३२. सत्तम्या+धारे

कत्तुकम्मट्ठानं निसज्ज+पचनादिक्रियानं यो आधारो, तं आधारकारकं नाम. कथं कटे निसीदति देवदत्तो, थालियं ओदनं पचति, देवदत्त+तण्डुलानं कत्तु+कम्मानं धारणतो तदट्ठआसन+पचनक्रियं कट+थालियो धारेन्ति नाम, तस्मिं सत्तमीविभत्ति होति.

सो ब्यापिको, ओपसिलेसिको, वेसयिको, सामीपिकोति चतुब्बिधो. तत्थ यो आधेय्यस्स निस्सेसाधारभूतो, सो ब्यापिको, यथा तिलेसु तेलं अत्थि, खीरेसु जलं, दधिम्हि सप्पि. पच्चेकसिद्धानं भावानं यं आधेय्यभावेन उपसिलेसनं अल्लीयनं अत्थि, सो ओपसिलेसिको. यथा आसने निसिन्नो सङ्घो, थालियं ओदनं पचति, घटे उदक+मत्थि, दूरे ठितो, समीपे ठितो. यत्थ समीपे समीपीवोहारं कत्वा तदायत्ततादीपनत्थं आधारभावो उपचरीयति, तं सामीपिकं, यथा गङ्गायं घोसो, गङ्गाय समीपे वजोत्यत्थो. सावत्थियं विहरति जेतवने. यत्थ अञ्ञथाभाववसेन देसन्तरावच्छेदवसेन वा आधारपरिकप्पो, सो वेसयितो. यथा आकासे सकुणा चरन्ति, भूमियं मनुस्सा, जले मच्छा, पासादेसु पतितो, पापस्मिं रमती मनो, पसन्नो बुद्धसासने, पञ्ञाय साधु, विनये निपुणो, मातरि साधु, पितरि निपुणो.

किरिया कत्तु+कम्मट्ठा, आधारीयति येन सो;

आधारो चतुधा वुत्तो, ब्यापकादिप्पभेदतो.

ब्यापको तिलखीरादि, कटो ओपसिलेसिको;

सामीपिको तु गङ्गादि, आकासो विसयो मतो.