१-४. पच्चयानुलोमादि
हेतुपच्चयो
१८३. उपेक्खासहगतं धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति हेतुपच्चया – उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… (यथा सवितक्कदुकसदिसं पच्चयवारे नानाकरणं. ‘‘उपेक्ख’’न्ति नवपि पञ्हा कातब्बा, पटिसन्धिपवत्तिपि वत्थुपि.)
हेतुया नव, आरम्मणे नव…पे… पुरेजाते नव, आसेवने नव (सब्बत्थ नव), अविगते नव.
अनुलोमं.
१८४. उपेक्खासहगतं धम्मं पच्चया उपेक्खासहगतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं उपेक्खासहगतं एकं खन्धं पच्चया द्वे खन्धा, द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (एवं नवपि पञ्हा पवत्तिपटिसन्धियो यथा सवितक्कदुकस्स एवं कातब्बा. तीणियेव मोहो, पवत्ते वत्थुपि कातब्बा.)
नहेतुया नव, नआरम्मणे तीणि, नअधिपतिया नव, नअनन्तरे तीणि, नसमनन्तरे तीणि, नउपनिस्सये तीणि, नपुरेजाते नव, नपच्छाजाते नव, नआसेवने नव, नकम्मे चत्तारि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे नव, नसम्पयुत्ते तीणि, नविप्पयुत्ते छ, नोनत्थिया तीणि, नोविगते तीणि.
पच्चनीयं.