नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
विसुद्धिमग्ग निदानकथा
विसुद्धिमग्गो नामायं गन्थो पिटकत्तयसारभूतो सकललोके पटिपत्तिदीपकगन्थानं अग्गो होति सेट्ठो पमुखो पामोक्खो उत्तमो पवरो चाति विञ्ञूहि पसत्थो. तत्थ हि सङ्गीतित्तयारूळ्हस्स तेपिटकबुद्धवचनस्स अत्थं संखिपित्वा सिक्खत्तयसङ्गहितं ब्रह्मचरियं परिपुण्णं पकासितं सुविसदञ्च. एवं पसत्थस्सेतस्स विसुद्धिमग्गस्स निदानकथायपि भवितब्बमेव. तस्मादानि तम्पकासनत्थमिदं पञ्हकम्मं वुच्चति –
‘‘सो पनेस विसुद्धिमग्गो केन कतो, कदा कतो, कत्थ कतो, कस्मा कतो, किमत्थं कतो, किं निस्साय कतो, केन पकारेन कतो, किस्स सकललोके पत्थटो’’ति.
तत्थ केन कतोति आचरियबुद्धघोसत्थेरवरेन तेपिटकसङ्गहट्ठकथाकारेन कतो.
कदा कतोति अम्हाकं भगवतो सम्मासम्बुद्धस्स सकललोकनाथस्स परिनिब्बुतिकालतो पच्छा दसमे वस्ससतके (९७३ -बुद्धवस्से) कतो.
कत्थ कतोति सीहळदीपे अनुराधपुरे महाविहारे कतो.
कस्मा कतोति विसुद्धिकामानं साधुजनानं तदधिगमुपायं सम्मापटिपत्तिनयं ञापेतुकामतासङ्खातेन अत्तनो अज्झासयेन सञ्चोदितत्ता, सङ्घपालत्थेरेन च अज्झेसितत्ता कतो.
एत्थ पन ठत्वा आचरियबुद्धघोसत्थेरस्स उप्पत्ति कथेतब्बा, सा च महावंसे (चूळवंसोतिपि वोहरिते दुतियभागे) सत्ततिंसमपरिच्छेदे पन्नरसाधिकद्विसतगाथातो (३७, २१५) पट्ठाय बात्तिंसाय गाथाहि पकासितायेव. कथं? –
महावंस-बुद्धघोसकथा
२१५. बोधिमण्डसमीपम्हि, जातो ब्राह्मणमाणवो;
विज्जा-सिप्प-कला-वेदी, तीसु वेदेसु पारगू.
२१६. सम्मा विञ्ञातसमयो, सब्बवादविसारदो;
वादत्थी जम्बुदीपम्हि, आहिण्डन्तो पवादिको.
२१७. विहारमेक’मागम्म, रत्तिं पातञ्जलीमतं;
परिवत्तेति सम्पुण्ण-पदं सुपरिमण्डलं.
२१८. तत्थेको रेवतो नाम, महाथेरो विजानिय;
‘‘महापञ्ञो अयं सत्तो, दमेतुं वट्टती’’ति, सो.
२१९. ‘‘को नु गद्रभरावेन, विरवन्तो’’ति अब्रवि;
‘‘गद्रभानं रवे अत्थं, किं जानासी’’ति आह तं.
२२०. ‘‘अहं जाने’’ति वुत्तो सो, ओतारेसि सकं मतं;
पुट्ठं पुट्ठं वियाकासि, विरद्धम्पि च दस्सयि.
२२१. ‘‘तेन हि त्वं सकं वाद-मोतारेही’’ति चोदितो;
पाळि’माहा’भिधम्मस्स, अत्थ’मस्स न सो’धिगा.
२२२. आह‘‘कस्से’स मन्तो’’ति,‘‘बुद्धमन्तो’’ति सो’ब्रवि;
‘‘देहि मेतं’’ति वुत्ते हि, ‘‘गण्ह पब्बज्ज तं’’इति.
२२३. मन्तत्थी पब्बजित्वा सो, उग्गण्हि पिटकत्तयं;
एकायनो अयं मग्गो, इति पच्छा त’मग्गहि.
२२४. बुद्धस्स विय गम्भीर-घोसत्ता नं वियाकरुं;
बुद्धघोसोति घोसो हि, बुद्धो विय महीतले.
२२५. तत्थ ञाणोदयं [ञाणोदयं नामपकरणं इदानि कुहिञ्चिपि न दिस्सति;] नाम, कत्वा पकरणं तदा;
धम्मसङ्गणियाकासि, कच्छं सो अट्ठसालिनिं [इदानि दिस्समाना पन अट्ठसालिनी सीहळदीपिकायेव; न जम्बुदीपिका; परतो (५४-५५ पिट्ठेसु) एस आविभविस्सति].
२२६. परित्तट्ठकथञ्चेव [परित्तट्ठकथन्ति पिटकत्तयस्स सङ्खेपतो अत्थवण्णनाभूता खुद्दकट्ठकथाति अधिप्पेता भवेसु], कातुं आरभि बुद्धिमा;
तं दिस्वा रेवतो थेरो, इदं वचनमब्रवि.
२२७. ‘‘पाळिमत्तं इधानीतं, नत्थि अट्ठकथा इध [एत्थ सगीभित्तयारूळ्हा मोग्गलिपुत्ततिस्सत्थेरस्स सन्तिका उग्गहिता सिस्सानुसिस्सपरम्परातता मूलट्ठकथा कस्मा जम्बुदीपे सब्बसो अन्तरहिताति विमंसितब्बं];
तथाचरियवादा च, भिन्नरूपा न विज्जरे.
२२८. सीहळट्ठकथा सुद्धा, महिन्देन मतीमता;
सङ्गीतित्तयमारूळ्हं, सम्मासम्बुद्धदेसितं.
२२९. सारिपुत्तादिगीतञ्च, कथामग्गं समेक्खिय;
कता सीहळभासाय, सीहळेसु पवत्तति.
२३०. तं तत्थ गन्त्वा सुत्वा त्वं, मागधानं निरुत्तिया;
परिवत्तेहि, सा होति, सब्बलोकहितावहा’’.
२३१. एवं वुत्ते पसन्नो सो, निक्खमित्वा ततो इमं;
दीपं आगा इमस्सेव [इदस्सेवाति इमस्सेव महानामरञ्ञो काले ९५३-९७५ बुद्धवस्से; अयञ्च वस्सपरिच्छेदो सीहळराजवंसं निस्साय दस्सितो; युरोपियविचक्खणानं पन मतेन ९४१-९६४ बुद्धवस्से इति वेदितब्बो; एवमुपरिपि;], रञ्ञो काले महामति.
२३२. महाविहारं सम्पत्तो, विहारं सब्बसाधुनं;
महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका.
२३३. सीहळट्ठकथं सुत्वा, थेरवादञ्च सब्बसो;
‘‘धम्मस्सामिस्स एसोव, अधिप्पायो’’ति निच्छिय.
२३४. तत्थ सङ्घं समानेत्वा, ‘‘कातुं अट्ठकथं मम;
पोत्थके देथ सब्बे’’ति, आह, वीमंसितुं स तं.
२३५. सङ्घो गाथाद्वयं तस्सा’दासि ‘‘सामत्थियं तव;
एत्थ दस्सेहि, तं दिस्वा, सब्बे देमाति पोत्थके’’ [२३४-५ गाथासु अयमत्थयोजना– ‘‘तत्थ महाविहारे संघं महानेत्वा संघ सन्निपातं कारेत्वा आचरियपुब्बद्धघोसो एवमाह ‘अट्ठकथं कातुं सब्बे पाळि-अट्ठकथा-पोत्थके मम देथा’ति; सो संघो तं वीमंसितुं संयुत्तनिकायतो ‘अन्तोजटा’तिआदिकं च ‘सीले पतिट्ठाया’तिआदिकं चाति गाथाद्वयं तस्स अदासि ‘एत्थ तव सामत्थियं ञाणप्पभावं दस्सेति; तं दिस्वा सब्बे पोत्थके देमा’तिवत्वा’’ति; इमिना पन अयमत्था दस्सितो होति ‘‘आचरिय बुद्धघोसो विसुद्धिमग्गं करोन्तो तदेव गाथाद्वयं ओलोकेत्वा, किञ्चिपि अञ्ञं पोत्थकं अनोलोकेत्वा अकासी’’ति; तस्स पनत्थस्स युत्तायुत्तविचारणा परतो (३९-४९-पिट्ठेसु) आगमिस्सति].
२३६. पिटकत्तय’मेत्थेव, सद्धिं अट्ठकथाय सो;
विसुद्धिमग्गं नामा’का, सङ्गहेत्वा समासतो.
२३७. ततो सङ्घं समूहेत्वा, सम्बुद्धमतकोविदं;
महाबोधिसमीपम्हि, सो तं वाचेतु मारभि.
२३८. देवता तस्स नेपुञ्ञं, पकासेतुं महाजने;
छादेसुं पोत्थकं सोपि, द्वत्तिक्खत्तुम्पि तं अका [२३८ गाथाय अयमत्थो– ‘‘देवता तस्स बुद्धघोसस्स नेपुञ्ञं निपुणञ्ञाप्पसावं महाजनस्स पकासेतुं तेन लिखितं विसुद्धिमग्गपोत्थकं छादेसुं पटिच्छादेत्वा अपस्सियभावं पापेत्वा ठपेसुं; सोपि बुद्धघोसो दुतियम्पि तं लिखि, तम्पि देवता छदेसुं; ततियम्पि लिखी’’ति; तेन वुत्तं ‘‘द्वत्तिक्खत्तुम्पि तं अका’’ति; इदमेव महावंसवचनं निस्साय वित्तारेत्वा कथिताय बुद्धघोसुप्पत्तिया नाम कथाल एकरत्तेनेव विसुद्धिमग्गस्स तिक्खत्तुम्पि लिखित्वा निट्ठापितभावो पकासितो; ईदिसी पन कथा बहूनं विम्हयजननीपि परिक्खकानं संसयजननी होति; तस्मा इमिस्सापि विचारणा परतो (४७-८-पिट्ठेसु) दस्सियिस्सति].
२३९. वाचेतुं ततिये वारे, पोत्थके समुदाहटे;
पोत्थकद्वय’मञ्ञम्पि, सण्ठपेसुं तहिं मरू.
२४०. वाचयिंसु तदा भिक्खू, पोत्थकत्तय’मेकतो;
गन्थतो अत्थतो वापि, पुब्बापरवसेन वा.
२४१. थेरवादेहि पाळीहि, पदेहि ब्यञ्जनेहि वा;
अञ्ञथत्तमहू नेव, पोत्थकेसुपि तीसुपि.
२४२. अथ उग्घोसयी सङ्घो, तुट्ठहट्ठो विसेसतो;
निस्संसयं’स मेत्तेय्यो, इति वत्वा पुनप्पुनं.
२४३. सद्धिं अट्ठकथाया’दा, पोत्थके पिटकत्तये;
गन्थाकरे वसन्तो सो, विहारे दूरसङ्करे.
२४४. परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा;
सब्बेसं मूलभासाय, मागधाय निरुत्तिया.
२४५. सत्तानं सब्बभासानं, सा अहोसि हितावहा;
थेरियाचरिया सब्बे, पाळिं विय त’मग्गहुं.
२४६. अथ कत्तब्बकिच्चेसु, गतेसु परिनिट्ठितिं;
वन्दितुं सो महाबोधिं, जम्बुदीपं उपागमी’’ति [सो महाबोधि वन्दितुं जम्बुदीपं उपागमीति इदं वचनं पुरिमवचनेहि असंसट्ठं विय होति; पुब्बे हि ‘‘आचरियबुद्धघोसो बोधिमण्डसमीपे जातो’’ति च, ‘‘सीहळदीपं गन्त्वा सीहळट्ठकथायो मागधभासाय परिवत्तेहीति तस्साचरियेन रेवतत्थेरेन वुत्तो’’ति च वुत्तं; तस्मा इधापि आचरियबुद्धघोसस्स पवत्ति तदनुरूपा ‘‘ता भासापरिवत्तितट्ठकथायो आदाय सासनुज्जोतनत्थं जम्बुदीपं उपागमी’’ति एवमादिना सासनुज्जोतनमूलिका एव भवितुं अरहति, न पन महाबोधिवन्दनमूलिकाति].
अयञ्च पन महावंसकथा १९५० - खरिस्तवस्से हाबदमहाविज्जालयमुद्दणयन्ते रोमक्खरेन मुद्दितस्स विसुद्धिमग्गपोत्थकस्स पुरेचारिककथायं ‘‘अनेकानेत्थ अत्थि विचारेतब्बानी’’ति वत्वा धम्मानन्दकोसम्बीनामकेन विचक्खणेन विचारिता. तमेत्थ युत्तायुत्तविचिननाय दस्सेत्वा अनुविचारणम्पिस्स करिस्साम.
जातिदेसविचारणा
१. तत्थ हि तेन धम्मानन्देन ‘‘बुद्धघोसो बोधिमण्डसमीपे (बुद्धगयायं) जातोति न युत्तमेत’’न्ति वत्वा तंसाधनत्थाय चत्तारि ब्यतिरेककारणानि दस्सितानि. कथं?
(क) ‘‘बुद्धघोसेन पकासितेसु तंकालिकवत्थूसु एकम्पि तं नत्थि, यं मगधेसु उप्पन्न’’न्ति पठमं कारणं दस्सितं. तदकारणमेव. आचरियबुद्धघोसत्थेरो हि सङ्गहट्ठकथायो करोन्तो पोराणट्ठकथायोयेव संखिपित्वा, भासापरिवत्तनमत्तेन च विसेसेत्वा अकासि, न पन यं वा तं वा अत्तनो दिट्ठसुतं दस्सेत्वा. वुत्तञ्हेतं आचरियेन –
‘‘संवण्णनं तञ्च समारभन्तो,
तस्सा महाअट्ठकथं सरीरं;
कत्वा महापच्चरियं तथेव,
कुरुन्दिनामादिसु विस्सुतासु.
विनिच्छयो अट्ठकथासु वुत्तो,
यो युत्तमत्थं अपरिच्चजन्तो;
अथोपि अन्तोगधथेरवादं,
संवण्णनं सम्म समारभिस्स’’न्ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.
‘‘ततो च भासन्तरमेव हित्वा,
वित्थारमग्गञ्च समासयित्वा;
विनिच्छयं सब्बमसेसयित्वा,
तन्तिक्कमं किञ्चि अवोक्कमित्वा.
सुत्तन्तिकानं वचनानमत्थं,
सुत्तानुरूपं परिदीपयन्ती;
यस्मा अयं हेस्सति वण्णनापि,
सक्कच्च तस्मा अनुसिक्खितब्बा’’ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.
यथेव च आचरियबुद्धघोसेन अत्तनो अट्ठकथासु तंकालिकानि मागधिकानि वत्थूनि न पकासितानि, तथेव सीहळिकानिपि दक्खिणइन्दियरट्ठिकानिपि. न हि तत्थ वसभराजकालतो (६०९-६५३ -बुद्धवस्स) पच्छा उप्पन्नवत्थूनि दिट्ठानि ठपेत्वा महासेनराजवत्थुं [पारा. अट्ठ. २.२३६-२३७], आचरियो च ततो तिसतमत्तवस्सेहि पच्छातरे महानामरञ्ञो काले (९५३-९७५-बु-व) सीहळदीपमुपागतो. तस्मा अट्ठकथासु तंकालिकमागधिकवत्थूनं अप्पकासनमत्तेन न सक्का तक्कत्ता न मागधिकोति ञातुन्ति.
[ख) पुनपि तेन ‘‘सब्बेसुपि बुद्धघोसगन्थेसु उत्तरइन्दियदेसायत्तं पच्चक्खतो दिट्ठस्स विय पकासनं नत्थी’’ति दुतियं कारणं दस्सितं. तस्सपि अकारणभावो पुरिमवचनेनेव वेदितब्बो. अपिच सारत्थप्पकासिनिया नाम संयुत्तट्ठकथायं, सुमङ्गलविलासिनिया नाम दीघनिकायट्ठकथायञ्च वुत्तसंवण्णनायपि वेदितब्बो. तत्थ हि –
‘‘यथेव हि कलम्बनदीतीरतो राजमातुविहारद्वारेन थूपारामं गन्तब्बं होति, एवं हिरञ्ञवतिकाय नाम नदिया पारिमतीरतो सालवनं उय्यानं. यथा अनुराधपुरस्स थूपारामो, एवं तं कुसिनाराय होति. थूपारामतो दक्खिणद्वारेन नगरं पविसनमग्गो पाचीनमुखो गन्त्वा उत्तरेन निवत्तति, एवं उय्यानतो सालपन्ति पाचीनमुखा गन्त्वा उत्तरेन निवत्ता. तस्मा तं उपवत्तनन्ति वुच्चती’’ति [सं. नि. अट्ठ. १.१.१८६; दी. नि. अट्ठ. २.१९८] –
पच्चक्खतो दिट्ठस्स विय पकासनम्पि दिस्सतेव. तम्पि पन पोराणट्ठकथाहि भासापरिवत्तनमत्तमेवाति गहेतब्बं, तादिसाय अत्थसंवण्णनाय महामहिन्दत्थेरकालतोयेव पभुति वुत्ताय एव भवितब्बत्ताति.
[ग) पुनपि तेन ‘‘उण्हस्साति अग्गिसन्तापस्स, तस्स वनदाहादीसु सम्भवो वेदितब्बो’’ति विसुद्धिमग्गे (१, ३०-पिट्ठे) वुत्तसंवण्णनं पकासेत्वा ‘‘तस्सा पनस्स अवहसनीयभावो पाकटोयेवा’’ति च हीळेत्वा ‘‘इन्दियरट्ठे पन उत्तरदेसेसु गिम्हकाले वत्थच्छादनरहिता मानुसकायच्छवि सूरियसन्तापेन एकंसतो दय्हति, तं न जानन्ति दक्खिणइन्दियदेसिका’’ति ततियं कारणं दळ्हतरभावेन दस्सितं. तत्थ पन यदि ‘‘सूरियसन्तापेन एकंसतो दय्हती’’ति एतं उजुकतो सूरियरस्मिसन्तापेनेव दड्ढभावं सन्धाय वुच्चेय्य, एवं सति डंसमकसवातातपसरीसपसम्फस्सानन्ति पदे आतपसद्देन समानत्थत्ता न युत्तमेव. यदि पन सूरियसन्तापसञ्जातेन उण्हउतुना दड्ढभावं सन्धाय वुच्चेय्य, एवं सति उत्तरइन्दियदेसेसु, अञ्ञत्थ च तादिसेसु अतिउण्हट्ठानेसु सूरियसन्तापसञ्जातस्स उण्हउतुनो पटिघाताय चीवरं सेनासनञ्च पटिसेवीयतीति अयमत्थो न न युत्तो. तथा हि वुत्तं विनयट्ठकथायं (३, ५८)
‘‘सीतं उण्हन्ति उतुविसभागवसेन वुत्त’’न्ति.
सा पन विसुद्धिमग्गे पदत्थसंवण्णना पोराणसुत्तन्तट्ठकथाहि आगता भवेय्य. तथा हि वुत्तं पपञ्चसूदनिया नाम मज्झिमनिकायट्ठकथाय सब्बासवसुत्तवण्णनायं (१, ५८) ‘‘उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो, सूरियसन्तापवसेन पनेतं वत्थु वुत्त’’न्ति. एत्थ च सचायमत्थो आचरियेन अत्तनो मतिवसेन वुत्तो अस्स, तस्स वत्थुस्स पोराणट्ठकथायं वुत्तभावञ्च तस्सा अत्थसंवण्णनाय अत्तनो मतिभावञ्च युत्तभावञ्च पकासेय्य. आचरियो हि यत्थ यत्थ पोराणट्ठकथासु अवुत्तत्थं विसेसेत्वा दस्सेति, तत्थ तत्थ तादिसं ञापकवचनम्पि पकासेतियेव, यथा सुमङ्गलविलासिनियं (१, ७२) ‘‘एत्थ आणत्तियनिस्सग्गियथावरापि पयोगा युज्जन्ति, अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा’’ति वचनं, यथा च पपञ्चसूदनियं (१, ३०) ‘‘अविचारितमेतं पोराणेहि, अयं पन अत्तनो मती’’ति वचनं. न चेत्थ किञ्चिपि ञापकवचनं पकासितं. तस्मा ‘‘यदेतं ‘उण्हस्साति अग्गिसन्तापस्सा’ति च, ‘उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो’ति च वचनं, एतं पोराणसुत्तन्तट्ठकथावचन’’न्ति वेदितब्बन्ति.
(घ) पुनपि तेन ‘‘पपञ्चसूदनिया नाम मज्झिमनिकायट्ठकथायं गोपालकसुत्तं संवण्णेन्तो [म. नि. अट्ठ. १.३५०] बुद्धघोसो ‘मगधविदेहरट्ठानं अन्तरे गङ्गाय नदिया मज्झे वालुकत्थलदीपका अत्थी’ति सद्दहति मञ्ञे. बुद्धघोसेन पन दिट्ठगङ्गा सीहळदीपे महावेलिगङ्गायेव, न पन इन्दियरट्ठिकानं सेट्ठसम्मता महागङ्गाति पाकटोयेवायमत्थो’’ति चतुत्थं कारणं दस्सितं. तं पन इदानि महागङ्गाय मज्झे तस्मिं ठाने तादिसं दीपकं अदिस्वा ‘‘पुब्बेपि एवमेव भवेय्या’’ति एकंसतो गहेत्वा वुत्तवचनमत्तमेव. नदियो पन सब्बदापि तेनेवाकारेन तिट्ठन्तीति न सक्का गहेतुन्ति पाकटोयेवायमत्थो. तस्मा यथा पुब्बे तस्स गोपालस्स काले तस्मिं ठाने मज्झे गङ्गाय तादिसा दीपका संविज्जमाना अहेसुं, तथेव पोराणट्ठकथासु एस अत्थो संवण्णितो, तदेव च वचनं आचरियेन भासापरिवत्तनं कत्वा पकासितन्ति एवमेव गहेतब्बं. तस्मा तम्पि अकारणमेवाति.
ब्राह्मणकुलविचारणा
२. अथ ‘‘ब्राह्मणमाणवो’’ति पदम्पि तेन एवं विचारितं –
(क) ‘‘बुद्धघोसो ‘ब्राह्मणकुलजातो’ति न सक्का गहेतुं. कस्मा वेदकालतो पट्ठाय यावज्जतना सब्बेपि ब्राह्मणा
ब्राह्मणोस्य मुखमासीदि, बाहू राजन्य? कत?;
ऊरू तदस्य यद वग्य?, पद्भ्यां गूद्रो अजायता’’ति [इरुवेद, १०-मण्डल, ९०; तथा अथव ६ वेद १९, ६, ६].
इमं पुरिससुत्तं नाम मन्तं जानन्तीति सद्दहिया.
अयं पनस्सा अत्थो – ‘ब्राह्मणो अस्स (ब्रह्मुनो) मुखं आसि. बाहू राजञ्ञो कतो, खत्तिया अस्स बाहूति वुत्तं होति. यो वेस्सो, सो अस्स ऊरू. सुद्दो अस्स पादेहि अजायी’ति.
बुद्धघोसो पन ‘पण्डितब्राह्मणो’ति ञातोपि तं गाथं न अञ्ञासि. तथा हि तेन बन्धुपादापच्चाति पदस्स अत्थवण्णनायं ‘तेसं किर अयं लद्धि – ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता, खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’ति [दी. नि. अट्ठ. १.२६३; म. नि. अट्ठ. १.५०८] तिस्सा वेदगाथाय असमानत्थो वण्णितो’’ति.
अयं पनेत्थ अनुविचारणा – यदि च तंकालिकानम्पि ब्राह्मणानं लद्धि तथेव भवेय्य यथा एतिस्सं गाथायं वुत्ता, सा चत्थवण्णना आचरियस्स मतिमत्ता. एवं सति सा विचारणा युत्ता भवेय्य. एतिस्सं पन गाथायं ‘‘ब्राह्मणोस्य मुखमासीदि’’ति पठमपादेन ‘‘ब्राह्मणा ब्रह्मुनो मुखतो जाता’’ति अत्थो उजुकतो न लब्भति. बुद्धकाले पन ब्राह्मणानं लद्धि ‘‘ब्राह्मणा ब्रह्मुनो मुखतो जाता’’ति एवमेव अहोसीति पाकटोयेवायमत्थो. तथा हि दीघनिकाये पाथिकवग्गे अग्गञ्ञसुत्ते (३, ६७) –
‘‘दिस्सन्ति खो पन वासेट्ठ ब्राह्मणानं ब्राह्मणियो उतुनियोपि गब्भिनियोपि विजायमानापि पायमानापि. ते च ब्राह्मणा ० योनिजाव समाना एवमाहंसु – ब्राह्मणोव सेट्ठो वण्णो, हीना अञ्ञे वण्णा. ब्राह्मणोव सुक्को वण्णो, कण्हा अञ्ञे वण्णा. ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा. ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादाति. ते ब्रह्मानञ्चेव अब्भाचिक्खन्ति, मुसा च भासन्ति, बहुञ्च अपुञ्ञं पसवन्ती’’ति –
भगवता महाकारुणिकेन वासेट्ठभारद्वाजानं ब्राह्मणमाणवकानं भासितं, तेहि च तं अभिनन्दितं. ते पन द्वेपि माणवका जातिवसेन परिसुद्धब्राह्मणा चेव होन्ति तिण्णम्पि वेदानं पारगुनो च. तस्मा ‘‘ब्राह्मणा ब्रह्मुनो मुखतो निक्खन्ता’’ति वचनस्स तंकालिकानं ब्राह्मणानं लद्धिवसेन वुत्तभावो पाकटोयेव. यथा चेतं, एवं ‘‘खत्तिया उरतो, वेस्सा नाभितो, सुद्दा जाणुतो, समणा पिट्ठिपादतो’’ति वचनम्पि ‘‘तंकालिकब्राह्मणानं लद्धिञ्ञूहि पोराणट्ठकथाचरियेहि वुत्त’’न्ति सद्दहित्वा आचरियबुद्धघोसेन तं सब्बं पोराणट्ठकथातो भासापरिवत्तनमत्तेन विसेसेत्वा पकासितं भवेय्य. तस्मा तायपि वेदगाथाय आचरियस्स अब्राह्मणभावसाधनं अनुपपन्नमेवाति.
(ख) पुनपि तेन आचरियबुद्धघोसत्थेरस्स अब्राह्मणभावसाधनत्थं दुतियम्पि कारणं एवमाहटं –
‘‘ब्राह्मणगन्थेसु गब्भघातवाचकं भ्रूनहाति पदं पाळियं भूनहु (भूनहनो) इति दिस्सति. मागण्डियसुत्ते भरियाय मेथुनसंवासाभावेन उप्पज्जनारहगब्भस्स नासकत्तं सन्धाय मागण्डियो परिब्बाजको भगवन्तं ‘भूनहु (भूनहनो) समणो गोतमो’ति [म. नि. २.२०७ आदयो] आह. तं बुद्धघोसो न जानातीति पाकटोयेव तदत्थसंवण्णनाय. तत्थ हि तेन भूनहुनोति (भूनहनस्सा) पदं ‘हतवड्ढिनो मरियादकारकस्सा’ति [म. नि. अट्ठ. २.२०७] वण्णित’’न्ति.
तम्पि अयुत्तमेव. न हि मागण्डियेन फोट्ठब्बारम्मणापरिभोगमत्तमेव सन्धाय भूनहुभावो वुत्तो, अथ खो छन्नम्पि लोकामिसारम्मणानं अपरिभोगं सन्धाय वुत्तो. तस्मिञ्हि सुत्ते –
‘‘चक्खुं खो मागण्डिय रूपारामं रूपरतं रूपसम्मुदितं, तं तथागतस्स दन्तं गुत्तं रक्खितं संवुतं, तस्स च संवराय धम्मं देसेति, इदं नु ते एतं मागण्डिय सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. एतदेव खो पन मे भो गोतम सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. तं किस्स हेतु, एवञ्हि नो सुत्ते ओचरतीति…पे… मनो खो मागण्डिय धम्मारामो धम्मरतो धम्मसम्मुदितो, सो तथागतस्स दन्तो गुत्तो रक्खितो संवुतो, तस्स च संवराय धम्मं देसेति, इदं नु ते एतं मागण्डिय सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. एतदेव खो पन मे भो गोतम सन्धाय भासितं ‘भूनहु समणो गोतमो’ति. तं किस्स हेतु, एवञ्हि नो सुत्ते ओचरती’’ति [म. नि. २.२०७ आदयो].
एवं भगवतो च अनुयोगो मागण्डियस्स च पटिञ्ञा आगता.
एत्थ हि मेथुनप्पटिसेवनवसेन फोट्ठब्बारम्मणपरिभोगहेतु एव गब्भपतिट्ठानं सम्भवतीति तदपरिभोगमेव सन्धाय ‘‘भूनहू’’ति वत्तुं अरहति, तदञ्ञेसं पन पञ्चन्नं रूपादिआरम्मणानं, तत्थापि विसेसतो धम्मारम्मणस्स सुद्धमनोविञ्ञाणेन परिभोगहेतु नत्थि किञ्चि गब्भपतिट्ठानन्ति तेसं अपरिभोगं सन्धाय भूनहूति वत्तुं न अरहतियेव, मागण्डियेन पन सब्बानिपि तानि सन्धाय वुत्तभावो पटिञ्ञातो, कारणञ्चस्स दस्सितं ‘‘एवञ्हि नो सुत्ते ओचरती’’ति. तस्मा किञ्चापि दानि ब्राह्मणगन्थेसु भूनहु- (भ्रूनहा) सद्दो गब्भघातनत्थे दिस्सति, मागण्डियसुत्ते पनेसो अत्थो न युज्जतीति आचरियेन ‘‘हतवड्ढि मरियादकारको’’ति अयमेवत्थो पोराणट्ठकथाय भासापरिवत्तनवसेन पकासितोति वेदितब्बो.
(ग) पुनपि तेन ‘‘इदम्पन बुद्धघोसस्स अब्राह्मणभावसाधकं पच्छिमकारणं, सो हि विसुद्धिमग्गे सीलनिद्देसे (१, ३१) ब्राह्मणानं परिहासं करोन्तो ‘एवं इमिना पिण्डपातपटिसेवनेन पुराणञ्च जिघच्छावेदनं पटिहङ्खामि, नवञ्च वेदनं अपरिमितभोजनपच्चयं आहरहत्थक अलंसाटक तत्रवट्टक काकमासक भुत्तवमितकब्राह्मणानं अञ्ञतरो विय न उप्पादेस्सामीति पटिसेवती’ति आह. इदं पन एकस्स भिन्नब्राह्मणलद्धिकस्सापि वचनं सियाति तदेव दळ्हकारणं कत्वा न सक्का ‘बुद्धघोसो अब्राह्मणो’ति वत्तु’’न्ति ततियं कारणं वुत्तं. तं पन अतिसंवेजनीयवचनमेव. न हेतं आचरियेन ब्राह्मणानं परिहासं कातुकामेन वुत्तं, न च तं परिहासवचनेन संयोजेतब्बट्ठानं, अञ्ञदत्थु यथाभूतमत्थं दस्सेत्वा सब्रह्मचारीनं ओवादानुसासनिदानवसेन वत्तब्बट्ठानं, तथायेव च आचरियेन वुत्तं. तथा हि ये लोके परदत्तूपजीविनो समणा वा ब्राह्मणा वा अञ्ञे वापि च पुग्गला, ते पच्चवेक्खणञाणरहिता असंवरे ठिता कदाचि अतिपणीतं रसं पहूतं लद्धा अपरिमितम्पि भुञ्जेय्युं, विसेसतो पन ब्राह्मणा लोकिकवत्थुवसेन च, जातकादिसासनिकवत्थुवसेन च तादिसा अहेसुन्ति पाकटा. इमस्मिञ्हि लोके वस्ससतसहस्सेहि वा वस्सकोटीहि वा अपरिच्छिन्नद्धाने को सक्का वत्तुं ‘‘नेदिसा भूतपुब्बा’’ति. तस्मा तादिसेहि विय न अपरिमितभोजनेहि भवितब्बन्ति ओवादानुसासनिदानवसेनेव वुत्तं. तदेवं अत्थसंहितम्पि समानं अयोनिसोमनसिकरोतो अनत्थमेव जातं, यथा सभरियस्स मागण्डियब्राह्मणस्स अनागामिमग्गफलत्थायपि देसिता गाथा [ध. प. अट्ठ. १.सामावतीवत्थु] तेसं धीतुया अनत्थाय संवत्ततीति संवेगोयेवेत्थ ब्रूहेतब्बोति.
पतञ्जलिवादविचारणा
३. अथ तेन ‘‘पातञ्जलीमतं परिवत्तेती’’ति वचनम्पि एवं विचारितं.
(क) ‘‘बुद्धघोसो पतञ्जलिस्स वा अञ्ञेसं वा उत्तरइन्दियरट्ठिकानं वादं अप्पकमेव अञ्ञासि. पतञ्जलिवादेसु हि अणिमा लघिमाति इदमेव द्वयं दस्सेसि [विसुद्धि. १.१४४] ततुत्तरि योगसुत्तं अजानन्तो, पतञ्जलिवादस्स च तुलेत्वा दीपना तस्स गन्थेसु न दिस्सति, पतञ्जलिना कतपकरणञ्च पतञ्जलीति नाममत्तम्पि च तत्थ दीपितं नत्थि. विसुद्धिमग्गे पन पञ्ञाभूमिनिद्देसे ‘पकतिवादीनं पकति विया’ति [विसुद्धि. २.५८४] पकतिवाद (संख्यावाद) नाममत्तं पकासितं, तत्थेव च ‘पटिञ्ञा हेतूतिआदीसु हि लोके वचनावयवो हेतूति वुच्चती’ति [विसुद्धि. २.५९५] उदाहरितं, तेन ञायति ‘बुद्धघोसो इन्दियतक्कनयदीपके ञायगन्थस्मिं किञ्चि मूलभागमत्तं अपरिपुण्णं जानाती’ति’’.
तं पन सब्बम्पि केवलं आचरियस्स अब्भाचिक्खणमत्तमेव. अतिगम्भीरस्स हि अतिगरुकातब्बस्स सुपरिसुद्धस्स पिटकत्तयस्स अत्थसंवण्णनं करोन्तेन सुपरिसुद्धोयेव पाळिनयो च अट्ठकथानयो च पोराणथेरवादा चाति ईदिसायेव अत्था पकासेतब्बा, यं वा पन अत्थसंवण्णनाय उपकारकं सद्दविनिच्छयपटिसंयुत्तं लोकियगन्थवचनं, तदेव च यथारहं पकासेतब्बं, न पन अनुपकारानिपि तंतंगन्थतक्कत्तुनामानि च, तेहि वुत्तवचनानि च बहूनि, न च तेसं अप्पकासनेन ‘‘न ते अट्ठकथाचरियो जानाती’’ति वत्तब्बो. यदि हि यं यं लोकियगन्थं अत्तना जानाति, तं सब्बं अनुपकारम्पि अत्तनो अट्ठकथायमानेत्वा पकासेय्य, अतिवित्थारा च सा भवेय्य अपरिसुद्धा च असम्मानिता च सासनिकविञ्ञूहीति आचरियेन पतञ्जलिवादादयो न वित्थारेन पकासिताति ञातब्बं, अञ्ञदत्थु येहि येहि लोकियगन्थेहि किञ्चि किञ्चि आचरियेन आनेत्वा पकासितं, ते ते च गन्था, अञ्ञेपि च तादिसा आचरियेन ञातात्वेव जानितब्बा विञ्ञूहि, यथा समुद्दस्स एकदेसं दिस्वा सब्बोपि समुद्दो एदिसोति ञायति. आचरियो पन यत्थ यत्थ वेदपटिसंयुत्तवचनानि आगतानि, तत्थ तत्थ वेदगन्थेहिपि किञ्चि किञ्चि आनेत्वा पकासेसियेव. तथा हि आचरियेन सुमङ्गलविलासिनियं नाम दीघनिकायट्ठकथायं –
‘‘तिण्णं वेदानन्ति इरुवेदयजुवेदसामवेदान’’न्ति [दी. नि. अट्ठ. १.२५६] च,
‘‘इतिहासपञ्चमानन्ति अथब्बणवेदं चतुत्थं कत्वा इतिह आस इतिह आसाति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं इतिहासपञ्चमानं वेदान’’न्ति [दी. नि. अट्ठ. १.२५६] च,
‘‘यिट्ठं वुच्चति महायागो’’ति [दी. नि. अट्ठ. १.१७०-१७२] च,
‘‘अग्गिहोमन्ति एवरूपेन दारुना एवं हुते इदं नाम होतीति अग्गिजुहनं. दब्बिहोमादीनिपि अग्गिहोमानेव, एवरूपाय दब्बिया ईदिसेहि कणादीहि हुते इदं नाम होतीति एवं पवत्तिवसेन पन विसुं वुत्तानी’’ति [दी. नि. अट्ठ. १.२१] च,
‘‘सासपादीनि पन मुखेन गहेत्वा अग्गिम्हि पक्खिपनं, विज्जं परिजप्पित्वा जुहनं वा मुखहोम’’न्ति [दी. नि. अट्ठ. १.२१] च –
एवमादिना वेदपटिसंयुत्तवचनानि वेदगन्थानुरूपतो वण्णितानि. तानि च पोराणट्ठकथातो भासापरिवत्तनवसेन वुत्तानिपि भवेय्युं, वेदगन्थेसु पन अकोविदेन याथावतो भासापरिवत्तनं कातुम्पि न सुकरमेव, तस्मा आचरियस्स वेदगन्थेसु कोविदभावोपि पाकटोयेव. एवं वेदगन्थेसु च तदञ्ञलोकियगन्थेसु च सुकोविदस्सेव समानस्स तेसं वित्थारतो अप्पकासनं यथावुत्तकारणेनेवाति वेदितब्बं.
अपि च आचरियो अत्तनो गन्थारम्भेयेव –
‘‘ततो च भासन्तरमेव हित्वा,
वित्थारमग्गञ्च समासयित्वा;
विनिच्छयं सब्बमसेसयित्वा…पे…
यस्मा अयं हेस्सति वण्णनापी’’ति [पारा. अट्ठ. १.गन्थारम्भकथा] च.
‘‘अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं;
तन्तिनयानुच्छविकं, आरोपेत्वा विगतदोसं.
समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं;
सुनिपुणविनिच्छयानं, महाविहारे निवासिनं;
हित्वा पुनप्पुनागत-मत्थं अत्थं पकासयिस्सामी’’ति [दी. नि. अट्ठ. १.गन्थारम्भकथा] च–
एवं पोराणट्ठकथानं भासापरिवत्तनसंखिपनवसेनेव विसेसेत्वा अभिनवट्ठकथायो करिस्सामीति पटिञ्ञं कत्वा यथापटिञ्ञातमेव अकासि, न अत्तनो ञाणप्पभावेन विसेसेत्वातिपि वेदितब्बं. तस्मा अट्ठकथासु पतञ्जलिवादादीनं वित्थारतो अप्पकासनमारब्भ ‘‘बुद्धघोसो पतञ्जलिवादादीनि परिपुण्णं न जानाती’’ति वचनं केवलं आचरियस्स अब्भाचिक्खणमत्तमेवाति.
कब्बसत्थविचारणा
४. पुनपि सो एवमाह ‘‘किञ्चापि बुद्धघोसो रामायणमहाभारतसङ्खातानं महाकब्बसत्थानं सुकुसलो विय न दिस्सति, तथापि तानि दस्सेसि. कथं? अक्खानन्ति भारतयुज्झनादिकं, तं यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टतीति [दी. नि. अट्ठ. १.१३] च, तस्स (सम्फपलापस्स) द्वे सम्भारा भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता तथारूपिकथाकथनञ्चाति [दी. नि. अट्ठ. १.८] च दस्सेसी’’ति.
तं पन पुरिमवचनतोपि अहेतुकतरं केवलं अनादरीकरणमत्तमेव. अतिगम्भीरत्थस्स हि अतिगरुकरणीयस्स पिटकत्तयस्स अत्थसंवण्णनायं निरत्थकस्स सम्फपलापसमुदायभूतस्स कब्बसत्थस्स वित्थारतो पकासनेन किं सिया पयोजनं, अञ्ञदत्थु सायेवस्स असम्मानिता, अनादरिया च विञ्ञूहीति.
बाहुसच्चगुणमक्खनं
५. पुनपि धम्मानन्दो आचरियस्स बाहुसच्चगुणं मक्खेतुकामो एवमाह – ‘‘तस्स (बुद्धघोसस्स) समयन्तरकोविदसङ्खातं बाहुसच्चं न ततो उत्तरितरं होति, यं आधुनिकानं गन्थन्तरकोविदानं सीहळिकभिक्खूनं यं वा एकादसमे खरिस्तवस्ससतके (१००१-११००) उप्पन्नानं दक्खिणइन्दियरट्ठिकानं अनुरुद्ध-धम्मपालादीनं भिक्खून’’न्ति.
तं पन सब्बथापि अयुत्तवचनमेव. यदि हि आधुनिका वा सीहळिकभिक्खू, पोराणा वा आचरियअनुरुद्ध-धम्मपालत्थेरादयो समयन्तरबाहुसच्चवसेन आचरियबुद्धघोसेन समाना वा उत्तरितरा वा भवेय्युं, ते आचरियबुद्धघोसत्थेरस्स अट्ठकथाहि अनारद्धचित्ता हुत्वा ततो सुन्दरतरा परिपुण्णतरा च अभिनवट्ठकथायो करेय्युं, न पन ते तथा करोन्ति, न केवलं न करोन्तियेव, अथ खो तेसं एकोपि न एवं वदति ‘‘अहं बुद्धघोसेन बाहुसच्चवसेन समसमोति वा उत्तरितरो’’ति वा, अञ्ञदत्थु ते आचरियस्स अट्ठकथायोयेव संवण्णेन्ति च उपत्थम्भेन्ति च, आचरियट्ठाने च ठपेन्ति. तेनेतं ञायति सब्बथापि अयुत्तवचनन्ति.
महायानिकनयविचारणा
६. पुन सो तावत्तकेनापि असन्तुट्ठो आचरियं अवमञ्ञन्तो एवमाह – ‘‘महायाननिकायस्स पधानाचरियभूतानं अस्स घोस-नागज्जुनानं नयं वा, नाममत्तम्पि वा तेसं न जानाति मञ्ञे बुद्धघोसो’’ति. तं पन अतिविय अधम्मिकं निरत्थकञ्च निग्गहवचनमत्तमेव. न हि निकायन्तरिकानं वादनयानं अत्तनो अट्ठकथायं अप्पकासनेन सो ते न जानातीति सक्का वत्तुं. ननु आचरियेन आगमट्ठकथासु गन्थारम्भेयेव –
‘‘समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं;