९६. मनानं निग्गहीतं

मकार+नकारन्तानं क्रियत्थानं निग्गहीतं होत्य+यकारे ब्यञ्जने. वग्गन्तं, गमियतीति गन्तब्बो. गमितब्बं गमनीयं. खन=खण=अवदारणे, निग्गहीतं वग्गन्तत्तञ्च, खञ्ञतेति खन्तब्बं आवाटं खनितब्बं खननीयं. हन=हिंसायं, हञ्ञतेति हन्तब्बं हनितब्बं हननीयं. मन=ञाणे, मञ्ञतेति मन्तब्बो मनितब्बो. ‘‘पदादीनं क्वची’’ति युक, चवग्गादिम्हि कते मञ्ञितब्बं मञ्ञनीयं.

पूज=पूजायं, ‘‘चुरादितो णी’’ति णिम्हि ञुकारस्स गुरुत्ता ओकारावुत्ति ‘‘युवण्णान+मेओ पच्चये’’ति एकारे पूजेतब्बो ऊम्हि अयादेसे पूजयितब्बो पूजनीयो भगवा.

कत्तरि-या=पापुणने, नीयतीति निय्यानियो मग्गो, गच्छन्तीति गमनीया भोगा. करणे-नह=सोचेय्ये, नहायन्त्य+नेनाति नहानीयं चुण्णं. सम्पदाने-दा=दाने, सं+पपुब्बो, सम्मा पदीयते अस्साति सम्पदानियो ब्राह्मणो.