१-६. पटिच्चवारादि

पच्चयचतुक्कं

हेतु-आरम्मणपच्चयादि

९. सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति हेतुपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो च अहेतुको अकुसलो च धम्मा उप्पज्जन्ति आरम्मणपच्चया. (३)

अहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

सहेतुकं अकुसलञ्च अहेतुकं अकुसलञ्च धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति आरम्मणपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति अधिपतिपच्चया (संखित्तं).

१०. हेतुया तीणि, आरम्मणे पञ्च, अधिपतिया एकं, अनन्तरे पञ्च, समनन्तरे पञ्च, सहजाते पञ्च, अञ्ञमञ्ञे पञ्च, निस्सये पञ्च, उपनिस्सये पञ्च, पुरेजाते पञ्च, आसेवने पञ्च, कम्मे पञ्च, आहारे पञ्च, इन्द्रिये पञ्च, झाने पञ्च, मग्गे पञ्च, सम्पयुत्ते पञ्च, विप्पयुत्ते पञ्च, अत्थिया पञ्च, नत्थिया पञ्च, विगते पञ्च, अविगते पञ्च (संखित्तं).

नहेतु-नअधिपतिपच्चया

११. सहेतुकं अकुसलं धम्मं पटिच्च अहेतुको अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. (१)

सहेतुकं अकुसलं धम्मं पटिच्च सहेतुको अकुसलो धम्मो उप्पज्जति नअधिपतिपच्चया (संखित्तं).

१२. नहेतुया एकं, नअधिपतिया पञ्च, नपुरेजाते पञ्च, नपच्छाजाते पञ्च, नआसेवने पञ्च, नकम्मे तीणि, नविपाके पञ्च, नविप्पयुत्ते पञ्च (संखित्तं).

हेतुपच्चया नअधिपतिया तीणि (संखित्तं).

नहेतुपच्चया आरम्मणे एकं (संखित्तं).

(सहजातवारोपि पच्चयवारोपि निस्सयवारोपि संसट्ठवारोपि सम्पयुत्तवारोपि पटिच्चवारसदिसा वित्थारेतब्बा.)