१५. मिच्छत्तनियतत्तिकं
१. पटिच्चवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धा. (१)
मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. (२)
मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे…. (३)
२. सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
३. अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अनियतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं, द्वे खन्धे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं पटिच्च तयो महाभूता…पे… द्वे महाभूता,. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. (१)
४. मिच्छत्तनियतञ्च अनियतञ्च धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
सम्मत्तनियतञ्च अनियतञ्च धम्मं पटिच्च अनियतो धम्मो उप्पज्जति हेतुपच्चया – सम्मत्तनियते खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. (१)
आरम्मणपच्चयो
५. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया – मिच्छत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया – सम्मत्तनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति आरम्मणपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे अनियतं एकं खन्धं पटिच्च तयो खन्धा…पे… द्वे खन्धे…पे… वत्थुं पटिच्च खन्धा (सब्बे पच्चया इमिना कारणेन वित्थारेतब्बा. संखित्तं).
१. पच्चयानुलोमं
२. सङ्ख्यावारो
६. हेतुया नव, आरम्मणे तीणि, अधिपतिया नव, अनन्तरे तीणि, समनन्तरे तीणि, सहजाते नव, अञ्ञमञ्ञे तीणि, निस्सये नव, उपनिस्सये तीणि, पुरेजाते तीणि, आसेवने तीणि, कम्मे नव, विपाके एकं, आहारे नव, इन्द्रिये नव, झाने नव, मग्गे नव, सम्पयुत्ते तीणि, विप्पयुत्ते नव, अत्थिया नव, नत्थिया तीणि, विगते तीणि, अविगते नव (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
७. अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… एकं महाभूतं पटिच्च…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे… विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चयो
८. मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया – मिच्छत्तनियते खन्धे पटिच्च चित्तसमुट्ठानं रूपं (संखित्तं).
नअधिपतिपच्चयो
९. मिच्छत्तनियतं धम्मं पटिच्च मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे पटिच्च मिच्छत्तनियताधिपति. (१)
सम्मत्तनियतं धम्मं पटिच्च सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे पटिच्च सम्मत्तनियताधिपति. (१)
अनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा; एकं महाभूतं…पे… असञ्ञसत्तानं…पे…. (१)
नअनन्तरपच्चयो
१०. मिच्छत्तनियतं धम्मं पटिच्च अनियतो धम्मो उप्पज्जति नअनन्तरपच्चया (संखित्तं, सब्बानि पच्चयानि वित्थारेतब्बानि).
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
११. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया तीणि, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते नव, नआसेवने पञ्च, नकम्मे तीणि, नविपाके नव, नआहारे एकं, नइन्द्रिये एकं, नझाने एकं, नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
१२. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया तीणि, नअनन्तरे नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते नव, नआसेवने पञ्च, नकम्मे तीणि, नविपाके नव, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
१३. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं, समनन्तरे एकं, सहजाते एकं…पे… विगते एकं (एवं गणेतब्बं).
पच्चनीयानुलोमं.
पटिच्चवारो.
२. सहजातवारो
(सहजातवारो पटिच्चवारसदिसो.)
३. पच्चयवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
१४. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
सम्मत्तनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया… तीणि.
१५. अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा; एकं महाभूतं पच्चया…पे… वत्थुं पच्चया अनियता खन्धा. (१)
अनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया मिच्छत्तनियता खन्धा. (२)
अनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – वत्थुं पच्चया सम्मत्तनियता खन्धा. (३)
अनियतं धम्मं पच्चया मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया मिच्छत्तनियता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (४)
अनियतं धम्मं पच्चया सम्मत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – वत्थुं पच्चया सम्मत्तनियता खन्धा, महाभूते पच्चया चित्तसमुट्ठानं रूपं. (५)
१६. मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया अनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (२)
मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो च अनियतो च धम्मा उप्पज्जन्ति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धा…पे… द्वे खन्धे…पे… मिच्छत्तनियते खन्धे च महाभूते च पच्चया चित्तसमुट्ठानं रूपं. (३)
सम्मत्तनियतञ्च अनियतञ्च धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया (तीणि पञ्हा, मिच्छत्तसदिसं).
आरम्मणपच्चयादि
१७. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया… (संखित्तं, कुसलत्तिके पच्चयवारसदिसं विभजितब्बं)… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
१८. हेतुया सत्तरस, आरम्मणे सत्त, अधिपतिया सत्तरस, अनन्तरे सत्त, समनन्तरे सत्त, सहजाते सत्तरस, अञ्ञमञ्ञे सत्त, निस्सये सत्तरस, उपनिस्सये सत्त, पुरेजाते सत्त, आसेवने सत्त, कम्मे सत्तरस, विपाके एकं, आहारे सत्तरस, इन्द्रिये सत्तरस, झाने सत्तरस, मग्गे सत्तरस, सम्पयुत्ते सत्त, विप्पयुत्ते सत्तरस, अत्थिया सत्तरस, नत्थिया सत्त, विगते सत्त, अविगते सत्तरस (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
१९. अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे… खन्धे पच्चया वत्थु, वत्थुं पच्चया खन्धा. एकं महाभूतं…पे… असञ्ञसत्तानं…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं. वत्थुं पच्चया अहेतुका अनियता खन्धा. विचिकिच्छासहगते उद्धच्चसहगते खन्धे च वत्थुञ्च पच्चया विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. (१)
नआरम्मणपच्चयो
२०. मिच्छत्तनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नआरम्मणपच्चया – मिच्छत्तनियते खन्धे पच्चया चित्तसमुट्ठानं रूपं (कुसलत्तिकसदिसं, पञ्च कातब्बा).
नअधिपतिपच्चयो
२१. मिच्छत्तनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे पच्चया मिच्छत्तनियताधिपति. (१)
सम्मत्तनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे पच्चया सम्मत्तनियताधिपति. (१)
अनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं पच्चया तयो खन्धा चित्तसमुट्ठानञ्च रूपं…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे …पे… असञ्ञसत्तानं…पे… चक्खायतनं पच्चया चक्खुविञ्ञाणं…पे… कायायतनं पच्चया कायविञ्ञाणं. वत्थुं पच्चया अनियता खन्धा. (१)
अनियतं धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया मिच्छत्तनियताधिपति. (२)
अनियतं धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – वत्थुं पच्चया सम्मत्तनियताधिपति. (३)
मिच्छत्तनियतञ्च अनियतञ्च धम्मं पच्चया मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे च वत्थुञ्च पच्चया मिच्छत्तनियताधिपति. (१)
सम्मत्तनियतञ्च अनियतञ्च धम्मं पच्चया सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे च वत्थुञ्च पच्चया सम्मत्तनियताधिपति. (१)
नअनन्तरपच्चयादि
२२. मिच्छत्तनियतं धम्मं पच्चया अनियतो धम्मो उप्पज्जति नअनन्तरपच्चया…पे… नोनत्थिपच्चया… नोविगतपच्चया.
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
२३. नहेतुया एकं, नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे पञ्च, नअञ्ञमञ्ञे पञ्च, नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते सत्तरस, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्तरस, नआहारे एकं, नइन्द्रिये नझाने नमग्गे एकं, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
हेतुदुकं
२४. हेतुपच्चया नआरम्मणे पञ्च, नअधिपतिया सत्त, नअनन्तरे पञ्च, नसमनन्तरे नअञ्ञमञ्ञे नउपनिस्सये पञ्च, नपुरेजाते छ, नपच्छाजाते सत्तरस, नआसेवने पञ्च, नकम्मे सत्त, नविपाके सत्तरस, नसम्पयुत्ते पञ्च, नविप्पयुत्ते द्वे, नोनत्थिया पञ्च, नोविगते पञ्च (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
नहेतुदुकं
२५. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं (संखित्तं), अविगते एकं (एवं गणेतब्बं).
पच्चनीयानुलोमं.
पच्चयवारो.
४. निस्सयवारो
(निस्सयवारो पच्चयवारसदिसो).
५. संसट्ठवारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
२६. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – मिच्छत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति हेतुपच्चया – सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति हेतुपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
आरम्मणपच्चयादि
२७. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति आरम्मणपच्चया…पे… अविगतपच्चया.
१. पच्चयानुलोमं
२. सङ्ख्यावारो
२८. हेतुया तीणि, आरम्मणे तीणि…पे… कम्मे तीणि, विपाके एकं, आहारे तीणि…पे… अविगते तीणि (एवं गणेतब्बं).
अनुलोमं.
२. पच्चयपच्चनीयं
१. विभङ्गवारो
नहेतुपच्चयो
२९. अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नहेतुपच्चया – अहेतुकं अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… अहेतुकपटिसन्धिक्खणे…पे…. (१)
नअधिपतिपच्चयो
३०. मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – मिच्छत्तनियते खन्धे संसट्ठो मिच्छत्तनियताधिपति. (१)
सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – सम्मत्तनियते खन्धे संसट्ठो सम्मत्तनियताधिपति. (१)
अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नअधिपतिपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे….(१)
नपुरेजातपच्चयादि
३१. सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नपुरेजातपच्चया – अरूपे अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नपच्छाजातपच्चया (परिपुण्णं).
नआसेवनपच्चयादि
३२. अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नआसेवनपच्चया – अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे… पटिसन्धिक्खणे…पे…. (१)
मिच्छत्तनियतं धम्मं संसट्ठो मिच्छत्तनियतो धम्मो उप्पज्जति नकम्मपच्चया, नविपाकपच्चया (संखित्तं).
अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नझानपच्चया – पञ्चविञ्ञाणं…पे… नमग्गपच्चया – अहेतुकं अनियतं…पे….
सम्मत्तनियतं धम्मं संसट्ठो सम्मत्तनियतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे सम्मत्तनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
अनियतं धम्मं संसट्ठो अनियतो धम्मो उप्पज्जति नविप्पयुत्तपच्चया – अरूपे अनियतं एकं खन्धं संसट्ठा तयो खन्धा…पे… द्वे खन्धे…पे…. (१)
२. पच्चयपच्चनीयं
२. सङ्ख्यावारो
३३. नहेतुया एकं, नअधिपतिया तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने एकं, नकम्मे तीणि, नविपाके तीणि, नझाने एकं, नमग्गे एकं, नविप्पयुत्ते द्वे (एवं गणेतब्बं).
पच्चनीयं.
३. पच्चयानुलोमपच्चनीयं
३४. हेतुपच्चया नअधिपतिया तीणि, नपुरेजाते द्वे, नपच्छाजाते तीणि, नआसेवने एकं, नकम्मे तीणि, नविपाके तीणि, नविप्पयुत्ते द्वे (एवं गणेतब्बं).
अनुलोमपच्चनीयं.
४. पच्चयपच्चनीयानुलोमं
३५. नहेतुपच्चया आरम्मणे एकं, अनन्तरे एकं (संखित्तं), अविगते एकं (एवं गणेतब्बं).
पच्चनीयानुलोमं.
संसट्ठवारो.
६. सम्पयुत्तवारो
(सम्पयुत्तवारो संसट्ठवारसदिसो).
७. पञ्हावारो
१. पच्चयानुलोमं
१. विभङ्गवारो
हेतुपच्चयो
३६. मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)
मिच्छत्तनियतो धम्मो अनियतस्स धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)
मिच्छत्तनियतो धम्मो मिच्छत्तनियतस्स च अनियतस्स च धम्मस्स हेतुपच्चयेन पच्चयो – मिच्छत्तनियता हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)