४८. अनो
क्रियत्था भावकारकेसु अनो होति. नन्द=समिद्धियं, भावे-नन्दियते नन्दनं. कम्मे-अनन्दीयित्थ नन्दीयति नन्दीयिस्सति नन्दितब्बन्ति वा नन्दनं वनं. गहनं गहनीयं वा गहणं, ‘‘तथनरा’’ दिना नस्स णो. गण्हनं, निग्गहीतस्स नो. चरितब्बं चरणं. भुयते भवनं. हुयते हवनं. रुन्धितब्बं रुन्धनं रोधनं वा. भुञ्जितब्बं भुञ्जनं भोजनं वा. बुज्झितब्बं बुज्झनं, ‘‘पदादीनं क्वची’’ति युक. बोधनं वा. सुति सुय्यति वा सवनं. पापीयतीति पापुणनं, ‘‘सकापानं कुक+कू’’ति योगविभागा कुआगमे नागमे च तस्स णो च. पालीयतीति पालनं इच्चादि.
कत्तरि-रजं हरतीति रजोहरणं तोयं. विजानातीति विञ्ञाणं. घा=गन्धोपादाने, घायतीति घानं. झा=चिन्तायं, झायतीति झानं. करोति अनेनाति कारणं, दीघो. विआकरीयन्ति एतेनाति ब्याकरणं. पूरति+नेनाति पूरणं. दीयते+नेनाति दानं. पमीयते+नेनाति पमाणं. वुच्चते+नेनाति वचनं. पनुदति पनुज्जते+नेनाति वा पनुदनं. सूद=पगरणे, सूदति सुज्जते+नेनाति वा सूदनो. सुणाति सुयते+नेनेति वा सवनं. लुयति लुयते+नेनेति वा लवनं. एवं नयनं. पुनाति पुयते+नेनेति वा पवनो. समेतीति समणो समनं वा. तथा भावेति भावीयति एतायाति वा भावनं. एवं पाचनं पाचापनं इच्चादि. ‘‘अन+सणस्वा परीहि ळो’’ति ळो, आळाहनं.
अधिकरणे-तिट्ठति असिन्ति ठानं. एवं सयनं, सेनं वा आसनं. अधिकरीयति एत्थाति अधिकरणं.
सम्पदानापादानेसु-सम्मा पदीयते यस्स तं सम्पदानं. अपेच्च एतस्मा आददातीति अपादानं. बहुलाधिकारा चलनादीहिपि सीलसाधुधम्मेसुपि अनो, चलति सीलेनाति चलनो एवं जलनो, कोधनो, कोपनो. मण्ड=भुसने, मण्डेति सीलेनाति मण्डनो. एवं भूसनो. ‘‘अञ्ञात्रपी’’ति ओकारनिसेधो.