६. अपरन्तरट्ठसासनवंसकथामग्गो

६. इदानि पन मरम्ममण्डले अपरन्तरट्ठे सासनवंसं वक्खामि. अम्हाकञ्हि मरम्मरट्ठे सुप्पादकतित्थे वाणिजगामे वसन्ते चूळपुण्ण महापुण्णेद्वे भातिके पटिच्च भगवतो धरमानस्सेव अतिरेकवीसतिवस्सकालतो पभुति सासनं पतिट्ठासि. न पन ताव ब्यापेत्वा पतिट्ठासि. तेनेव पुन सासनस्स पतिट्ठापनत्थाय महामोग्गलिपुत्ततिस्सत्थेरो योनकधम्मरक्खितत्थेरं पेसेसीति.

भगवा पन लोहितचन्दनविहारं पटिग्गहेत्वा सत्तसत्ताहानि निसीदित्वा समागतानं देवमनुस्सानं धम्मरसं अदासि. सत्ताहेसु च एकस्मिं अहु चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसि. पञ्चसतमत्तेहि च पासादेहि आगच्छन्तो अन्तरामग्गे सच्चबन्धपब्बते निसिन्नस्स सच्चबन्धस्स नाम इसिनो धम्मं देसेत्वा छहि अभिञ्ञाहि सद्धिं अरहत्तं पापेसि. वाणिजगामे च इसिदिन्नसेट्ठि आदीनम्पि धम्मरसं पायेसि. इच्चेवं सच्चबन्धइसिदिन्नमहापुण्णादयो पटिच्च अम्हाकं मरम्ममण्डले सासनं पतिट्ठासि.

इदं मरम्ममण्डले अपरन्तरट्ठे पठमं सासनस्स

पतिट्ठानं.

भगवतो परिनिब्बुततो पञ्चतिंसाधिके द्विवस्ससते सम्पत्ते ततियसङ्गीतिं सङ्गायित्वा अवसाने महामोग्गलिपुत्ततिस्सत्थेरो अत्तनो सद्धिविहारिकं योनकधम्मरक्खितत्थेरं सद्धिं चतूहि भिक्खूहि अपरन्तरट्ठं पेसेसि. अपरन्तरट्ठञ्च नाम अम्हाकं मरम्ममण्डले सुनापरन्तरट्ठमेव. तमत्थं पन हेट्ठा अवोचुम्हा.

योनकधम्मरक्खितत्थेरोपि अपरन्तरट्ठं आगन्त्वा अग्गिक्खन्धोपमसुत्तेन रट्ठवासीनं पसादेसि. सत्ततिमत्तानं पाणसहस्सानं धम्मरसं पायेसि. रट्ठवासिनो च बहवो सासने पब्बजिंसु. राजकुलतोपि सहस्समत्ता पब्बजिंसु. इत्थीनं पन अतिरेकसट्ठिसहस्समत्ता पब्बजिंसु. तञ्च न अग्गिक्खन्धोपमसुत्तन्तं सुत्वा पब्बजन्तीनं इत्थीनं वसेन वुत्तं, अथ खो आदितो पट्ठाय यावचिरकाला सासनं पसीदित्वा पब्बजन्तीनं इत्थीनं वसेन वुत्तन्ति दट्ठब्बं. कस्माति चे, इत्थीनं भिक्खुनीनं सन्तिकेयेव पब्बजितुं युत्तत्ता योनकधम्मरक्खितत्थेरेन च सद्धिं भिक्खुनीनं अनागतत्ता. एवं चिरकालं अतिक्कमित्वा पच्छा भिक्खुनियो आगन्त्वा तासं सन्तिके पब्बजितानं वसेन वुत्तन्ति दट्ठब्बं. सीहळदीपे अनुळादेवियो पब्बजितकाले महामहिन्दत्थेरस्स सङ्घमित्ताथेरिया पक्कोसनता इध ञापकाति. एवं योनकधम्मरक्खितत्थेरं पटिच्च अपरन्तरट्ठे सत्तानं बहुपकारो अहोसि. तेनेवट्ठकथायं–

अपरन्तं विगाहित्वा, योनको धम्मरक्खितो;

अग्गिक्खन्धूपमेनेत्थ, पसादेसि जने बहूति.

तत्थायं अधिप्पाय विसेसो गहेतब्बो. कथं. अग्गिक्खन्धोपमसुत्तन्तं नाम भिक्खूनं पटिपत्तिवसेन वुत्तं, तं भिक्खूनंयेव देसेतुं वट्टति, थेरोपि तत्थ तं देसेसि, तस्मा पुण्णसच्चबन्धादयो पटिच्च भगवतो धरमानस्स वीसतिवस्सकालेयेव सासनं अपरन्तरट्ठे पतिट्ठहित्वा कस्मिञ्चि कस्मिञ्चि ठाने भिक्खूनं संविज्जमानत्ता तेसं भिक्खूनं सङ्गहेत्वा देसेतुं पच्छा आगतानञ्च भिक्खूनं परिसुद्धाचारतं विञ्ञापेतुं अग्गिक्खन्धोपमसुत्तं थेरो देसेसीति. एवञ्च सति अरिमद्दननगरे समणकुत्तकानं संविज्जमानभावं वक्खमानेन वचनेन समेति.

इदं मरम्ममण्डले अपरन्तरट्ठे दुतियं

सासनस्स पतिट्ठानं.

यस्मा पन बुद्धे, भगवा पुण्णत्थेरस्स याचनमारब्भ अपरन्तरट्ठं आगन्त्वा वाणिजे हि कारिते चन्दनविहारे वसित्वा एकस्मिं समये आनन्देन पच्छासमणेन तम्बदीपरट्ठम्पि देसचारिकं आहिण्डि. आहिण्डित्वा अरिमद्दननगरट्ठानसमीपं पत्वा पब्बतमुद्धनि ठत्वा अनागते खो आनन्द इमस्मिं पदेसे सम्मुति नाम राजा अरिमद्दनं नाम नगरं मापेस्सति, तस्मिञ्च नगरे मम सासनं विरूळं हुत्वा पतिट्ठहिस्सतीति ब्याकासि. अयमत्थो पोराणवेदपात्थकेसु वुत्तो.

योनकधम्मरक्खितत्थेरो च अपरन्तरट्ठं आगन्त्वा तम्बदीपरट्ठम्पि आहिण्डित्वा तम्बदीपरट्ठवासीनम्पि धम्मरसं पायेसियेव. अयमत्थो खत्तियकुलतो एव पुरिससहस्सानि पब्बजिंसूति अट्ठकथायं वुत्तत्ता विञ्ञायति. तदा हि अपरन्तरट्ठे खत्तियो नत्थि, तम्बदीपरट्ठिन्दोयेव तं अनुसासेत्वा अति वसति, खत्तिये च आसन्ते कुतो खत्तियकुलानि भविस्सन्ति, तेनेव तम्बदीपरट्ठतो पुरिससहस्सानि पब्बजिंसूति विञ्ञातब्बं. तस्मा तम्बदीपिकसासनवंसम्पि इध वत्तुं युज्जति.

तेनिदानि तम्बदीपिकासासनवंसं पवक्खामि. अम्हाकञ्हि मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे सम्मुतिराजा नाम भूपालो रज्जं करेसि. ततो पट्ठाय याव अनुरुद्धरञ्ञा समथि नामके देसे निसिन्नानं तिंसमत्तानं समणकुत्तकानं सट्ठिसहस्समत्तानं सिस्सानं ओवादं दत्वा चरिंसु.

तेसं पन समणकुत्तकानं अयं वादो,- सचे यो पाणातिपातं करेय्य, सो ईदिसं परित्तं भणन्तो तम्हा पापकम्मा परिमुच्चेय्य, सचे पन यो मातापितरं हन्त्वा अनन्तरियकम्मतो परिमुच्चितुकामो भवेय्य, ईदिसं परित्तं भणेय्य, सचेपि पुत्तधितानं आवाहविवाहकम्मं कत्तुकामो भवेय्य, आचरियानं पठमं निय्यादेत्वा आवाहविवाहकम्मं कातब्बं, यो इदं चारित्तं अतिक्कमेय्य, बहु अपुञ्ञं पसवेय्याति एवमादीहि मिच्छावादेहि अत्तनो अत्तनो उपगतानं ओवादं अदंसु. तमत्थं सुत्वा अनुरुद्धराजा परिचितपुञ्ञो तेसं वादं न रुचि. अयं तेसं मिच्छावादोति.

तदा च अरिमद्दननगरे अरहन्तो नाम थेरो आगन्त्वा सासनं पतिट्ठापेसि. अयं अरहन्तत्थेरस्स अट्ठुप्पत्ति,– राजवंसागतपरित्तनिदानागतसासनप्पवेणियागतवसेन तिविधा होति.

तत्थायं राजवंसागतट्ठुप्पत्ति,– तदा हि सुनापरन्ततम्बदीपरट्ठेसु सब्बेन सब्बं सब्बदा थिरं सासनं न ताव पतिट्ठासि. तेनेव भगवतो ब्याकतनियामेन सासनं पतिट्ठापेस्सामाति चिन्तेत्वा महाथेरा सक्कस्स देवानमिन्दस्स सन्तिकं गन्त्वा सासनं अनुग्गहितुं समत्थं पुग्गलं देहीति याचिंसु. सक्कोच देवानमिन्दो तावतिंसभवने एकं देवपुत्तं याचित्वा एकिस्सा ब्राह्मणिया कुच्छिम्हि पटिसन्धिं गण्हापेसि. दसमासच्चयेन विजायनकाले सीलबुद्धि नाम थेरो अनुरक्खित्वा वये सम्पत्ते पब्बाजेसि. तीसु पिटकेसु अतिविय छेको हुत्वा अरहत्तं पापुणि. अरहन्तोति नामेन पाकटो अहोसि.

सोच थेरो मरम्ममण्डले जिनसासनं विज्जोतापेतुं अरिमद्दननगरं आगन्त्वा नगरतो अविदूरे एकस्मिं अरञ्ञे निसीदि. तदा सक्को देवानमिन्दो एकं नेसादं पलोभेत्वा तस्स थेरं दस्सेसि. अथ नेसादस्स एतदहोसि,– अयं पन अमनुस्सो यक्खो भवेय्य, सचे पन मनुस्सो भवेय्य, एवं सति मिलक्खुजातिको भवेय्याति. एवं पन चिन्तेत्वा रञ्ञो दस्सनत्थाय नगरं आनेसि. थेरो च अट्ठपरिक्खारे गहेत्वा अनुगच्छि. नेसादा च थेरं आनेत्वा रञ्ञो दस्सेसि.

राजा दिस्वा सन्तिन्द्रियो अयं, न मिलक्खुजातिको, इमस्स अब्भन्तरे सारधम्मो अत्थि मञ्ञेति लद्धसूरियोभासंविय पदुमं फुल्लचित्तं हुत्वा वीमंसेतुकामो थेरं आह,– अत्तनो सारुप्पं आसनं ञत्वा निसीदाहीति.

थेरो च राजपल्लङ्कं आरुहित्वा नसीदि. राजा च अयं अग्गासने निसीदि, अवस्सं अग्गपुग्गलो भवेय्याति चिन्तेत्वा त्वं कस्स ञाति, कस्स भिस्सो, कुतो आगतोसीति पुच्छि. थेरो च एवमाह,– लोकस्मिं यो नवगुणसम्पन्नो भगवा सम्मासम्बुद्धो, तस्साहं ञाति, सोभगवायेव ममाचरियो, भिक्खुसङ्घस्स निसिन्नट्ठानतो आगतोम्हीति.

राजा च सोमनस्सप्पत्तो हुत्वा आह, तव आचरियेन देसितं धम्मं एकदेसतो देसेहीति. अथ यथा सिरिधम्मासोकरञ्ञो निग्रोधसामणेरेन अप्पमादधम्मो देसितो, एवं अप्पमादधम्मंयेव थेरो देसेसि.

राजा च पुन आह,– कुहिं दानि सम्मासम्बुद्धो निसीदति, तेन पन देसितो धम्मो कतिप्पमाणो, तस्स सावका पन कतिप्पमाणा, तुम्हादिसा अञ्ञे अत्थि वा मा वाति. इदानि अम्हाकं आचरियो सम्मासम्बुद्धो परिनिब्बुतो, धातुयोयेव इदानि अत्थि, तेन पन देसितो धम्मो चतुरासीतिधम्मक्खन्धसहस्सप्पमाणो, सुधम्मपुरे पिटकत्तयं युगळवसेन तिंसविधा अत्थि, मया अञ्ञो परमत्थ सम्मुतिवसेन दुविधोपि सङ्घो अत्थीति.

तं सुत्वा राजा भिय्योसोमत्ताय पसन्नो हुत्वा पुन आरोचेसि,– मम भन्ते इमस्मिं पच्चक्खे नत्थि तया अञ्ञो नाथो, अज्जभग्गे पाणुपेतं मं उपासकोति धारेहि, तव ओवादं अहं सिरसा पटिग्गण्हिस्सामीति.

ततो पच्छा अरञ्ञकङ्गारहे ठाने विहारं कारापेत्वा अदासि. समणकुत्तकानम्पि वादं भिन्दि, यथा पन सुवण्णपातिं लभित्वा सुवण्णभाजनं लभित्वा मत्तिकाभाजनन्ति. सकलेपि च रट्ठे समणकुत्तकानं वादं जहापेसि. तस्मिञ्च काले समणकुत्तका हीनलाभा हुत्वा थेरस्स उपनाहं बन्धिंसु. ते पन समणकुत्तका अरञ्ञे निस्सामिकाविय कोलेयका सुनखा अनाथा हुत्वा कायिकचेतसिकदुक्खं लभिंसु.

राजा च तमत्थं ञत्वा यथा समणकुत्तका नाभिभवन्ति, तथा आरक्खं ठपेसि. ते च समणकुत्तके सेतवत्थं निवासापेत्वा आवुधगाहयोधभावेन राजकम्मे नियोजापेसि. थेरो च सासने पसन्ने जने पब्बाजेत्वा उपसम्पादेत्वा सासनं विसोधापेसि. राजा च इमस्मिं रट्ठे पोराणिका राजानो समणकुत्तकानं वादं गहेत्वा रज्जं कारेसुं, सचे हि पन तेसं अनत्थकरज्जं पुन गण्हापेतुं सक्कुणेय्यं, एवं सति अहं तेसं अनत्थकरज्जं अपनेत्वा सात्थकरज्जं गण्हापेतुमिच्छामीति अनुसोचीति.

अयं पन परित्तनिदानागतट्ठुप्पत्ति, –

सीहळदीपे किर विप्पवासीनगरे निसिन्नो एको भिक्खुउपद्वारावतीनगरं गन्त्वा परियत्तिं उग्गण्हि. ततो पच्छा सुधम्म पुरं गन्त्वा परियत्तिं उग्गण्हि. तस्मिञ्च काले सिरिखेत्तनगरे पाटलिरुक्खे एको गन्थो अत्थीति सुत्वा सुधम्मपुरतो सिरिखेत्तनगरं अगमासि. अन्तरामग्गे लुद्धको थेरं पस्सित्वा अयं यक्खोति मञ्ञित्वा गहेत्वा अनुरुद्धरञ्ञो दस्सेसि.

तदा राजा थेरं पुच्छि,– को पन त्वन्ति. अहं महाराज गोभमस्स सावकोति. पुन राजा पुच्छि,–तिण्णं पन रतनानं कीदिसोति. थेरो आह,– महोसधपण्डितोविय महाराज बुद्धो दट्ठब्बो, उमङ्गोविय धम्मो, विदेहसेना विय सङ्घोति. एवं उपमाहि पकासितो राजा पुन पुच्छि,–किं नुखो इमे गोतमस्स सावकाति. न खो महाराज इमे गोतमस्स सावका, इमे पन अम्हेहि विसभागा समणकुत्तकाये वाति. एवं वुत्ते ततो पट्ठाय ते समणकुत्तके विजहि, तिणं विय नातिमञ्ञि. पाटलिरुक्खसु सिरतोपि लद्धं तेसं गन्थं लद्धट्ठानेयेव अग्गिना झापेसि. तम्पि ठानं यावज्जतना अग्गिझापनथलन्ति पाकटन्ति.

थेरो च विमान वत्थुं रञ्ञो देसेसि. राजा च पसीदित्वा सिरिखेत्तनगरतो अरिमद्दननगरं पच्चागमनकाले आनेसि.

इदं पन पाटलिसुसिरे लद्धगन्थस्स कारणं,- तेसञ्हि समणकुत्तकानं अब्भन्तरे एको उपायच्छेको समणकुत्तको अत्तनो वादानुरूपं गन्थं कत्वा सिरिखेत्तनगरे द्वत्तिंसरतनक्खन्धस्स पाटलिरुक्खस्स सुसिरे पवेसेत्वा पुनप्पुनं उदकेन तेमेत्वा मत्तिकाय लिम्पेत्वा पुन तचं उप्पादेत्वा उट्ठापेसि. तदा मयं सुपिने पाटलिरुक्खे सारगन्थो अत्थब्यञ्जनसम्पन्नो एको अत्थीतिइ पस्सामाति कोलाहलं उप्पादेसुं. तं सुत्वा राजा सिरिखेत्तनगरं गन्त्वा तं पाटलिरुक्खं भिन्दित्वा गवेसेन्तो तं गन्थं लभि. गन्थे पन सकवादवसेन समणकुत्तकसामञ्ञता ईदिसायेव, एते गोतमासावका होन्तिइ, एतेसंयेव आचारो सग्गमग्गपथभूतोति एवमादीहि कारणेहि वुत्तं. राजा च पसीदित्वा समणकुत्तकानं बहूनि दातब्बानि अदासि. ततो पच्छा थेरस्स धम्मकथं सुत्वा तं अग्गिना झापेसीति एवं समणकुत्तकानं वचनं सुत्वा सिरिखेत्तनगरं गन्त्वा अरिमद्दननगरं पच्चागच्छन्तो थेरं आनेसीति दट्ठब्बं. अरिमद्दननगरं सम्पत्तकाले जेतवनं नाम विहारं कारापेत्वा अदासि. थेरो च तत्थ सासानं विसोधेत्वा निसीदि. राजा देवसिकं उदकं आनेत्वा अग्गमहेसी पन देवसिकंयेव पिण्डपातं आनेत्वा भोजेसि. उप्पन्नकङ्खा कालेपि तंतंकङ्खाट्ठानं पुच्छीति.

अयं पन सासनप्पवेणियागतट्ठुप्पत्ति,–

सुधम्मपुरे हि समापत्तिलाभी अनोमदस्सी नाम थेरो सोणुत्तरत्थेरानं वंसानुरुक्खणवसेन सद्धिं पञ्चहि भिक्खु सतेहि निसीदि. तस्स पन पधानसिस्सो अधिसीलोनाम, तस्स पधानसिस्सो प्रानदस्सी नाम, तस्स पधानसिस्सो काळो नाम, तस्स पधानसिस्सो अरहन्तो नाम, तस्स पधानसिस्सो अरियवंसो नामाति.

इदञ्च वचनं-को पनेस उत्तराजीवमहाथेरोति. अयञ्हि थेरो रामञ्ञदेसियपुत्तो अरियवंसत्थेरस्स सिस्सो. अरियवंसत्थेरो पन कप्पुङ्गनगरवासी महाकाळत्थेरस्स सिस्सो. सो पन सुधम्मनगरवासिनो प्रानदस्सी महाथेरस्स सिस्सोति कल्याणी सिलालेखने वुत्तवचनेन न समेति. एवम्पि सति यथिच्छित अधिप्पायो न नस्सतीति दट्ठब्बं.

एवं नानाचरियानं वादो नानाकारेन दिस्समानोपि अरहन्तत्थेरस्स अरिमद्दननगरे सासनं अनुग्गहेत्वा पतिट्ठानतायेवेत्थ पमाणन्ति कत्वा नावमञ्ञितब्बो. सब्बेसञ्हि आचरियानं वादेपि अरहन्तत्थेरो अरिमद्दननगरं आगन्त्वा सासनं पतिट्ठापेसीति अत्थो इच्छितब्बोयेवाति.

अरहन्तत्थेरो पन मूलनामेन धम्मदस्सीति पाकटो सुधम्मपुरवासी सीलबुद्धित्थेरस्स सिस्सोति दट्ठब्बो. सो च थेरो पुब्बेव पब्बज्जकालतो चतूसु वेदेसु सिक्खितसिप्पो. पब्बजित्वा पन साळकथं पिटकत्तयं उग्गण्हित्वा पारं गन्त्वा सब्बत्थ पाकटो. सोक्कतयनगरं अनेत्वा मनुस्सा पूजेन्ति. तत्थ दसवस्सानि वसित्वा पुन सुधम्मपुरं आगन्त्वा अरञ्ञवासं समादियि.

ततो पच्छा जिनचक्के एकसट्ठाधिके पञ्चसते सहस्सेच सम्पत्ते कलियुगे एकूनासीताधिके तिसते सम्पत्ते अनुरुद्धराजा रज्जं पापुणि. तदा अरिमद्दननगरे समणकुत्तका मयं गोतमसावकाति वत्वा तिंसतिंसवग्गा हुत्वा निसीदिंसु. वग्गवसेन किर सहस्समत्ताति. अनुरुद्धराजा च तेसं समणकुत्तकानं आगारियाब्रह्मचरियादीनि सुत्वा न पसीदि. एवम्पि पवेणिया आगभत्ता न पजहि. अरहन्तं पन थेरं पस्सित्वा ततो पट्ठाय तेसं समणकुत्तकानं निबद्धवत्तानि भिन्दित्वा सासने पसीदि.

इदं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे अरहन्तं.

नाम थेरं पटिच्च ततियं सासनस्स पतिट्ठानं.

तस्मिञ्च काले अरहन्तत्थेरो अनुरुद्धराजानं आह,-तीसु सासनेसु परियत्तिसासने तिट्ठन्तेयेव पटिपत्ति सासनं तिट्ठति, पटिपत्तिसासने तिट्ठन्तेयेव पटिवेधसासनं तिट्ठति, यथा हि गुन्नं सतेपि सहस्सेपि विज्जमाने पवेणिप,लिकाय धेनुया असति सो वंसो सापवेणी न घळीयतिइ, एवमेवं धुतङ्गधरानं भिक्खूनं सतेपि सहस्सेपि विज्जमाने परियत्तिया अन्तरहिताय पटिवेधो नाम न होति, यथा पन निमिकुम्भियो जाननत्थाय पासाण पिट्ठे अक्खरेसु ठपितेसु याव अक्खरानि धरन्ति, ताव निधिकुम्भियो नट्ठा नाम न होन्ति, एवमेवं परियत्तिया धरमानाय सासनं अनन्तरहितं नाम होति, यथा च महतो तळाकस्स पाळिया थिराय उदकं न ठस्सतीति न वत्तब्बं, उदके सति पदुमादीनि पुप्फानि न पुप्फिस्सन्तीति न वत्तब्बं, एवमेवं महातळाकस्स थिरपाळिसदिसे तेपिटके बुद्धवचने सति उदकसदिसा पटिपत्तिपूरका कुलपुत्ता नत्थीति न वत्तब्बं, तेसु सति पदुमादिपुप्फसदिसो पटिवेधो नत्थीति न वत्तब्बं, एवं एकन्ततो परियत्तिमेव पमाणं, तस्मा अन्तमसो द्वीसु पातिमोक्खसु वत्तमानेसुपि सासनं अनन्तरहितमेव, परियत्तिया अन्तरहिताय सुप्पटिपन्नस्सापि धम्माभिसमयो नत्थि, अनन्तरहिताय एव धम्माभिसमयो अत्थि, इदानिपि अम्हाकं परियत्तिसासनं परिपुण्णं नत्थि, सरीरधातुयो च नत्थि, तस्मा यत्थ परियत्तिसासनं सरीरधातुयो च अत्थि, तत्थ पण्णाकारेन सद्धिं दूतं पेसेत्वा आनेतब्बा, एवं सति अम्हाकं रट्ठे जिनसासनं चिरकालं पतिट्ठहिस्सतीति.

एवं पन भन्ते सति कत्थ याचिस्सामाति. सुवण्णभूमिरट्ठे महाराज सुधम्मपुरे तीहि वारेहि पिटकत्तयं लिखित्वा ठपेसि, सरीरधातुयो च बहू तत्थ अत्थीति. राजा एवं भन्तेति पटिग्गण्हित्वा बहू पण्णाकारे पटियादेत्वा राजलेखनं लिखित्वा अट्ठङ्गसमन्नागतं एकं अमच्चं दूतं कत्वा पेसेसि.

सुधम्मपुरिन्दो मनोहरि नाम राजापि मच्छेरचित्तो हुत्वा तुम्हादिसानं मिच्छादिट्ठीनं ठाने पिटकत्तयं सरीरधातुयो च पहिणितुं न युत्ता, तिलोकग्गस्स हि सम्मासम्बुद्धस्स सासनं सम्मादिट्ठीनं ठानेयेव पतिट्ठहिस्सति, यथा नाम केसरसीहराजस्स वसा सुवण्णपातियंयेव, न मत्तिकाभाजनेति.

दूता पच्चागन्त्वा अनुरुद्धरञ्ञो तमत्थं आरोचेसुं. तं सुत्वा अनुरुद्धराजा कुज्झि, तत्तककपाले पक्खित्ततिलंविय तट तटायि.

अथ राजा नदीमग्गेन नावानं असीतिसतसहस्सेहि नाविकानं योधानं अट्ठकोटीहि सेनं ब्यूहित्वा थलमग्गेन सद्धिं चतूहि महायोधनायकेहि हत्थीनं असीति सहस्सेहि अस्सानं नवुतिइसतसहस्सेहि योधानं असीतिकोटिया सेनं ब्यूहित्वा सयमेव युज्झितुं सुधम्मपरं गच्छि.

तं सुत्वा मनोहरिराजा सीततसितो हुत्वा अत्तनो बहू योधे संविदहित्वा सुधम्मपुरयेव पटिसेनं कत्वा निसीदि.

अथ अथब्बणवेदे आगतप्पयोगवसेन पुनप्पुनं वायमन्तापि नगरमूलं उपसङ्कमितुं न सक्का. तदा राजा वेदञ्ञुनो पुच्छि,–कस्मा पनेत्थ नगरमूलं उपसङ्कमितुं न सक्कोमाति. वेदञ्ञुनो आहंसु,-अथब्बणवेदविधानं महाराज अत्थि मञ्ञेति. अथ राजा पथवियं निदहित्वा मतकळेवरं उद्धरित्वा महासमुद्दे खिपेसि.

एकं किर मनुस्सं हिन्दुकुलं जेङ्गुनामकं कीटं खादापेत्वा तं मारेत्वा हत्थपादादीनि अङ्गपच्चङ्गानि गहेत्वा छिन्नछिन्नानि कत्वा नगरस्स सामन्ता पथवियं नदहित्वा ठपेसि. तदा पन नगरं उपसङ्कमितुं सक्का. नगरञ्च पविसित्वा अनुरुद्धराजा मनोहरिराजानं जीवग्गाहं गण्हि. सुधम्मपुरे पोराणिकानं राजूनं पवेणीआगतवसेन रतनमयमञ्जूसायं ठपेत्वा पूजितं सहधातूहि पिटकत्तयं गहेत्वा मनोहरिरञ्ञो सन्तकानं द्वत्तिंसहत्थीनं पिट्ठियं आरोपेत्वा आनेसि.

अरिमद्दननगरं पन पत्वा धातुयो रतनमयमञ्जूसायं ठपेत्वा सिरिसयनगब्भे रतनमञ्चे सीसोपदेसस्स समीपे ठपेसि. पिटकत्तयम्पि रतनमये पासादे ठपेत्वा भिक्खुसङ्घस्स उग्गहधारणादिअत्थाय निय्यादेसि. ततो किर आनीतं पिटकत्तयं उग्गण्हन्तानं अरियानं सहस्समत्तं अहोसीति.

सुधम्मनगरं विजयित्वा पिटकेन सद्धिं भिक्खुसङ्घं आनेत्वा सासनस्स पतिट्ठापनं जिनचक्के एकाधिके छसते वस्ससहस्से कलियुगे च सोळसाधिके चतुसते सम्पत्तेति सिलालेखनेसु वुत्तं.

अनुरुद्धरञ्ञो काले पुञ्ञानुभावेन तिइण्णं रतनानं परिपुण्णत्ता पुण्णगामोति समञ्ञा अहोसि. चिरकालं अतिक्कन्ते ण्णकारं लोपवसेन मकारस्स च निग्गहित वसेन पुगमीति मरम्मभासाय वोहारीयतीति अनागतवंसराजवंसेसु वुत्तं.

अनुरुद्धराजायेव चत्तारो महायोधे सीहळदीपं पेसेत्वा ततोपि पिटकत्तयं आनेसि. सीहळदीपतो आनीतपिटकत्तयेन सुधम्मपुरतो आनीतपिटकत्तयं अञ्ञमञ्ञं योजेत्वा संसन्देत्वा अरहन्तत्थेरो वीमंसेसि. तदा गङ्गादकेनविय यमुनोदकं अञ्ञमञ्ञं अनूनं अनधिकं अहोसि. तेहि पिटकेहि अञ्ञानिपि वड्ढेत्वा तिपिटकगब्भे ठपेत्वा पूजेसि. तेसु तेसु ठानेसुपि पतिट्ठापेसि.

मनोहरिराजानम्पि म्रङ्कपा नाम देसे उपट्ठाकेहि सह ठपेसि. तस्स च किर रञ्ञो मुखं विरवित्वा कथं सल्लापेन्तस्स मुखतो ओभासो पज्जलित्वा निक्खमि. सो कदाचि कदाचि अनुरुद्धरञ्ञो सन्तिकं आगन्त्वा गारववसेन वन्दनादीनि अकासि. तदा अनुरुद्धरञ्ञो लोमहंसो उप्पज्जि उब्बिग्गो च. तस्मा तस्स रञ्ञो नित्थेजत्थाय बुद्धरूपस्स चेतियस्स भत्तं पूजेत्वा तं गहेत्वा मनोहरिरञ्ञो भाजेसि. तदा तस्स तदानुभावो अन्तरधायि. मनोहरिराजा संवेगं आपज्जित्वा संसारे संसरन्तो याव निब्बानं न पापुणामि, ताव परवसे नानुवत्तेय्यन्ति पत्थनं अकासि. सुधम्मपुरतो आभतं अत्तनो सन्तकं मनोमय मणिं एकस्स सेट्ठिनो सन्तिके विक्किणित्वा लद्धमूलेन पञ्चवाहरजतेन अभुजितपल्लङ्कवसेन एकं महन्तं बुद्ध बिम्बं परिनिब्बानाकारेन एकन्ति द्वे बुद्धप्पटिबिम्बानि कारापेसि. यावज्जतना तानि सन्तीति. इच्चेवं अनुरुद्धराजा सुधम्मपुरतो सीहळदीपतो च सासनं आनेत्वा अरिमद्दननगरे पतिट्ठापेसीति.

इदं अम्हाकं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे

अनुरुद्धराजानं पटिच्च चतुत्थं सासनस्स पतिट्ठानं.

उत्तराजीवत्थेरोपि सोणुत्तरानं वंसतो सासनं गहेत्वा सुधम्मपुरतो अरिमद्दननगरं आगन्त्वा सासनं पतिट्ठापेसि.

इदं अम्हाकं मरम्ममण्डले तम्बदीपरट्ठे अरिमद्दननगरे उत्तराजीवत्थेरं पटिच्च पञ्चमं सासनस्स पतिट्ठानं.

उत्तराजीवत्थेरस्स सीहळदीपं गतकाले तेन सद्धिं गतं छप्पदं नाम सामणेरं सीहळदीपेयेव सीहळदीपिका पब्बजिंसु. पब्बजित्वा च छप्पदसामणेरो परियत्तिं उग्गण्हित्वा दसवस्सं तत्थ वसित्वा अरिमद्दननगरं पच्चागच्छि. सिवलित्थेरञ्च तामलिन्दत्थेरञ्च आनन्दत्थेरञ्च राहुलत्थे रञ्च अनेसि. ते पन थेरा तिपिटकधरा होन्ति ब्यत्ता दक्खा च. अयञ्चत्थो वित्थारेन हेट्ठा वुत्तो.

अरिमद्दननगरं पत्वा अरिमद्दन वासीहि भिक्खूहि सद्धिं विनयकम्मानि अकत्वा पुथु हुत्वा निसीदिंसु. नरपतिराजा च तेसु थेरेसु अतिविय पसीदि. एरावतीनदियं उळुम्पं बन्धित्वा तत्थेव उपसम्पदकम्मं कारापेसि. चिरकालं अतिक्कमित्वा सो गणो वुड्ढि हुत्वा उप्पज्जि.

नरपतिराजा च ते थेरे सद्धिं सङ्घेन निमन्तेत्वा महादानं अदासि. तदा छणे आकप्पसम्पन्नं रूपसोभग्गप्पक्कं एकं नाटकित्तिं दिस्वा राहुलत्थेरो पटिबद्धचित्तो लेपे लग्गितवानरोविय कद्दमे लग्गितमातङ्गोविय च काम गुणलेपकद्दमेसु लग्गितो सासने विरमित्वा ही नायावत्तीतुं आरभि. मरणन्ति करोगेन अभिभूतो विय अतेकिच्छो हुत्वा सेसत्थेरेसु ओवादं दिन्नेसु पिनादियि. तदा सेसत्थेरा तं एवमाहंसु,-मा त्वं एकं तं पटिच्च सब्बेपि अम्हे लज्जापेतुं न अरहसि, मा इध हीनाया वत्तेहि, मल्लारुदीपं गन्त्वा यथारुचिं करोहीति पेसेसुं. राहुलत्थेरो च कुसिमतित्थतो नावं आरुय्ह मल्लारुदीपं अगमासि. मल्लारुदीपं पत्तकाले मल्लारुराजा विनयं जानितुकामो सह टीकाय खुद्दसिक्खापकरणं तस्स सन्तिके उग्गण्हित्वा एकपत्तमत्तं मणिं अदासि. सोच तं लभित्वा हीनायावत्तीति. होन्ति चेत्थ,-

अतिदूरेव होतब्बं, भिक्खुना नाम इत्थिभि;

इत्थियो नाम भिक्खूनं, भवन्ति इध वेरिनो.

ताव तिट्ठन्तु दुप्पञ्ञा, मयं पोराणिकापि च;

महापञ्ञा विनासं, पत्ता हरितचादयो.

तस्मा हि पण्डितो भिक्खु, अन्तमसोव इत्थिभि;

विस्सासं न करे लोके, रागो च दुप्पवारितोति.

सेसेसु च थेरेसु छप्पदो नाम थेरो पठमं कालङ्कतो. सिवलितामलिन्दानन्दत्थेरायेव तयो परियत्तिउग्गहणधारणादिवसेन सासनं उपत्थम्भेत्वा अरिमद्दननगरे निसीदिंसु. एकस्मिञ्च काले राजा तेसं तिण्णं थेरानं एकेकं हत्थिं अदासि. सिवलितामलिन्दत्थेरा पटिग्गहेत्वा वने विस्सज्जापेसुं. आनन्दत्थेरो पन किञ्चिपुरनगरं पहिणित्वा ञातकानं देहीति कुसिमतित्थं गन्त्वा नावं आरोपेसि. तं कारणं ञत्वा सिवलितामलिन्दत्थेरातं एवमाहंसु,– मयं पन आवुसो हत्थीनं सुखत्थाय वने विस्सज्जेम,त्वं पन अधम्मिकं करोसीति. किन्नाम भन्ते ञाभकानं सङ्गहो न वट्टति, ननु ञातकानञ्च सङ्गहोति भगवता वुत्तन्ति.

थेरा आहंसु,-सचे त्वं अम्हाकं वचनं नकरेय्यासि,भव इच्छानुरूपं करोहि, मयं पन तया सद्धिं संवासं न करिस्सामाति विसुं निसीदिंसु.

ततो पट्ठाय द्वे गणा भिज्जिंसु. ततो पच्छाकाले अतिक्कन्ते तामलिन्दत्थेरो बहुस्सुतानं ब्यत्तिबलानं सिस्सानं अनुग्गहत्थाय गहट्ठानं सन्तिके अयं बहुस्सुतो अयं महापञ्ञोति एवमादिना वचीविञ्ञत्तिं समुट्ठापेति, एवं कते कुलपुत्ता सुलभपच्चयवसेन सासनस्स हितं आवहिभुंसक्खिस्सन्तीति कत्वा. तं कारणं सुत्वा सिवलित्थेरो एवमाह,- कस्मा त्वं वचीविञ्ञत्तिं समुट्ठापेत्वा बुद्धप्पटिकुच्छितं कम्मं करोसीति. भगवता अत्तनो अत्थाययेव वचीविञ्ञत्तिं पटिक्खित्ता, अहं पन परेसंयेव अत्थाय वचीविञ्ञत्तिंसमुट्ठापेमि, नात्तनो अत्थाय, सासनस्स हि वेपुल्लत्थाय एवं वचीविञ्ञत्तिंसमुट्ठापेमि. सिवलित्थेरोपि न त्वं मम वचनं करोसि, यं यं त्वं इच्छसि, तं तं करोहि, अहं पन तया सद्धिं संवासं नकरिस्सामीति विसुं हुत्वा सद्धिं सकपक्खेन निसीदि. ततो पट्ठाय तयो गणा भिज्जिंसु.

एवं अरिमद्दननगरे अरहन्तत्थेरस्स एको वंसो, सिवलित्थेरस्स एको, तामलिन्दत्थेरस्स एको, आनन्दत्थेरस्स एकोति चत्तारो गणा अहेसुं.

तेसु अरहन्तत्थेरगणो सुधम्मपुरतो पठमं आगतत्ता पुरिमगणोति वोहारियति, अञ्ञे पन पच्छा आगतत्ता पच्छागणाति.

सिवलित्थेरो अरिमद्दननगरे यावीजीवं सासनं पग्गण्हित्वा कलियुगे नवुताधिके पञ्चवस्ससते काले कालमकासि.

आनन्दत्थेरो पन अरिमद्दननगरेयेव चतुचत्तालीस वस्सानि सासनं पग्गण्हित्वा छनवुताधिके पञ्चवस्ससते काले कालमकासि.

तामलिन्दत्थेरोपि यावजीवं सासनं पग्गण्हित्वा अट्ठन वुताधिके पञ्चवस्ससते काले कालमकासीति. अहो सङ्खारसभावोति.

सेय्यथाजगरस्सेव, नाभिया चक्कमण्डले;

लग्गो ससो समित्वापि, दिसं गच्छति तं मुखं.

तथेव सब्बसत्तापि, मच्चुचक्केसु लग्गिता;

यावजीवम्पि धावित्वा, मच्चुमुखं उपागमुन्ति.

इच्चेवं अरिमद्दनपुरे अरहन्तेहि च गन्थकारेहि च पुथुज्जनेहि जिनसासनं नभे चन्दोविय विज्जोतति.

तत्थ हि यदा अनुरुद्धराजा सुधम्मपुरतो सासनं आनेसि, तदा अरहन्ता छसतसहस्समत्ता आगता, सोतापन्नसकदागामिअनागामिनो पन गणनपथं वीति वत्ताति.

छत्तगुहिन्दस्स नाम रञ्ञो कालेपि हिमवन्ते गन्धमादनपब्बततो अट्ठ अरहन्ता पिण्डाय राजगेहं आगमंसु. राजा च पत्तं गहेत्वा पिण्डपातेन भोजेत्वा इदानि कुतो आगतत्थाभि पुच्छि. हिमवन्ते महाराज गन्ध मादनपब्बततोति. अथ राजा अतिप्पसन्नो हुत्वा इध तेमासं वस्सं उपगच्छथाति याचित्वा विहारं कारापेत्वा अदासि. तेमासम्पि अन्तोगेहे निमन्तेत्वा पिण्डपातेन भोजेसि.

एकं समयं अरहन्तानं गन्धमादनपब्बते नन्दमूलगुहं विय एकं गुहं मापेत्वा दस्सेहीति याचि. ते च अरहन्ता नन्दमूलगुहंविय एकं गुहं इद्धिया मापेत्वा दस्सेसुं. राजा च ताय गुहाय सदिसं एकं गुहं कारापेसि. नन्दमूलगुहाकारेन पन कतत्ता नन्दाति नामम्पि अकासि. इच्चेवं छत्तगुहिन्दस्स रञ्ञो काले गन्धमादनपब्बते नन्दमूलगुहतो आगन्त्वा अरहन्ता सासनं पतिट्ठापेसुं.

अरहन्तभावो च नामेस यथाभूतं जानितुं दुक्करो, अनुपसम्पन्नानं उत्तरिमनुस्सधम्मदस्सनस्स पटिक्खित्तत्ता, अरहत्तं वा पत्वापि वासनाय अप्पजहितत्ता. अरहापि हि समानो अहं अरहाति अनुपसम्पन्नानं कथेतुं न वट्टति, अरहत्तं पत्वापि एकच्चो वासनं पजहितुं न सक्का, पिलिन्दवच्छत्थेरवत्थुचेत्थ ञापकं. एवं लोके अरहन्त भावो जानितुं दुक्करो. तेनेव महाकस्सपत्थेरस्स उपट्ठाको एको भिक्खु अत्तनो उपज्झायस्स महाकस्सपत्थेरस्स सन्तिके वसित्वापि तस्स अरहन्त भावं न जानि.

महाकस्सपत्थेरञ्हि एकेन सद्धिविहारिकेन सद्धिं अरञ्ञविहारतो गामं पिण्डाय चरन्तं अन्तरामग्गे पत्ता दिपरिक्खारे गहेत्वा पच्छा गच्छन्तोयेव एकोसद्धि विहारिको एवमाह,–लोकस्मिं भन्ते अरहा अरहाति पाकटो, सुतमत्तोवाहं भवामि, न कदाचि दिट्ठपुब्बोति. तं सुत्वा थेरो पच्छा परिवत्तत्वा ओलोकेन्तो परिक्खारे आवुसो गहेत्वा अरहन्तस्स पच्छागच्छन्तोयेव अरहन्तभावं न जानातीति आहाति.

अरिमद्दननगरेपि सीलबुद्धिपोल्लोङ्कसुमेधत्थेरादयोपि अरहन्तायेव अहेसुं. नरपतिराजा हि खणित्ति पादपब्बतं गन्त्वा पच्चागमनकाले अन्तरामग्गे एकिस्सा मातिकाय मणोभासं दिस्वा इध पुञ्ञं कारेतुकामो सक्को दस्सेति मञ्ञेति मनसिकरित्वा चेतियं कारापेस्सामीति तत्थ रट्ठवासीति समं भूमिभागं कारापेसि.

अथ एको सीलबुद्धि नाम थेरो एवमाह,– पुञ्ञं महाराज करिस्समीति इदं भूमिपरिकम्मं कारापेसि, एवं कारापेन्तस्स ते अपुञ्ञंयेव भवति, नोपुञ्ञन्ति वत्वा बहू सत्ता मा किलमन्तूति मनसिकत्वा रञ्ञो दण्डकम्मेन तज्जनत्थाय रञ्ञा दिन्नं पिण्डपातं नभुञ्जि. राजा च सचे त्वं मया दिन्नं पिण्डपातं अभुञ्जितुकामो भवेय्यासि, मम विजिते वसन्तोयेव त्वं मम पिण्डपाता न मुच्चेय्यासि, रट्ठवासीहिपि दिन्नपिण्डपातो मय्हमेव सन्तको, ननु नाम मम पिण्डपातंयेव त्वं भुञ्जसीति आह.

सीलबुद्धित्थेरोपि सचे अहं एवं भवेय्यामि, सीहळदीपं गन्त्वा वसिस्सामीति चिन्तेत्वा अरञ्ञे वसि.

अथ तमत्थं जानित्वा नगरद्वारे आरक्खो एको यक्खो रञ्ञो आगतकाले अभिमुखं ठितोव भयानकरूपं निसीदि. अथ नानाविज्जाकम्मेहि अपनेन्तोपि न सक्का अपनेतुं.

अथ राजा निमित्तपाठके पक्कोसापेत्वा पुच्छि,-केन कारणेन अयं यक्खो इध निसिन्नोति. त्वं महाराज सीलबुद्धित्थेरं अगारववसेन पुब्बे कथेसि, यक्खापि थेरे अतिविय पसन्नाति अम्हेहि सुतपुब्बा, तं पटिच्च यक्खो भयानकरूपं दस्सेत्वा निसिन्नो भविस्सतीति आह.

राजापि अमच्चे आणापेसि थेरं पक्कासथाति. थेरो नागच्छि. सीहळदीपंयेव गमिस्सामीति आरभि. तमत्थं सुत्वा राजा एकं चतुरङ्गपच्चयं नाम अमच्चं पक्कोसापेत्वा त्वं गन्त्वा थेरं पक्कोसाहीति पेसेसि. चतुरङ्गपच्चयो च छेकताय एकं सुवण्णमयं बुद्धप्पटिबिम्बं नावाय ठपेत्वा महासमुद्दतित्थं अगमासि. अथ थेरं सम्पापुणित्वा इदानि इध भगवा सम्मासम्बुद्धो अगमासि, सीलबुद्धित्थेरो भगवतो सम्मासम्बुद्धस्स दस्सनत्थाय आगच्छतूति दूतं पेसेसि. थेरोपि भगवतो सम्मासम्बुद्धस्स दस्सनत्थाय आगच्छतूति वचनं पटिक्खिपितुं बुद्धगारववसेन अविसहताय आगच्छीति.

पोराणिकानंव थेरानं, बुद्धे सगारवं इध;

पण्डितो गारवं बुद्धे, करे पसन्नचेतसाति.

नावं अभिरूहित्वा थेरो भगवतो सम्मासम्बुद्धस्स वन्दनामानपूजासक्कारदीनि अकासि. थेरस्स एवं वन्दनामानपूजासक्कारादीनि करोन्तस्सेव वेगेन नावं आनेत्वा गच्छि. अथ चतुरङ्गपच्चयो एवमाह,– इदानि भन्ते तुम्हाकं आचरियस्स सम्मासम्बुद्धस्स सासनं पग्गण्हितुं युत्तोति. राजा च अमच्चेहि परिवारितो पच्चुग्गच्छि. नावाय थेरस्स हत्थे गहेत्वा राजगेहं आनेसि. द्वारं पत्तकाले यक्खो पथवियं निसीदित्वा थेरं वन्दि.

राजा राजगेहं पत्वा थेरं नानाभोजनेहि भोजेसि. एवञ्च अवोच,–अज्जतग्गे भन्ते त्वमसि ममाचरियो, भगवतोव ओवादं सिरसा पटिग्गहेत्वा अनुवत्तिस्सामाति अत्तनो पञ्चपुत्तेपि थेरस्स अदासि. ते च पञ्चकुमारा थेरेन सद्धिं अनुवत्तिंसु. थेरो ते पक्कोसेत्वा विहारं अगमासि. अन्तरामग्गे कप्पियपथवियं पञ्च परिमण्डलाकारानि लिखित्वा तेसं राजकुमारानं दस्सेत्वा निवत्तापेसि. राजकुमारा पटिनिवत्तित्वा तं कारणं रञ्ञो आरोचेसुं. राजा च तुम्हाकं पुञ्ञं कारापनत्थाय दस्सेतीति वत्वा तुलावसेन तेहि राजकुमारेहि सुवण्णं समं कत्वा तेन सुवण्णेन मूलं कत्वा भगवतो धरमानकाले पस्सेनदिकोसलरञ्ञा कारापितं चन्दनप्पटिबिम्बंविय विसुं विसुं पटिबिम्बं कारापेसि.

तेसं निधानट्ठानभूतानि पञ्च चेतियानिपि सक्को कम्म विधायको हुत्वा पतिट्ठापेसि. एत्थ च पुब्बे रञ्ञा पसीदित्वा थेरस्स राजकुमारा दिन्ना, मूलं रतनत्तयस्स दत्वा पुन राजकुमारे भूजिस्से कारेतुकामताय थेरो एवं सञ्ञं अदासीति दट्ठब्बं.

सो च सीलबुद्धित्थेरो अरहन्तगणवंसोति दट्ठब्बो.

अरिमद्दननगरेयेव नरपति रञ्ञो काले कस्सपो नाम थेरो देसचारिकं चरमानो पोल्लोङ्कनामकं देसं, तदवसरि. अथ द्वे महल्लकपोल्लोङ्का मनुस्सा थेरे अतिप्पसन्नताय द्वे पुत्ते उपट्ठाकत्थाय निय्यादेसुं.

पोल्लोङ्कमनुस्सानं अतिप्पसन्नतं पटिच्च थेरोपि पोल्लोङ्कत्थेरोति वोहारियति. यदा च पन सो थेरो सीहळदीपं गन्तुकामो अहोसि, तदा सक्को देवानमिन्दो ब्यग्घरूपं मापेत्वा पिट्ठिया याव महासमुद्दतीरं आनेसि. महासमुद्दतीरं पन पत्वा नावं अभिरूहित्वा वाणिजेहि सद्धिं तरि.

महासमुद्दमज्झे पन पत्वा सा नावा न गच्छि, निच्चलाव अट्ठासि. अथ वाणिजा मन्तेसुं,-अम्हाकं नावाय अलक्खी पापजनो अत्थि मञ्ञेति. एवं पन मन्तेत्वा सलाकादानं अकंसु. याव ततियम्पि थेरस्सेव हत्थे सलाका पुब्बे कतकम्मविपाकवसेन निपति. इदं पन थेरस्स पुब्बे कतकम्मं,-थेरो हि ततो अत्तभावतो सत्तमे भवे एकस्मिं गामे कुलदारको हुत्वा कीळनत्थाय एकं सुनखं नदियं ओतारेत्वा उदके कीळमापेसि. एवं कीळमन्तं सुनखं सयमेव उरेन उग्गहेत्वा तीरं आनेसीति एवं पुब्बे कतकम्मविपाकवसेन थेरस्सेव हत्थे सलाका निपति.

तदा वाणिजा उदकपिट्ठे खिपिंसु. अथ सक्को देवानमिन्दो कुम्भीलरूपं मापेत्वा पिट्ठियं आरोपेत्वा आनेसि. थेरो यक्खदीपं पत्वा अन्धचक्खुकानं यक्खानं मेत्तानुभावेन चक्खुं लभापेसि. यक्खा च थेरस्स गुणं ञत्वा द्वे यक्खभातिके अदंसु. थेरो च सीहळदीपं गन्त्वा महाचेतियरूपं लोहपासादरूपं सरीरधातुं महाबोधिबिजानि च आनेत्वा पच्चागमासीति.

सुमेधत्थेरो च हलङ्कस्स नाम नगरस्स दक्खिणदिसाभागे म्हत्तिपामे पुरत्थिमाय अनुदिसाय दिन्ननामिके विहारे वसि. ठानस्स पन नामवसेन थेरस्सोपि दिन्नविहारो त्वेव नामं अहोसि. सोपि थेरो पंसुकूलिको लज्जीपेसलो सिक्खाकामो झानलाभी अरहायेव. सो हि देवसिकं देवसिकं अट्ठनवयोजनप्पमाणे पादचेतियं गन्त्वा वन्दि. चेतियङ्गणवत्तञ्च अकासि. ततो आगन्त्वा म्हत्तिगामे पिण्डाय चरि. इदं थेरस्स निबद्धवत्तं.

अपरानिपि वत्थूनि बहूनि सन्ति, सब्बानि पन तानि वित्थारेत्वा वत्तब्बानिपि गन्थपारवभयेन न वक्खाम. सब्बानिपि हि वुच्चमानानि अयं सासनवंसप्पदीपिका अतिप्पपञ्चा भविस्सति.

सम्मासम्बुद्धस्स हि परिनिब्बानतो यावज्जतना थेरानं परम्परवसेन सङ्घट्टेत्वा आनयनमेवेत्थ अधिप्पेतं. यथावुत्तानि पन वत्थूनि अधुना अभिञ्ञालाभीनं पुग्गलानं अखेत्तभावेन पसङ्गञाणप्पटिबाहणत्थं अरिमद्दननगरे च बहूनं अभिञ्ञालाभीनं पुग्गलानं निवासट्ठानता दस्सनत्थं वुत्तानि. वुत्तञ्चेतं भिक्खुनीखन्धकट्ठकथायं,–

पटिसम्भिदापत्तेहि वस्ससहस्सं सुक्खविपस्सकेहि वस्ससहस्सं अनागामीहि वस्ससहस्सं सकदागामीहि वस्ससहस्सं सोतापन्नेहि वस्ससहस्सन्ति एवं पञ्चवस्ससहस्सानि पटिवेधधम्मो ठस्सतीति.

दीघनिकायट्ठकथायं पन संयुत्तनिकायट्ठकथायञ्च पटिसम्भिदापत्तेहि वस्ससहस्सं छळाभिञ्ञेहि वस्ससहस्सं तेविज्जेहि वस्ससहस्सं सुक्खविपस्सकेहि वस्ससहस्सं पातिमोक्खेन वस्ससहस्सन्ति वुत्तं.

अङ्गुत्तरनिकायट्ठकथायं पन विभङ्गकथायञ्च बुद्धानं परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततोपि असक्कोन्ता तिस्सो विज्जा निब्बत्तिंसु. गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव नयेन अनागामिनो सकदागामिनो सोतापन्नाति वुत्तं.

एवं नानानयेहि अट्ठकथायपि आगतत्ता अधुना लोके अरियपुग्गला भवितुं न सक्काति न वत्तब्बं. अरियानमेव खेत्तस्स अधुनापि सम्भवतो, सचे आरद्धविपस्सको भवेय्य सो अरहा भवितुं सक्कायेवाति निट्ठमेत्थावगन्तब्बं. अट्ठकथासु पन नानाभाणकत्थेरानं नानावादवसेन वुत्तन्ति दट्ठब्बं. एत्तकेनेव पन नानाकारेन वादो भिन्नोपि सासनं भिज्जतियेव. सासनस्स अभिन्नंयेव हि एत्थ पमाणन्ति.

एवं मरम्ममण्डले अरिमद्दननगरे अनेकेहि अरहन्तसतेहि सासनं विज्जोतति. भगवतो पन परिनिब्बानतो तिंसाधिकानं नववस्ससतानं उपरि परम्मरट्ठे सेञिलञ्ञिक्रोधिनामेन रञ्ञा समकालवसेन सीहळदीपे रज्जं पत्तस्स महानामरञ्ञो काले बुद्धघोसबुद्धदत्तत्थेरेहि पभुति तेतेमहाथेरा तेतेगन्थे अकंसु.

ततो पच्छा सतिसमाधिपञ्ञामन्दवसेन सुखावबोधनत्थं टीकायो अकंसु. अरिमद्दननगरे जिनचक्केसत्तनवुताधिके छसते सहस्से च सम्पत्ते तिण्णं पिटकानं मूलभूतेसु सद्दनयेसु सोतारानं छेकत्थाय महासमुद्देविय आनन्दो नाम महामच्छो तीसु पिटकेसु साट्ठकथेसु विलोलेत्वा अग्गवंसो नाम थेरो सद्दनीतिप्पकरणं अकासि. अरिमद्दननगरे हि उत्तराजीवत्थेरादीनं सीहळदीपं गमनतो पुब्बेयेव तयो महाथेरा परियत्तिविसारदा, महाअग्गपण्डितो, तस्स सद्धिविहारिको दुतियअग्गपण्डितो, तस्स भागिनेय्यो ततियअग्गपण्डितोति. ततियअग्गपण्डितो पन अग्गवंसोतिपि वोहारियति.

तस्मिञ्च काले अरिमद्दननगरवासिनो सद्दकोविदा बहवो सन्तीति याव लङ्कादीपा कित्तिघोसो पत्थरि. तस्मा सीहळदीपिका सद्दकोविदा वीमंसेतुकामा हुत्वा अरिमद्दननगरं आगमंसु. तदा अरिमद्दननगरवासिनो भिक्खू सद्दनीतिप्पकरणं दस्सेसु.

सीहळदीपिका च तं दिस्वा उपधारेन्ता सद्दविसये अयं गन्थोविय सीहळदीपे गन्थो इत्थि, इमस्मिं पकरणे आगतविनिच्छयम्पि सकलं न जानिम्हाति नानाप्पकारेहि थोमेसुन्ति यावज्जभना कथामग्गो न उपच्छिन्नोति.

अरिमद्दननगरे सीहळदीपं गन्त्वा पच्चागतो छप्पदो नाम सद्धम्मजोतिपालत्थेरो सद्दनये छेकताय सुत्तनिद्देसं अकासि. परमत्थधम्मे च छेकताय सङ्खेपवण्णनं नामचारदीपकञ्च. विनये छेकताय विनयगूळत्थदीपनिं सीमालङ्कारञ्च अकासि. अत्तना कथानं गन्थानं निगमे सद्धम्म जोतिपालोति मूलनामेन वुत्तं. कुसिमनगरे पन छप्पद गामे जातत्ता ठानस्स नामेन छप्पदोति पाकटो.

कुखननगरे पन छप्पदोति वोहारितोपि एको थेरो अत्थि. सो अलज्जी दुस्सीलो. एकच्चे पन नामसामञ्ञलेसमत्तेन पत्तलङ्कं सीलवन्तं पेसलं सिक्खाकामं छप्पदत्थेरं अलज्जिदुस्सीलभावेन उपवदन्ति, यथा नाम सामञ्ञलेसमत्तेन मल्लपुत्तं आयस्मन्तं दब्बं असमाचारेनाति.

अरिमद्दननगरयेव अलोङ्गचञ्ञिसूनामकस्स रञ्ञो काले महाविमलबुद्धित्थेरो चूळविमलबुद्धित्थेरोति द्वे थेरा परियत्तिविसारदा अहेसुं. तेसु महाविमलबुद्धित्थेरो कच्चायनस्स संवण्णनं न्यासगन्थमकासि.

केचि पन सीहळदीपवासी विमलबुद्धित्थेरो तमकासीति वदन्ति. चूळविमलबुद्धित्थेरो पन वुत्तोदयस्स पोराणटीकमकासि. छन्दोसारत्थविकासिनिं सद्धम्मञाणत्थेरो अकासि. वचनत्थजोतिं पन वेपुल्लत्थेरो अकासि. न्यासगन्थस्सपोराणटीकं नरपतिरञ्ञो काले एको अमच्चो अकासि.

सो हि रञ्ञो एकं ओरोधं पटिच्च जातं एकं धीतरं दिस्वा वानरोविय लेपे लग्गितो तिस्सं पटिबन्धचित्तो हुत्वा लग्गि. तमत्थं जानित्वा राजा एवमाह,– सचे एतं इच्छेय्यासि, एकं गन्थं परिपुण्णविनिच्छयं गूळत्थं करोहि, सचे त्वं तादिसं गन्थं कातुं सक्कुणेय्यासि, एतं लभिस्ससीति. अथ सो न्यासस्स संवण्णनं पोराणटीकं अकासि.

ततो पच्छा हीनायावत्तित्वा धीतरं दत्वा रज्जुग्गाहामच्चट्ठाने ठपेसि, यं मरम्मवोहारेन संप्यङ्गइति वुच्चति. तेन पन कतत्ता सोपि गन्थो तं नामेन वुच्चति. कारिकं तस्सा च संवण्णनं छत्तगुहिन्दस्स नाम रञ्ञो कालेधम्मसेनापतित्थेरो अकासि. तेन किर कारपिते नन्दगुहाय समीपे नन्दविहारे निसीदित्वा अकासि.

तस्मिञ्चकाले गन्थमादनपब्बते नन्दमूलगुहतो अरहन्ता आगन्त्वा तस्मिं विहारे वस्सं उपगच्छिंसु. तेसं सम्मुखे कतत्ता ते च गन्था पण्डितेहि सारतो पच्चेतब्बाति आचरिया वदन्ति.

वाच्चवाचकं पन धम्मदस्सी नाम सामणेरो अकासि.

सद्दत्थभेदचिन्तं पन अरिमद्दननगरसमीपे ठितस्स खणित्तिपादपब्बतस्स समीपे एकस्मिं गामे वसन्तो सद्धम्मसिरि नाम थेरो अकासि. सोयेव थेरो ब्रहजं नाम वेदसत्थम्पि मरम्मभासाय परिवत्तेसि.

एकक्खरकोसं पन सद्धम्मकित्तित्थेरो अकासि. सो हि कलियुगे सत्तासीताधिके अट्ठसते सम्पत्ते मिच्छा दिट्ठिकानं जलुमसञ्ञितानं कुलानं भयेन सकलेपि तम्बदीपरट्ठे सासनोभासो मिलायति. बहूनिपि पोत्थकानि अग्गिभयेन नस्सेसुं.

तदा तं पवत्तिं पस्सित्वा सचे परियत्तिधम्मोविनस्सेय्य, पटिपत्तिधम्मोपि नस्सिस्सति, पटिपत्तिधम्मे नस्सन्ते कुतो पटिवेधधम्मो भविस्सतीति संवेगं अपज्जित्वा इमं गन्थं अकासीति तट्टिकायं वुत्तं.

मुखमत्तसारं सागरत्थेरो अकासि.

कलियुगे एकासीताधिके पञ्चसते सम्पत्ते एकं दहरपुत्तं कालङ्कतं पटिच्च संवेगं आपज्जित्वा पच्चेकबुद्धत्तं पत्थयन्तस्स जेय्यसिङ्खनामकस्स रञ्ञो पुत्तो क्यच्वानामको राजा रज्जं कारेसि. धम्मराजातिपि नामलञ्छं पटिग्गण्हि. तीसु पन पिटकेसु यथाभूतं विजानकताय मरम्मवोहारेन क्यच्वाति वोहारियति.

सो च किर राजा पाळिअट्ठकथाटीकागन्थन्तरेसु अतिछेकताय पिटकत्तये साकच्छमत्तम्पि कातुं समत्थो नाम नत्थीति उग्गहिततिपिटको हुत्वा भिक्खुसङ्घम्पि दिवसे सत्तहि वारेहि गन्थं वाचेति.

खणित्तिपादपब्बतस्स समीपेपि एकं तळाकं कारापेत्वा तत्थ राजागारं कारापेत्वा तत्थ निसीदित्वा गन्थं वाचेति. सब्बानि पन राजूनं किच्चानि पुत्तस्सेव उपराजस्स निय्यादेसि. गन्थं उग्गण्हन्तानं ओरोधानमत्थाय सङ्खेपतो सद्दबिन्दुं नाम पकरणं परमत्थबिन्दुञ्च नाम पकरणं अकासि. तस्स हि चित्तं परियत्तियंयेव रमति. अञ्ञं पन राजकिच्चं सुणितुम्पि न इच्छि. अनुरुद्धराजा अनागते अहं राजा भवेय्यामि, तदायेव इमानि ताळिबीजानि उट्ठहन्तूति अधिट्ठहित्वा रोपेसि. तानि तस्स रञ्ञो काले उट्ठहिंसु. तेनेव अनुरुद्धराजायेवायन्ति रट्ठवासिनो सञ्जानिंसु. सम्मुतिराजा हि अनुरुद्धराजा क्यच्वाराजाति इमे तयो एकसन्तानाति वदन्ति.

सो राजा एकम्पि चेतियं अकासि, न तं निट्ठं अगमासि, परियत्तियंयेव परिचारकत्ताति राजवंसे आगतं. लोकसम्मुतिवसेन कक्खळदिने इट्ठकानि कारापेत्वा तस्मिंयेव दिने भूमिसमं कत्वा तस्मिंयेव दिने अञ्ञम्पि सब्बं कारापेसि. तेन मरम्मवोहारेन प्रस्सदा चेतियन्ति यावज्जभना पाकटं.

तस्स रञ्ञो एका धिभा विभत्यत्थं नाम गन्थं अकासीति.

पुब्बे किर अरिमद्दननगरे उग्गहधारणादिवसेन सासनं अतिविय विरूळमापज्जि. अरिमद्दननगरेयेव हि एको वुड्ढपब्बजितो भिक्खु गन्थं लिखितुं सिलालेखनदण्डेन इच्छन्तो राजगेहं पाविसि. राजा केन आगतोसीति पुच्छि. गन्थं लिखितुं सिलालेखनदण्डेन इच्छन्तो आगतो म्हीति. एवं महल्लको त्वं गन्थं महुस्साहेन परियापुणन्तोपि गन्थेसु छेकस्स ओकासं न पस्सामि, सचे हिमुसलो अङ्कुरं उट्ठापेत्वा रूहेय्य, एवं सति त्वं गन्थेसु छेकतं आपज्जेय्यासीति आह.

ततो पच्छा विहारं गन्त्वा देवसिकं देवसिकं एकदन्तकट्ठप्पमाणत्तं लेखनं उग्गहेत्वा कच्चायनअभिधम्मेत्थसङ्गहप्पकरणं आदिं कत्वा आचरियस्स सन्तिके उग्गण्हि. सो अचिरेनेव गन्थेसु छेकतं पत्वा मुसले जम्बुरुक्खङ्कुरं बन्धित्वा उस्सापेत्वा राजगेहं पाविसि.

अथ तं राजा पुच्छि,-केनआगतोसीति. अयं महारज मुसलो अङ्कुरं उट्ठापेत्वा रूहतीति आचिक्खितुं आगतोम्हीति वुत्ते राजा एतस्स गन्थेसु छेकतं पत्तोम्हीति वुत्तं होतीति जानासि. तं सच्चं वा अलिकं वाति वीमंसनत्थाय महाथेरानं सन्तिकं पहिणि. महाथेरापि गूळट्ठानं पुच्छिंसु. सोपि पुच्छितं पुच्छितं ब्याकासि.

अथ सो भिक्खु महाथेरे एवमाह,-तुम्हे भन्ते मं बहू पुच्छथ, अहम्पि तुम्हे पुच्छितुं इच्छामि, ओकासं देथाति याचित्वा अञ्ञसमानचेतसिकन्ति एत्थ अञ्ञसद्दस्स अवध्यापेक्खत्ता अवधिपदं उद्धरित्वा दस्सेथाति पुच्छि. महाथेरापि पुब्बे अमनसिकतत्ता सीघं विस्सज्जितुं न सक्खिंसु. राजा तमत्थं सुत्वा तुट्ठचित्तो हुत्वा दिसा पामोक्खनमेन आचरियट्ठाने ठपेसि. सो पन भिक्खु अगन्थकारकोपि गन्थकारकोविय पच्छिमानं जनतानं दिन्नोपदेसवसेन उपकारं कत्वा सासने उप्पज्जीति. होन्ति चेत्थ,–

अहं महल्लको होमि, दुप्पञ्ञो परियत्तिकं;

उग्गहं महुस्साहेन, न सक्खिस्सामि जानितुं.

एवञ्च नातिमञ्ञेय्य,

नाप्पोस्सुक्कतमापज्जे;

सद्धम्मे छेककामोव,

उस्साहंव करे पोसो.

वुड्ढपब्बजितो भिक्खु,

महल्लकोपि दुप्पञ्ञो;

आपज्जि छेकतं धम्मे,

तमपेक्खन्तु सोतारोति.

पुब्बे किर अरिमद्दननगरे मातुगामापि गन्थं उग्गण्हिंसु. येभुय्येन उग्गहधारणादिवसेन परियत्तिसासनं पग्गहेसुं. मातुगामा हि अञ्ञमञ्ञं पस्सन्ता तुम्हे कित्तकं गन्थं उग्गण्हथ, कित्तकं गन्थं वाचुग्गतं करोथाति पुच्छि सुन्ति.

एको किर मातुगामो एकं मातुगा,मं पुच्छि,-त्वं इदानि कित्तकं गन्थं वाचुग्गतं करोसीति. अहं पन इदानि दहरपुत्तेहि बलिबोधत्ता ब्याकुलं पत्वा बहुं गन्थं वाचुग्गतं कातुं नसक्का,समन्तमहापट्ठाने पन कुसलत्तिकमत्तंव वाचुग्गतं करोमीति आहाति.

इदम्पि अरिमद्दननगरवासीनं मातुगामानम्पि परियत्तुग्गहणे एकं वत्थु,–

एकं किर भिक्खुं पिण्डाय चरन्तं एका द्वादसवस्सिका दहरित्थी पुच्छि,-किन्नामोसि त्वं भन्तेति. खेमानामाहन्ति. कथञ्हि भन्ते पुमाव समानो इत्थिलिङ्गेन नामं अकासीति आह. अथ अन्तोगेहे निसिन्ना माता सुत्वा धीतरं आह,-त्वं राजादिगणस्स लक्खणं न जानासीति. आम जानामि, अयं पन खेमसद्दो न राजादिगणपक्खं भजतीति. अथ माता एवमाह,-अयं पन खेमसद्दो एकदेसेनेव राजादिगणपक्खं भजतीति.

अयं पनेत्थ धीतु अधिप्पायो,-न राजादिसद्दो कदाचि राजोति पच्चत्तवचनवसेन ओकारन्तो दिस्सति विना देवराजोतिआदिसमासविसयं, खेमसद्दो पन कत्थचि खेमोति च खेमन्ति च लिङ्गन्तरवसेन रूपन्तरं दिस्सति, तेनेव खेमसद्दो न राजादिगणोति वेदितब्बोति.

अयं पन मातु अधिप्पायो,-खेमसद्दो अभिधेय्यलिङ्गत्ता तिलिङ्गको,यदा पन सञ्ञासद्दाधिकारे पच्चत्तवचनवसेन खेमाति आकारन्तो दिस्सति, तदा एकदेसेन खेमसद्दो राजादिगणपक्खं भजतीति.

इदम्पि एकं वत्थु,–

अरिमद्दननगरे किर एकस्स कुटुम्बिकस्स एको पुत्तो द्वे धीतरो अहेसुं. एकस्मिञ्च काले घम्माभिभूतत्ता गेहस्स उपरितले नहायित्वा निसीदि. अथ एका दासी गेहस्स हेट्ठा ठत्वा किञ्चि कम्मं करोन्ती तस्स कुटुम्बिकस्स गुय्हट्ठानं ओलोकेसि. तमत्थं जानित्वा कुटुम्बिको साखं ओलोकेसीति एकं वाक्यं बन्धित्वा पुत्तस्स दस्सेसि,इमस्स अत्थयोजनं करोहीति. अथ पुत्तो अत्थयोजनं अकासि,-साखं रुक्खसाखं ओलेकेसि उदिक्खतीति. अथ पच्छा एकाय धीतुया दस्सेसि, इमस्स अत्थयोजनं करोहीति. सापि अत्थयोजनं अकासि,- सा सुनखो खं आकासं ओलोकेसि उदिक्खतीति. अथ पच्छा एकाय धीतुया दस्सेसि, इमस्स अत्थ योजनं करोहीति. सापि अत्थयोजनं अकासि,-सा इत्थी खं अङ्गजातं ओलोकेसि मुखं उद्धं कत्वा ओलोकेसीति.

इदम्पि एकं वत्थु,–