेहि, यथाहं निस्संसयो भवेय्यन्ति’’.

‘‘अयं, महाराज, दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति. यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य.

‘‘यथा, महाराज, नावा एकपुरिससन्धारणी भवेय्य. एकस्मिं पुरिसे अभिरूळ्हे सा नावा समुपादिका भवेय्य. अथ दुतियो पुरिसो आगच्छेय्य तादिसो आयुना वण्णेन वयेन पमाणेन किसथूलेन सब्बङ्गपच्चङ्गेन, सो तं नावं अभिरुहेय्य. अपि नु सा, महाराज, नावा द्विन्नम्पि धारेय्याति? न हि, भन्ते, चलेय्य कम्पेय्य नमेय्य ओनमेय्य विनमेय्य विकिरेय्य विधमेय्य विद्धंसेय्य, न ठानमुपगच्छेय्य, ओसीदेय्य उदकेति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी, एकस्सेव तथागतस्स गुणं धारेति, यदि दुतियो बुद्धो उप्पज्जेय्य, नायं दससहस्सी लोकधातु धारेय्य, चलेय्य…पे… न ठानमुपगच्छेय्य.

‘‘यथा वा पन, महाराज, पुरिसो यावदत्थं भोजनं भुञ्जेय्य छादेन्तं याव कण्ठमभिपूरयित्वा. सो धातो पीणितो परिपुण्णो निरन्तरो तन्दिकतो अनोनमितदण्डजातो पुनदेव तत्तकं भोजनं भुञ्जेय्य. अपि नु खो सो, महाराज, पुरिसो सुखितो भवेय्याति? न हि, भन्ते, सकिंभुत्तोव मरेय्याति. एवमेव खो, महाराज, अयं दससहस्सी लोकधातु एकबुद्धधारणी…पे… न ठानमुपगच्छेय्याति.

‘‘किं नु खो, भन्ते नागसेन, अतिधम्मभारेन पथवि चलतीति? इध, महाराज, द्वे सकटा रतनपरिपूरिता भवेय्युं याव मुखसमा. एकस्मा सकटतो रतनं गहेत्वा एकस्मिं सकटे आकिरेय्युं, अपि नु तं, महाराज, सकटं द्विन्नम्पि सकटानं रतनं धारेय्याति? न हि, भन्ते, नाभिपि तस्स फलेय्य, अरापि तस्स भिज्जेय्युं, नेमीपि तस्स ओपतेय्युं, अक्खोपि तस्स भिज्जेय्याति. किं नु खो, महाराज, अतिरतनभारेन सकटं भिज्जतीति? आम, भन्तेति. एवमेव खो, महाराज, अतिधम्मभारेन पथवी चलतीति.

‘‘अपि च, महाराज, इमं कारणं बुद्धबलपरिदीपनाय ओसारितं. अञ्ञम्पि तत्थ अभिरूपं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, परिसाय विवादो उप्पज्जेय्य, ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युं. यथा, महाराज, द्विन्नं बलवामच्चानं परिसाय विवादो उप्पज्जति, ‘तुम्हाकं अमच्चो अम्हाकं अमच्चो’ति उभतोपक्खजाता होन्ति. एवमेव खो, महाराज, यदि द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, परिसाय विवादो उप्पज्जेय्य, ‘तुम्हाकं बुद्धो, अम्हाकं बुद्धो’ति उभतोपक्खजाता भवेय्युं. इदं पठमं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जन्ति.

‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जन्ति. यदि, महाराज, द्वे सम्मासम्बुद्धा एकक्खणे उप्पज्जेय्युं, अग्गो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. जेट्ठो बुद्धोति…पे… सेट्ठो बुद्धोति. विसिट्ठो बुद्धोति, उत्तमो बुद्धोति, पवरो बुद्धोति, असमो बुद्धोति, असमसमो बुद्धोति, अप्पटिसमो बुद्धोति, अप्पटिभागो बुद्धोति, अप्पटिपुग्गलो बुद्धोति यं वचनं, तं मिच्छा भवेय्य. इमम्पि खो त्वं, महाराज, कारणं अत्थतो सम्पटिच्छ, येन कारणेन द्वे सम्मासम्बुद्धा एकक्खणे न उप्पज्जन्ति.

‘‘अपिच, महाराज, बुद्धानं भगवन्तानं सभावपकतिका एसा, यं एकोयेव बुद्धो लोके उप्पज्जति. कस्मा? कारणमहन्तत्ता सब्बञ्ञुबुद्धगुणानं. अञ्ञम्पि, महाराज, यं महन्तं होति, तं एकंयेव होति. पथवी, महाराज, महन्ती, सा एकायेव. सागरो महन्तो, सो एकोयेव. सिनेरु गिरिराज महन्तो, सो एकोयेव. आकासो महन्तो, सो एकोयेव. सक्को महन्तो, सो एकोयेव. ब्रह्मा महन्तो, सो एकोयेव. तथागतो अरहं सम्मासम्बुद्धो महन्तो, सो एकोयेव. यत्थ ते उप्पज्जन्ति, तत्थ अञ्ञेसं ओकासो न होति. तस्मा तथागतो अरहं सम्मासम्बुद्धो एकोयेव लोके उप्पज्जतीति. सुकथितो, भन्ते नागसेन, पञ्हो ओपम्मेहि कारणेही’’ति.

एकिस्सा लोकधातुयाति एकस्मिं चक्कवाळे. हेट्ठा इमिनाव पदेन दस चक्कवाळसहस्सानि गहितानि, तानिपि एकचक्कवाळेनेव परिच्छिन्दितुं वट्टन्ति. बुद्धा हि उप्पज्जमाना इमस्मिंयेव चक्कवाळे उप्पज्जन्ति, उप्पज्जनट्ठाने पन वारिते इतो अञ्ञेसु चक्कवाळेसु न उप्पज्जन्तीति वारितमेव होति.

पठमवग्गवण्णना.