१. विभङ्गवारो
हेतुपच्चयो
४५. आचयगामी [आचयगामि (सी. स्या.) एवमुपरिपि] धम्मो आचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो – आचयगामी हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. (१)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो – आचयगामी हेतू चित्तसमुट्ठानानं रूपानं हेतुपच्चयेन पच्चयो. (२)
आचयगामी धम्मो आचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स हेतुपच्चयेन पच्चयो – आचयगामी हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. (३)
अपचयगामी धम्मो अपचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो… तीणि.
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स हेतुपच्चयेन पच्चयो – नेवाचयगामिनापचयगामी हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. पटिसन्धिक्खणे नेवाचयगामिनापचयगामी हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयो. (१)
आरम्मणपच्चयो
४६. आचयगामी धम्मो आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खति, झाना वुट्ठहित्वा झानं पच्चवेक्खति. सेक्खा पहीने किलेसे पच्चवेक्खन्ति, विक्खम्भिते किलेसे पच्चवेक्खन्ति, पुब्बे समुदाचिण्णे किलेसे जानन्ति. सेक्खा वा पुथुज्जना वा आचयगामी खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति, तं आरब्भ रागो उप्पज्जति, दिट्ठि…पे… विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं उप्पज्जति, चेतोपरियञाणेन आचयगामिचित्तसमङ्गिस्स चित्तं जानन्ति, आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स…पे… आचयगामी खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (१)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा पहीने किलेसे पच्चवेक्खति, पुब्बे समुदाचिण्णे किलेसे जानाति, आचयगामी खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति; चेतोपरियञाणेन आचयगामिचित्तसमङ्गिस्स चित्तं जानाति. सेक्खा वा पुथुज्जना वा आचयगामी खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, कुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, आचयगामी खन्धे अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, अकुसले निरुद्धे विपाको तदारम्मणता उप्पज्जति, आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स च किरियस्स च आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनविपाकस्स च किरियस्स च आरम्मणपच्चयेन पच्चयो. आचयगामी खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, यथाकम्मूपगञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
४७. अपचयगामी धम्मो आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खन्ति, चेतोपरियञाणेन अपचयगामिचित्तसमङ्गिस्स चित्तं जानन्ति, अपचयगामी खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आरम्मणपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा मग्गा वुट्ठहित्वा मग्गं पच्चवेक्खति, चेतोपरियञाणेन अपचयगामिचित्तसमङ्गिस्स चित्तं जानाति, अपचयगामी खन्धा चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स, आवज्जनाय आरम्मणपच्चयेन पच्चयो. (२)
४८. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – अरहा फलं पच्चवेक्खति, निब्बानं पच्चवेक्खति, निब्बानं फलस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो. अरहा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, सोतं…पे… वत्थुं… नेवाचयगामिनापचयगामी खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन नेवाचयगामिनापचयगामिचित्तसमङ्गिस्स चित्तं जानाति, आकासानञ्चायतनकिरियं विञ्ञाणञ्चायतनकिरियस्स आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकिरियं नेवसञ्ञानासञ्ञायतनकिरियस्स…पे… रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… नेवाचयगामिनापचयगामी खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – सेक्खा फलं पच्चवेक्खन्ति, निब्बानं पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स आरम्मणपच्चयेन पच्चयो. सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति. सोतं…पे… वत्थुं… नेवाचयगामिनापचयगामी खन्धे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति, दिट्ठि उप्पज्जति, विचिकिच्छा…पे… उद्धच्चं…पे… दोमनस्सं…पे… दिब्बेन चक्खुना रूपं पस्सन्ति, दिब्बाय सोतधातुया सद्दं सुणन्ति, चेतोपरियञाणेन नेवाचयगामिनापचयगामिचित्तसमङ्गिस्स चित्तं जानन्ति, नेवाचयगामिनापचयगामी खन्धा इद्धिविधञाणस्स, चेतोपरियञाणस्स, पुब्बेनिवासानुस्सतिञाणस्स, अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स आरम्मणपच्चयेन पच्चयो – निब्बानं मग्गस्स आरम्मणपच्चयेन पच्चयो. (३)
अधिपतिपच्चयो
४९. आचयगामी धम्मो आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, आचयगामी खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. सहजाताधिपति – आचयगामी अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – आचयगामी अधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (२)
आचयगामी धम्मो आचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – आचयगामी अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (३)
५०. अपचयगामी धम्मो अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अपचयगामी अधिपति सम्पयुत्तकानं खन्धानं अधिपतिपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ति. (२)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरहा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खति. सहजाताधिपति – अपचयगामी अधिपति चित्तसमुट्ठानानं रूपानं अधिपतिपच्चयेन पच्चयो. (३)
अपचयगामी धम्मो अपचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – अपचयगामी अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (४)
५१. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो – आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति – अरहा फलं गरुं कत्वा पच्चवेक्खति, निब्बानं गरुं कत्वा पच्चवेक्खति, निब्बानं फलस्स अधिपतिपच्चयेन पच्चयो. सहजाताधिपति – नेवाचयगामिनापचयगामी अधिपति सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – सेक्खा फलं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गरुं कत्वा पच्चवेक्खन्ति, निब्बानं गोत्रभुस्स, वोदानस्स अधिपतिपच्चयेन पच्चयो. चक्खुं गरुं कत्वा अस्सादेति…पे… वत्थुं… नेवाचयगामिनापचयगामी खन्धे गरुं कत्वा अस्सादेति अभिनन्दति; तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति – निब्बानं मग्गस्स अधिपतिपच्चयेन पच्चयो. (३)
अनन्तरपच्चयो
५२. आचयगामी धम्मो आचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा आचयगामी खन्धा पच्छिमानं पच्छिमानं आचयगामीनं खन्धानं अनन्तरपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स अनन्तरपच्चयेन पच्चयो. (१)
आचयगामी धम्मो अपचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स अनन्तरपच्चयेन पच्चयो. (२)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आचयगामी खन्धा वुट्ठानस्स अनन्तरपच्चयेन पच्चयो. सेक्खानं अनुलोमं फलसमापत्तिया, निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (३)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – मग्गो फलस्स अनन्तरपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – पुरिमा पुरिमा नेवाचयगामिनापचयगामी खन्धा पच्छिमानं पच्छिमानं नेवाचयगामिनापचयगामीनं खन्धानं अनन्तरपच्चयेन पच्चयो. भवङ्गं आवज्जनाय… किरियं वुट्ठानस्स… अरहतो अनुलोमं फलसमापत्तिया… निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकिरियं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स अनन्तरपच्चयेन पच्चयो – आवज्जना आचयगामीनं खन्धानं अनन्तरपच्चयेन पच्चयो. (२)
समनन्तरपच्चयादि
५३. आचयगामी धम्मो आचयगामिस्स धम्मस्स समनन्तरपच्चयेन पच्चयो…पे… (अनन्तरसदिसं). (सहजातपच्चये पटिच्चवारे सहजातवारसदिसा नव पञ्हा. अञ्ञमञ्ञपच्चये पटिच्चवारे अञ्ञमञ्ञसदिसं तीणि. निस्सयपच्चये पच्चयवारे निस्सयवारसदिसं. चत्तारिपि हि विसुं घटना नत्थि. तेरस पञ्हा.)
उपनिस्सयपच्चयो
५४. आचयगामी धम्मो आचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आचयगामिं सद्धं उपनिस्साय दानं देति, सीलं…पे… उपोसथकम्मं…पे… झानं…पे… विपस्सनं…पे… अभिञ्ञं…पे… समापत्तिं उप्पादेति, मानं जप्पेति, दिट्ठिं गण्हाति, आचयगामिं सीलं… सुतं… चागं… पञ्ञं… रागं… दोसं… मोहं… मानं… दिट्ठिं… पत्थनं उपनिस्साय दानं देति. सीलं…पे… उपोसथकम्मं…पे… झानं…पे… विपस्सनं…पे… अभिञ्ञं…पे… समापत्तिं…पे… पाणं हनति…पे… सङ्घं भिन्दति. आचयगामी सद्धा…पे… पञ्ञा, रागो…पे… पत्थना आचयगामिया सद्धाय…पे… पञ्ञाय, रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो…पे…. नेवसञ्ञानासञ्ञायतनस्स परिकम्मं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. पठमं झानं दुतियस्स झानस्स…पे… आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स उपनिस्सयपच्चयेन पच्चयो. (१)
आचयगामी धम्मो अपचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – पठमस्स मग्गस्स परिकम्मं पठमस्स मग्गस्स…पे… चतुत्थस्स मग्गस्स परिकम्मं चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (२)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – आचयगामिं सद्धं उपनिस्साय अत्तानं आतापेति परितापेति परियिट्ठिमूलकं दुक्खं पच्चनुभोति. आचयगामिं सीलं…पे… पञ्ञं. रागं…पे… पत्थनं उपनिस्साय अत्तानं आतापेति परितापेति परियिट्ठिमूलकं दुक्खं पच्चनुभोति. आचयगामी सद्धा…पे… पञ्ञा. रागो…पे… पत्थना, कायिकस्स सुखस्स, कायिकस्स दुक्खस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. कुसलाकुसलं कम्मं विपाकस्स उपनिस्सयपच्चयेन पच्चयो. (३)
५५. अपचयगामी धम्मो अपचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – पठमो मग्गो दुतियस्स मग्गस्स…पे… ततियो मग्गो चतुत्थस्स मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो आचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – सेक्खा मग्गं उपनिस्साय अनुप्पन्नं कुसलसमापत्तिं उप्पादेन्ति, उप्पन्नं समापज्जन्ति, सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, मग्गो सेक्खानं अत्थप्पटिसम्भिदाय…पे… पटिभानपटिसम्भिदाय ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो. (२)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – अरहा मग्गं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति, उप्पन्नं समापज्जति…पे… ठानाठानकोसल्लस्स उपनिस्सयपच्चयेन पच्चयो. मग्गो फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. (३)
५६. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय अत्तानं आतापेति परितापेति परियिट्ठिमूलकं दुक्खं पच्चनुभोति. कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय अत्तानं आतापेति परितापेति…पे… कायिकं सुखं… कायिकं दुक्खं… उतु… भोजनं… सेनासनं कायिकस्स सुखस्स, कायिकस्स दुक्खस्स फलसमापत्तिया उपनिस्सयपच्चयेन पच्चयो. अरहा कायिकं सुखं उपनिस्साय अनुप्पन्नं किरियसमापत्तिं उप्पादेति…पे… विपस्सति. कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय…पे… विपस्सति. (१)
नेवाचयगामीनापचयगामी धम्मो आचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति, पाणं हनति…पे… सङ्घं भिन्दति. कायिकं दुक्खं… उतुं… भोजनं… सेनासनं उपनिस्साय दानं देति…पे… सङ्घं भिन्दति, कायिकं सुखं…पे… सेनासनं आचयगामिया सद्धाय…पे… पञ्ञाय, रागस्स…पे… पत्थनाय उपनिस्सयपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो – आरम्मणूपनिस्सयो, पकतूपनिस्सयो…पे…. पकतूपनिस्सयो – कायिकं सुखं उपनिस्साय मग्गं उप्पादेति. कायिकं दुक्खं …पे… सेनासनं उपनिस्साय मग्गं उप्पादेति, कायिकं सुखं, कायिकं दुक्खं…पे… सेनासनं मग्गस्स उपनिस्सयपच्चयेन पच्चयो. (३)
पुरेजातपच्चयो
५७. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – अरहा चक्खुं…पे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नेवाचयगामिनापचयगामीनं खन्धानं पुरेजातपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स पुरेजातपच्चयेन पच्चयो – आरम्मणपुरेजातं, वत्थुपुरेजातं. आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं…पे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो उप्पज्जति…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति. वत्थुपुरेजातं – वत्थु आचयगामीनं खन्धानं पुरेजातपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स पुरेजातपच्चयेन पच्चयो. वत्थुपुरेजातं – वत्थु अपचयगामीनं खन्धानं पुरेजातपच्चयेन पच्चयो. (३)
पच्छाजातपच्चयो
५८. आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता आचयगामी खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता अपचयगामी खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स पच्छाजातपच्चयेन पच्चयो – पच्छाजाता नेवाचयगामिनापचयगामी खन्धा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो.
आसेवनपच्चयो
५९. आचयगामी धम्मो आचयगामिस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा आचयगामी खन्धा पच्छिमानं पच्छिमानं आचयगामीनं खन्धानं आसेवनपच्चयेन पच्चयो. अनुलोमं गोत्रभुस्स… अनुलोमं वोदानस्स आसेवनपच्चयेन पच्चयो. (१)
आचयगामी धम्मो अपचयगामिस्स धम्मस्स आसेवनपच्चयेन पच्चयो – गोत्रभु मग्गस्स… वोदानं मग्गस्स आसेवनपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स आसेवनपच्चयेन पच्चयो – पुरिमा पुरिमा नेवाचयगामिनापचयगामी खन्धा पच्छिमानं पच्छिमानं नेवाचयगामिनापचयगामीनं खन्धानं आसेवनपच्चयेन पच्चयो. (१)
कम्मपच्चयो
६०. आचयगामी धम्मो आचयगामिस्स धम्मस्स कम्मपच्चयेन पच्चयो – आचयगामी चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – आचयगामी चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – आचयगामी चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (२)
आचयगामी धम्मो आचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स कम्मपच्चयेन पच्चयो – आचयगामी चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
६१. अपचयगामी धम्मो अपचयगामिस्स धम्मस्स कम्मपच्चयेन पच्चयो – अपचयगामी चेतना सम्पयुत्तकानं खन्धानं कम्मपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स कम्मपच्चयेन पच्चयो – सहजाता, नानाक्खणिका. सहजाता – अपचयगामी चेतना चित्तसमुट्ठानानं रूपानं कम्मपच्चयेन पच्चयो. नानाक्खणिका – अपचयगामी चेतना विपाकानं खन्धानं कम्मपच्चयेन पच्चयो. (२)
अपचयगामी धम्मो अपचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स कम्मपच्चयेन पच्चयो – अपचयगामी चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. (३)
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स कम्मपच्चयेन पच्चयो – नेवाचयगामिनापचयगामी चेतना सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयो. पटिसन्धिक्खणे नेवाचयगामिनापचयगामी चेतना सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. (१)
विपाकपच्चयो
६२. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स विपाकपच्चयेन पच्चयो – विपाको नेवाचयगामिनापचयगामी एको खन्धो तिण्णन्नं खन्धानं…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स विपाकपच्चयेन पच्चयो. (१)
आहारपच्चयादि
६३. आचयगामी धम्मो आचयगामिस्स धम्मस्स आहारपच्चयेन पच्चयो… इन्द्रियपच्चयेन पच्चयो… झानपच्चयेन पच्चयो… मग्गपच्चयेन पच्चयो… सम्पयुत्तपच्चयेन पच्चयो.
विप्पयुत्तपच्चयो
६४. आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – आचयगामी खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – आचयगामी खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
अपचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – अपचयगामी खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – अपचयगामी खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. (१)
नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं. सहजाता – नेवाचयगामिनापचयगामी खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पटिसन्धिक्खणे नेवाचयगामिनापचयगामी खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नेवाचयगामिनापचयगामीनं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता – नेवाचयगामिनापचयगामी खन्धा पुरेजातस्स इमस्स कायस्स…पे…. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु आचयगामीनं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स विप्पयुत्तपच्चयेन पच्चयो. पुरेजातं – वत्थु अपचयगामीनं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. (३)
अत्थिपच्चयादि
६५. आचयगामी धम्मो आचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो – आचयगामी एको खन्धो तिण्णन्नं खन्धानं…पे…. (१)
आचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं. सहजाता – आचयगामी खन्धा चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – आचयगामी खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. (२)
आचयगामी धम्मो आचयगामिस्स च नेवाचयगामिनापचयगामिस्स च धम्मस्स अत्थिपच्चयेन पच्चयो – आचयगामी एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (३)
अपचयगामी धम्मो… तीणि (आचयगामिनयेन कातब्बं).
६६. नेवाचयगामिनापचयगामी धम्मो नेवाचयगामिनापचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजातो – नेवाचयगामिनापचयगामी एको खन्धो तिण्णन्नं खन्धानं चित्तसमुट्ठानानञ्च रूपानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे… पटिसन्धिक्खणे…पे… खन्धा वत्थुस्स अत्थिपच्चयेन पच्चयो. वत्थु खन्धानं अत्थिपच्चयेन पच्चयो. एकं महाभूतं…पे… बाहिरं… आहारसमुट्ठानं… उतुसमुट्ठानं… असञ्ञसत्तानं…पे…. पुरेजातं – अरहा चक्खुं…पे… वत्थुं अनिच्चतो दुक्खतो अनत्ततो विपस्सति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, रूपायतनं चक्खुविञ्ञाणस्स…पे… फोट्ठब्बायतनं कायविञ्ञाणस्स…पे… चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स…पे… वत्थु नेवाचयगामिनापचयगामीनं खन्धानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – नेवाचयगामिनापचयगामी खन्धा पुरेजातस्स इमस्स कायस्स अत्थिपच्चयेन पच्चयो. कबळीकारो आहारो इमस्स कायस्स…पे… रूपजीवितिन्द्रियं कटत्तारूपानं…पे…. (१)
नेवाचयगामिनापचयगामी धम्मो आचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति, सोतं…पे… वत्थुं अनिच्चतो…पे… विपस्सन्ति, अस्सादेन्ति अभिनन्दन्ति; तं आरब्भ रागो…पे… दोमनस्सं उप्पज्जति, दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, वत्थु आचयगामीनं खन्धानं अत्थिपच्चयेन पच्चयो. (२)
नेवाचयगामिनापचयगामी धम्मो अपचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो. पुरेजातं – वत्थु अपचयगामीनं खन्धानं अत्थिपच्चयेन पच्चयो. (३)
६७. आचयगामी च नेवाचयगामिनापचयगामी च धम्मा आचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो सहजातं, पुरेजातं. सहजातो – आचयगामी एको खन्धो च वत्थु च तिण्णन्नं खन्धानं अत्थिपच्चयेन पच्चयो…पे… द्वे खन्धा…पे…. (१)
आचयगामी च नेवाचयगामिनापचयगामी च धम्मा नेवाचयगामिनापचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो – सहजातं, पच्छाजातं, आहारं, इन्द्रियं. सहजाता – आचयगामी खन्धा च महाभूता च चित्तसमुट्ठानानं रूपानं अत्थिपच्चयेन पच्चयो. पच्छाजाता – आचयगामी खन्धा च कबळीकारो आहारो च इमस्स कायस्स अत्थिपच्चयेन पच्चयो. पच्छाजाता – आचयगामी खन्धा च रूपजीवितिन्द्रियञ्च कटत्तारूपानं अत्थिपच्चयेन पच्चयो. (२)
अपचयगामी च नेवाचयगामिनापचयगामी च धम्मा अपचयगामिस्स धम्मस्स अत्थिपच्चयेन पच्चयो (द्वे कातब्बा दस्सितनयेन), नत्थिपच्चयेन पच्चयो, विगतपच्चयेन पच्चयो, अविगतपच्चयेन पच्चयो.