२. अकुसलपदं
हेतुपच्चयो
३२. आसवञ्चेव सासवञ्च अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च सासवो चेव नो च आसवो अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
आसवञ्चेव सासवञ्च अकुसलञ्च सासवञ्चेव नो च आसवं अकुसलञ्च धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति हेतुपच्चया… तीणि (संखित्तं).
३३. हेतुया नव, आरम्मणे नव…पे… अविगते नव (संखित्तं).
पच्चनीयं
नहेतुपच्चयो
३४. सासवञ्चेव नो च आसवं अकुसलं धम्मं पटिच्च आसवो चेव सासवो च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया (संखित्तं).
३५. नहेतुया एकं, नअधिपतिया नव, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे तीणि, नविपाके नव, नविप्पयुत्ते नव (संखित्तं).
(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि वित्थारेतब्बा.)