८. बिन्दु निग्गहीतं
अकारादीस्व+यं वण्णो बिन्दुमत्तो, सो निग्गहीतसञ्ञो होति. रस्ससरं निस्साय गहित+मुच्चारितं निग्गहीतं, करणं निग्गहेत्वा वा.
करणं निग्गहेत्वान, मुखेना+विवटेन यं;
वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.
बह्वक्खरसञ्ञाकरणं अन्वत्थसञ्ञत्थं, झ+लादयो तु रुळ्हीसञ्ञा.
वण्णा सरा सवण्णा च, रस्सा दीघा च ब्यञ्जना;
वग्गा च निग्गहीतन्ति, होति सञ्ञाविधिक्कमो.
(सञ्ञाविधानं.)
सन्धि वुच्चते –
लोक अग्गपुग्गलो, पञ्ञा इन्द्रियं, तीणि इमानि, नो हि एतं, भिक्खुनी ओवादो, मातु उपट्ठानं, समेतु आयस्मा, अभिभू आयतनं, धनं मे अत्थि, सब्बे एव, तयो अस्सु धम्मा, असन्तो एत्थ न दिस्सन्ति इती+ध सरसञ्ञायं –