४. समासकण्ड

अथ नाममेव अञ्ञमञ्ञसम्बन्धीनं समासोति नामनिस्सितत्ता, सयञ्च नामिकत्ता नामानन्तरं समासो वुच्चते.

सो च सञ्ञावसेन छब्बिधो अब्ययीभावो कम्मधारयो दिगु तप्पुरिसो बहुब्बीहि द्वन्दो चाति.

अब्ययीभावसमास

तत्र पठमं अब्ययीभावसमासो वुच्चते;

सो च निच्चसमासोति अस्सपदविग्गहो.

‘‘उपनगरं’’इतीध – उपसद्दतो पठमेकवचनं सि, तस्स उपसग्गपरत्ता ‘‘सब्बासमावुसोपसग्गनिपातादीहि चा’’ति लोपो, नगरसद्दतो छट्ठेकवचनं स, नगरस्स समीपन्ति अञ्ञपदेन विग्गहे –

‘‘नामानं समासो युत्तत्थो’’ति समासविधाने सब्बत्थ वत्तते.

३३०. उपसग्गनिपातपुब्बको अब्ययीभावो.

उपसग्गपुब्बको, निपातपुब्बको च नामिको युत्तत्थो तेहेव अत्तपुब्बकेहि उपसग्गनिपातेहि सह निच्चं समसीयते, सो च समासो अब्ययीभावसञ्ञो होति. इध अब्ययीभावादिसञ्ञाविधायकसुत्तानेव वा सञ्ञाविधानमुखेन समासविधायकानीति दट्ठब्बानि.

तत्थ अब्ययमिति उपसग्गनिपातानं सञ्ञा, लिङ्गवचनभेदेपि ब्ययरहितत्ता, अब्ययानं अत्थं विभावयतीति अब्ययीभावो अब्ययत्थपुब्बङ्गमत्ता, अनब्ययं अब्ययं भवतीति वा अब्ययीभावो. पुब्बपदत्थप्पधानो हि अब्ययीभावो, एत्थ च ‘‘उपसग्गनिपातपुब्बको’’ति वुत्तत्ता उपसग्गनिपातानमेव पुब्बनिपातो.

३३१. नामानं समासो युत्तत्थो.

तेसं नामानं पयुज्जमानपदत्थानं यो युत्तत्थो, सो समाससञ्ञो होति, तदञ्ञं वाक्यमिति रुळ्हं.

नामानि स्यादिविभत्यन्तानि, समस्सतेति समासो, सङ्खिपियतीति अत्थो.

वुत्तञ्हि

‘‘समासो पदसङ्खेपो, पदप्पच्चयसंहितं;

तद्धितं नाम होतेवं, विञ्ञेय्यं तेसमन्तर’’न्ति.

दुविधञ्चस्स समसनं सद्दसमसनमत्थसमसनञ्च, तदुभयम्पि लुत्तसमासे परिपुण्णमेव लब्भति. अलुत्तसमासे पन अत्थसमसनमेव विभत्तिलोपाभावतो, तत्थापि वा एकपदत्तूपगमनतो दुविधम्पि लब्भतेव. द्वे हि समासस्स पयोजनानि एकपदत्तमेकविभत्तित्तञ्चाति.

युत्तो अत्थो युत्तत्तो, अथ वा युत्तो सङ्गतो, सम्बन्धो वा अत्थो यस्स सोयं युत्तत्थो, एतेन सङ्गतत्थेन युत्तत्थवचनेन भिन्नत्थानं एकत्थीभावो समासलक्खणन्ति वुत्तं होति. एत्थ च ‘‘नामान’’न्ति वचनेन ‘‘देवदत्तो पचती’’तिआदीसु आख्यातेन समासो न होतीति दस्सेति. सम्बन्धत्थेन पन युत्तत्थग्गहणेन ‘‘भटो रञ्ञो पुत्तो देवदत्तस्सा’’तिआदीसु अञ्ञमञ्ञानपेक्खेसु, ‘‘देवदत्तस्स कण्हा दन्ता’’तिआदीसु च अञ्ञसापेक्खेसु अयुत्तत्थताय समासो न होतीति दीपेति.

‘‘अत्थवसा विभत्तिविपरिणामो’’ति विपरिणामेन ‘‘युत्तत्थान’’न्ति वत्तते.

३३२. तेसं विभत्तियो लोपा च.

इध पदन्तरेन वा तद्धितप्पच्चयेहि वा आयादिप्पच्चयेहि वा एकत्थीभूता युत्तत्था नाम, तेन ‘‘तेसं युत्तत्थानं समासानं, तद्धितायादिप्पच्चयन्तानञ्च विभत्तियो लोपनीया होन्ती’’ति अत्थो. समासग्गहणाधिकारे पन सति तेसंगहणेन वा तद्धितायादिप्पच्चयन्त विभत्तिलोपो. चग्गहणं ‘‘पभङ्करो’’तिआदीसु लोपनिवत्तनत्थं.

विपरिणामेन ‘‘लुत्तासु, विभत्तीसू’’ति वत्तते, युत्तत्थग्गहणञ्च.

३३३. पकति चस्स सरन्तस्स.

लुत्तासु विभत्तीसु सरन्तस्स अस्स युत्तत्थभूतस्स तिविधस्सपि लिङ्गस्स पकतिभावो होति. चसद्देन किंसमुदय इदप्पच्चयतादीसु निग्गहीतन्तस्सपि. निमित्ताभावे नेमित्तकाभावस्स इध अनिच्छितत्ता अयमतिदेसो.

सकत्थविरहेनिध समासस्स च लिङ्गभावाभावा विभत्तुप्पत्तियमसम्पत्तायं नामब्यपदेसातिदेसमाह.

३३४. तद्धितसमासकितका नामंवा’तवेतुनादीसु च.

तद्धितन्ता, कितन्ता, समासा च नाममिव दट्ठब्बा तवेतुन त्वान त्वादिप्पच्चयन्ते वज्जेत्वा. चग्गहणं किच्चप्पच्चयआईइनीइत्थिप्पच्चयन्तादिस्सपि नामब्यपदेसत्थं. इध समासग्गहणं अत्थवतं समुदायानं नामब्यपदेसो समासस्सेवाति नियमत्थन्ति अपरे.

‘‘अब्ययीभावो’’ति वत्तते.

३३५. सो नपुंसकलिङ्गो.

सो अब्ययीभावसमासो नपुंसकलिङ्गोव दट्ठब्बोति नपुंसकलिङ्गत्तं. एत्थ हि सतिपि लिङ्गातिदेसे ‘‘अधिपञ्ञ’’न्तिआदीसु ‘‘अधिञाणं’’न्तिआदि रूपप्पसङ्गो न होति सद्दन्तरत्ता, ‘‘तिपञ्ञ’’न्तिआदीसु वियाति दट्ठब्बं, न चायं अतिदेसो, सुत्ते अतिदेसलिङ्गस्स इवसद्दस्स अदस्सनतो. पुरे विय स्याद्युप्पत्ति.

‘‘क्वची’’ति वत्तते.

३३६. अं विभत्तीनमकारन्ता अब्ययीभावा.

तस्मा अकारन्ता अब्ययीभावा परासं विभत्तीनं क्वचि अं होति, सेसं नेय्यं.

तं उपनगरं, नगरस्स समीपं तिट्ठतीति अत्थो. तानि उपनगरं, आलपनेपेवं, तं उपनगरं पस्स, तानि उपनगरं.

न पञ्चम्यायमम्भावो, क्वचीति अधिकारतो;

ततियासत्तमीछट्ठी-नन्तु होति विकप्पतो.

तेन उपनगरं कतं, उपनगरेन वा, तेहि उपनगरं, उपनगरेहि वा, तस्स उपनगरं देहि, तेसं उपनगरं, उपनगरा आनय, उपनगरम्हा उपनगरस्मा, उपनगरेहि, उपनगरं सन्तकं, उपनगरस्स वा, तेसं उपनगरं, उपनगरानं वा, उपनगरं निधेहि, उपनगरम्हि उपनगरस्मिं, उपनगरं उपनगरेसु वा. एवं उपकुम्भं.

अभावे – दरथानं अभावो निद्दरथं, निम्मसकं.

पच्छाअत्थे – रथस्स पच्छा अनुरथं, अनुवातं.

योग्गतायं – यथासरूपं, अनुरूपं, रूपयोग्गन्ति अत्थो.

विच्छायं – अत्तानमत्तानं पति पच्चत्तं, अद्धमासं अद्धमासं अनु अन्वद्धमासं.

अनुपुब्बियं – जेट्ठानं अनुपुब्बो अनुजेट्ठं.

पटिलोमे – सोतस्स पटिलोमं पटिसोतं, पटिपथं, पतिवातं, अत्तानं अधिकिच्च पवत्ता अज्झत्तं.

परियादाभिविधीसु आपाणकोटिया आपाणकोटिकं, ‘‘क्वचि समासन्तगतानमकारन्तो’’ति कप्पच्चयो, आकुमारेहि यसो कच्चायनस्स आकुमारं.

समिद्धियं – भिक्खाय समिद्धीति अत्थे समासेव नपुंसकलिङ्गत्ते च कते –

‘‘समासस्स, अन्तो’’ति च वत्तते.

३३७. सरो रस्सो नपुंसके.

नपुंसके वत्तमानस्स समासस्स अन्तो सरो रस्सो होति. एत्थ च अब्ययीभावग्गहणं नानुवत्तेतब्बं, तेन दिगुद्वन्दबहुब्बीहीसुपि नपुंसके वत्तमानस्स समासन्तस्सरस्स रस्सत्तं सिद्धं होति. ‘‘अं विभत्तीन’’मिच्चादिना अमादेसो, सुभिक्खं. गङ्गाय समीपे वत्ततीति उपगङ्गं, मणिकाय समीपं उपमणिकं.

इत्थीसु अमिकिच्चाति अत्थे समासनपुंसकरस्सत्तादीसु कतेसु –

‘‘अब्ययीभावा, विभत्तीन’’न्ति च वत्तते.

३३८. अञ्ञस्मा लोपो च.

अकारन्ततो अञ्ञस्मा अब्ययीभावसमासा परासं विभत्तीनं लोपो च होति. अधित्ति, इत्थीसु अधिकिच्च कथा पवत्ततीति अत्थो. अधित्थि पस्स, अधित्थि कतं इच्चादि, एवं अधिकुमारि, वधुया समीपं उपवधु, गुन्नं समीपं उपगु, ओकारस्स रस्सत्तं उकारो. एवं उपसग्गपुब्बको.

निपातपुब्बको यथा – वुड्ढानं पटिपाटि, ये ये वुड्ढा वा यथावुड्ढं, पदत्थानतिक्कमे – यथाक्कमं, यथासत्ति, यथाबलं करोति, बलमनतिक्कमित्वा करोतीति अत्थो. जीवस्स यत्तको परिच्छेदो यावजीवं, यावतायुकं, कप्पच्चयो. यत्तकेन अत्थो यावदत्थं, पब्बतस्स परभागो तिरोपब्बतं, तिरोपाकारं, तिरोकुट्टं, पासादस्स अन्तो अन्तोपासादं, अन्तोनगरं, अन्तोवस्सं, नगरस्स बहि बहिनगरं, पासादस्स उपरि उपरिपासादं, उपरिमञ्चं, मञ्चस्स हेट्ठा हेट्ठामञ्चं, हेट्ठापासादं, भत्तस्स पुरे पुरेभत्तं, एवं पच्छाभत्तं.

साकल्लत्थे – सह मक्खिकाय समक्खिकं भुञ्जति, न किञ्चि परिवज्जेतीति अत्थो. ‘‘तेसु वुद्धी’’तिआदिना सहसद्दस्स सादेसो. गङ्गाय ओरं ओरगङ्गमिच्चादि.

अब्ययीभावसमासो निट्ठितो.

कम्मधारयसमास

अथ कम्मधारयसमासो वुच्चते.

सो च नवविधो विसेसनपुब्बपदो विसेसनुत्तरपदो विसेसनोभयपदो उपमानुत्तरपदो सम्भावनापुब्बपदो अवधारणपुब्बपदो ननिपातपुब्बपदो कुपुब्बपदो पादिपुब्बपदो चाति.

तत्थ विसेसनपुब्बपदो ताव – ‘‘महन्त पुरिस’’इतीध उभयत्थ पठमेकवचनं सि, तुल्याधिकरणभावप्पसिद्धत्थं चसद्द तसद्दप्पयोगो, महन्तो च सो पुरिसो चाति विग्गहे –

इतो परं ‘‘विभासा रुक्खतिण’’इच्चादितो ‘‘विभासा’’ति समासविधाने सब्बत्थ वत्तते.

३३९. द्विपदे तुल्याधिकरणे कम्मधारयो.

द्वे पदानि नामिकानि तुल्याधिकरणानि अञ्ञमञ्ञेन सह विभासा समस्यन्ते, तस्मिं द्विपदे तुल्याधिकरणे सति सो समासो कम्मधारयसञ्ञो च होति.

द्वे पदानि द्विपदं, तुल्यं समानं अधिकरणं अत्थो यस्स पदद्वयस्स तं तुल्याधिकरणं, तस्मिं द्विपदे तुल्याधिकरणे. भिन्नप्पवत्तिनिमित्तानं द्विन्नं पदानं विसेसनविसेसितब्बभावेन एकस्मिं अत्थे पवत्ति तुल्याधिकरणता. कम्ममिव द्वयं धारयतीति कम्मधारयो. यथा हि कम्मं क्रियञ्च पयोजनञ्च द्वयं धारयति, कम्मे सति क्रियाय, पयोजनस्स च सम्भवतो, तथा अयं समासो एकस्स अत्थस्स द्वे नामानि धारयति, तस्मिं समासे सति एकत्थजोतकस्स नामद्वयस्स सम्भवतो.

पुरे विय समाससञ्ञाविभत्तिलोपपकतिभावा, समासेनेव तुल्याधिकरणभावस्स वुत्तत्ता ‘‘वुत्तत्थानमप्पयोगो’’ति चसद्द तसद्दानमप्पयोगो.

३४०. महतं महा तुल्याधिकरणे पदे.

महन्त सद्दस्स महा होति तुल्याधिकरणे उत्तरपदे परे. महतन्ति बहुवचनग्गहणेन क्वचि महआदेसो च, एत्थ च विसेसनस्स पुब्बनिपातो विसेसनभूतस्स पुब्बपदस्स महादेसविधानतोव विञ्ञायति.

‘‘कम्मधारयो, दिगू’’ति च वत्तते.

३४१. उभे तप्पुरिसा.

उभे कम्मधारयदिगुसमासा तप्पुरिससञ्ञा होन्ति.

तस्स पुरिसो तप्पुरिसो, तप्पुरिससदिसत्ता अयम्पि समासो अन्वत्थसञ्ञाय तप्पुरिसोति वुत्तो. यथा हि तप्पुरिससद्दो गुणमतिवत्तो, तथा अयं समासोपि. उत्तरपदत्थप्पधानो हि तप्पुरिसोति. ततो नामब्यपदेसो स्याद्युप्पत्ति. अयं पन तप्पुरिसो अभिधेय्यवचनो, परलिङ्गो च.

महापुरिसो, महापुरिसा इच्चादि पुरिससद्दसमं, एवं महावीरो, महामुनि, महन्तञ्च तं बलञ्चाति महाबलं, महब्भयं, महआदेसो. सन्तो च सो पुरिसो चाति सप्पुरिसो, ‘‘सन्तसद्दस्स सो भे बो चन्ते’’ति एत्थ चसद्देन सन्तसद्दस्स समासे अभकारेपि सादेसो, तथा पुब्बपुरिसो, परपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, दन्तपुरिसो, परमपुरिसो, वीरपुरिसो, सेतहत्थी, कण्हसप्पो, नीलुप्पलं, लोहितचन्दनं.

क्वचि विभासाधिकारतो न भवति, यथा – पुण्णो मन्तानिपुत्तो, चित्तो गहपति, सक्को देवराजाति.

पुमा च सो कोकिलो चाति अत्थे समासे कते –

‘‘लोप’’न्ति वत्तते.

३४२. पुमस्स लिङ्गादीसु समासेसु.

पुमइच्चेतस्स अन्तो अकारो लोपमापज्जते लिङ्गादीसु परपदेसु समासेसु, ‘‘अंमो निग्गहीतं झलपेही’’ति मकारस्स निग्गहीतं. पुङ्कोकिलो. एवं पुन्नागो.

खत्तिया च सा कञ्ञा चाति विग्गय्ह समासे कते –

‘‘तुल्याधिकरणे, पदे, इत्थियं भासितपुमित्थी पुमाव चे’’ति च वत्तते.

३४३. कम्मधारयसञ्ञे च.

कम्मधारयसञ्ञे च समासे इत्थियं वत्तमाने तुल्याधिकरणे उत्तरपदे परे पुब्बभूतो इत्थिवाचको सद्दो पुब्बे भासितपुमा चे, सो पुमा इव दट्ठब्बोति पुब्बपदे इत्थिप्पच्चयस्स निवत्ति होति.

खत्तियकञ्ञा, खत्तियकञ्ञायो इच्चादि. एवं रत्तलता, दुतियभिक्खा, ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, नागमाणविका.

पुब्बपदस्सेवायं पुम्भावातिदेसो, तेन ‘‘खत्तियकुमारी कुमारसमणी तरुणब्राह्मणी’’तिआदीसु उत्तरपदेसु इत्थिप्पच्चयस्स न निवत्ति होति.

इत्थियमिच्चेव किं? कुमारीरतनं, समणीपदुमं.

भासितपुमाति किं? गङ्गानदी, तण्हानदी, पथवीधातु. ‘‘नन्दापोक्खरणी, नन्दादेवी’’तिआदीसु पन सञ्ञासद्दत्ता न होति.

तथा पुरत्थिमो च सो कायो चाति पुरत्थिमकायो, एत्थ च कायेकदेसो कायसद्दो. एवं पच्छिमकायो, हेट्ठिमकायो, उपरिमकायो, सब्बकायो, पुराणविहारो, नवावासो, कतरनिकायो, कतमनिकायो, हेतुप्पच्चयो, अबहुलं बहुलं कतन्ति बहुलीकतं, जीवितप्पधानं नवकं जीवितनवकं इच्चादि.

विसेसनुत्तरपदे जिनवचनानुपरोधतो थेराचरियपण्डितादि विसेसनं परञ्च भवति. यथा – सारिपुत्तो च सो थेरो चाति सारिपुत्तत्थेरो. एवं महामोग्गल्लानत्थेरो, महाकस्सपत्थेरो, बुद्धघोसाचरियो, धम्मपालाचरियो, आचरियगुत्तिलोति वा, महोसधो च सो पण्डितो चाति महोसधपण्डितो. एवं विधुरपण्डितो, वत्थुविसेसो.

विसेसनोभयपदो यथा – सीतञ्च तं उण्हञ्चाति सीतुण्हं, सिनिद्धो च सो उण्हो चाति सिनिद्धुण्हो, मासो. खञ्जो च सो खुज्जो चाति खञ्जखुज्जो. एवं अन्धबधिरो, कताकतं, छिद्दावछिद्दं, उच्चावचं, छिन्नभिन्नं, सित्तसम्मट्ठं, गतपच्चागतं.

उपमानुत्तरपदे अभिधानानुरोधतो उपमानभूतं विसेसनं परं भवति. यथा – सीहो विय सीहो, मुनि च सो सीहो चाति मुनिसीहो. एवं मुनिवसभो, मुनिपुङ्गवो, बुद्धनागो, बुद्धादिच्चो, रंसि विय रंसि, सद्धम्मो च सो रंसि चाति सद्धम्मरंसि. एवं विनयसागरो, पुण्डरीकमिव पुण्डरीको, समणो च सो पुण्डरीको चाति समणपुण्डरीको, समणपदुमो. चन्दो विय चन्दो, मुखञ्च तं चन्दो चाति मुखचन्दो. एवं मुखपदुमं इच्चादि.

सम्भावनापुब्बपदो यथा – धम्मो इति बुद्धि धम्मबुद्धि. एवं धम्मसञ्ञा, धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्ञिता, असुभसञ्ञा, अनिच्चसञ्ञा, अनत्तसञ्ञा, धातुसञ्ञा, धीतुसञ्ञा, अत्तसञ्ञा, अत्थिसञ्ञा, अत्तदिट्ठि इच्चादि.

अवधारणपुब्बपदो यथा – गुणो एव धनं गुणधनं. एवं सद्धाधनं, सीलधनं, पञ्ञाधनं, चक्खु एव इन्द्रियं चक्खुन्द्रियं. एवं चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मणमिच्चादि.

ननिपातपुब्बपदो यथा – न ब्राह्मणोति अत्थे कम्मधारयसमासे, विभत्तिलोपादिम्हि च कते –

‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्ञा.

३४४. अत्तं नस्स तप्पुरिसे.

नस्स निपातपदस्स तप्पुरिसे उत्तरपदे परे सब्बस्सेव अत्तं होति. तप्पुरिसेकदेसत्ता तप्पुरिसो, अब्राह्मणो.

न निसेधो सतो युत्तो,

देसादिनियमं विना;

असतो चाफलो तस्मा,

कथमब्राह्मणोति चे?

निसेधत्थानुवादेन, पटिसेधविधि क्वचि;

परस्स मिच्छाञाणत्ता-ख्यापनायोपपज्जते.

दुविधो चस्सत्थो पसज्जप्पटिसेधपरियुदासवसेन.

तत्थ यो ‘‘असूरियपस्सा राजदारा’’तिआदीसु विय उत्तरपदत्थस्स सब्बथा अभावं दीपेति, सो पसज्जप्पटिसेधवाची नाम. यो पन ‘‘अब्राह्मण अमनुस्सा’’तिआदीसु विय उत्तरपदत्थं परियुदासित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति, सो परियुदासवाची नाम.

वुत्तञ्च

‘‘पसज्जप्पटिसेधस्स, लक्खणं वत्थुनत्थिता;

वत्थुतो अञ्ञत्र वुत्ति, परियुदासलक्खण’’न्ति.

नन्वेवं सन्तेपि ‘‘अब्राह्मणो’’तिआदीसु कथमुत्तरपदत्थप्पधानता सियाति?

वुच्चते – ब्राह्मणादिसद्दानं ब्राह्मणादिअत्थस्सेव तंसदिसादिअत्थस्सापि वाचकत्ता, ब्राह्मणादिसद्दा हि केवलाब्राह्मणादिअत्थेस्वेव पाकटा, भूसद्दो वियसत्तायं, यदा ते पन अञ्ञेन सदिसादिवाचकेन नइति निपातेन युज्जन्ति, तदा तंसदिसतदञ्ञतब्बिरुद्धतदभावेसुपि वत्तन्ति, भूसद्दो विय अन्वभियादियोगे अनुभवनअभिभवनादीसु, तस्मा उत्तरपदत्थजोतकोयेवेत्थ नइति निपातोति न दोसो, तेन अब्राह्मणोति ब्राह्मणसदिसोति वुत्तं होति. एवं अमनुस्सो, अस्समणो.

अञ्ञत्थे – न ब्याकता अब्याकता, असंकिलिट्ठा, अपरियापन्ना.

विरुद्धत्थे – न कुसला अकुसला, कुसलपटिपक्खाति अत्थो. एवं अलोभो, अमित्तो.

पसज्जप्पटिसेधे – न कत्वा अकत्वा, अकातुन पुञ्ञं अकरोन्तो.

‘‘नस्स, तप्पुरिसे’’ति च वत्तते.

३४५. सरे अन.

नइच्चेतस्स पदस्स तप्पुरिसे उत्तरपदे अन होति सरे परे.

न अस्सो अनस्सो, न अरियो अनरियो. एवं अनिस्सरो, अनिट्ठो, अनुपवादो, न आदाय अनादाय, अनोलोकेत्वा इच्चादि.

कुपुब्बपदो यथा – कुच्छितमन्नन्ति निच्चसमासत्ता अञ्ञपदेन विग्गहो, कम्मधारयसमासे कते –

‘‘तप्पुरिसे, सरे’’ति च वत्तते.

३४६. कदद कुस्स.

कुइच्चेतस्स निपातस्स तप्पुरिसे उत्तरपदे कद होति सरे परे. कदन्नं. एवं कदसनं.

सरेति किं? कुदारा, कुपुत्ता, कुदासा, कुदिट्ठि.

‘‘कुस्सा’’ति वत्तते.

३४७. काप्पत्थेसु च.

कुइच्चेतस्स अप्पत्थे वत्तमानस्स का होति तप्पुरिसे उत्तरपदे परे. बहुवचनुच्चारणतो कुच्छितत्थे च क्वचि तप्पुरिसे. अप्पकं लवणं कालवणं. एवं कापुप्फं, कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा.

पादिपुब्बपदो च निच्चसमासोव, पधानं वचनं पावचनं, भुसं वद्धं पवद्धं, सरीरं, समं, सम्मा वा आधानं समाधानं, विविधा मति विमति, विविधो कप्पो विकप्पो, विसिट्ठो वा कप्पो विकप्पो, अधिको देवो अतिदेवो. एवं अधिदेवो, अधिसीलं, सुन्दरो गन्धो सुगन्धो, कुच्छितो गन्धो दुग्गन्धो, सोभनं कतं सुकतं, असोभनं कतं दुक्कटं इच्चादि.

ये इध अविहितलक्खणा नामनिपातोपसग्गा, तेसं ‘‘नामानं समासो’’ति योगविभागेन समासो दट्ठब्बो. यथा – अपुनगेय्या गाथा, अचन्दमुल्लोकिकानि मुखानि, अस्सद्धभोजी, अलवणभोजीतिआदीसु अयुत्तत्थत्ता नाञ्ञेन समासो.

तथा दिट्ठो पुब्बन्ति दिट्ठपुब्बो तथागतं. एवं सुतपुब्बो धम्मं, गतपुब्बो मग्गं, कम्मनि दिट्ठा पुब्बन्ति दिट्ठपुब्बा देवा तेन. एवं सुतपुब्बा धम्मा, गतपुब्बा दिसा, पहारो, पराभवो, विहारो, आहारो, उपहारो इच्चादि.

कम्मधारयसमासो.

दिगुसमास

अथ दिगुसमासो वुच्चते.

तयो लोका समाहटा चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा अत्थे –

‘‘नामानं समासो युत्तत्थो’’ति वत्तमाने ‘‘द्विपदे’’तिआदिना कम्मधारयसमासो, ततो समाससञ्ञायं, विभत्तिलोपे, पकतिभावे च कते –

‘‘कम्मधारयो’’ति वत्तते.

३४८. सङ्ख्यापुब्बो दिगु.

सङ्ख्यापुब्बो कम्मधारयसमासो दिगुसञ्ञो होति.

द्वे गावो दिगु, दिगुसदिसत्ता अयम्पि समासो दिगूति वुत्तो. अथ वा सङ्ख्यापुब्बत्तनपुंसकेकत्तसङ्खातेहि द्वीहि लक्खणेहि गतो अवगतोति दिगूति वुच्चति, द्वीहि वा लक्खणेहि गच्छति पवत्ततीति दिगु. एत्थ च ‘‘सङ्ख्यापुब्बो’’ति वुत्तत्ता सङ्ख्यासद्दस्सेव पुब्बनिपातो, ‘‘उभे तप्पुरिसा’’ति तप्पुरिससञ्ञा.

‘‘नपुंसकलिङ्गो’’ति वत्तते.

३४९. दिगुस्सेकत्तं.

दिगुस्स समासस्स एकत्तं होति, नपुंसकलिङ्गत्तञ्च.

समाहारदिगुस्सेतं गहणं, तत्थ सब्बत्थेकवचनमेव होति, अञ्ञत्र पन बहुवचनम्पि, नामब्यपदेसस्याद्युप्पत्ति अमादेसादि.

तिलोकं, हे तिलोक, तिलोकं, तिलोकेन, तिलोकस्स, तिलोका तिलोकस्मा तिलोकम्हा, तिलोकस्स, तिलोके तिलोकम्हि तिलोकस्मिं.

एवं तयो दण्डा तिदण्डं, तीणि मलानि समाहटानि, तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुस्सच्चं, चतस्सो दिसा चतुद्दिसं, ‘‘सरो रस्सो नपुंसके’’ति रस्सत्तं, पञ्चसिक्खापदं, सळायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं.

तथा – द्वे रत्तियो द्विरत्तं, तिस्सो रत्तियो तिरत्तं, द्वे अङ्गुलियो द्वङ्गुलं, सत्त गोदावरियो, तासं समाहारोति वा सत्तगोदावरं.

एत्थ च रत्ति अङ्गुलि गोदावरीनमन्तस्स –

३५०. क्वचि समासन्तगतानमकारन्तो.

राजादिगणस्सेतं गहणं, तेन समासन्तगतानं राजादीनं नामानं अन्तो क्वचि अकारो होतीति अत्थो. कारग्गहणेन बहुब्बीहादिम्हि समासन्ते क्वचि कप्पच्चयो होति, सुरभि सु दु पूतीहि गन्धन्तस्सिकारो च.

अथ वा अ च को च अका, रकारो पदसन्धिकरो, तेन क्वचि समासन्तगतानमन्तो हुत्वा अ क इच्चेते पच्चया होन्तीति अत्थो. तेन पञ्च गावो समाहटाति अत्थे समासादिं कत्वा समासन्ते अप्पच्चये, ‘‘ओ सरे चा’’ति अवादेसे च कते ‘‘पञ्चगव’’न्तिआदि च सिज्झति. ‘‘द्विरत्त’’न्तिआदीसु पन अप्पच्चये कते पुब्बसरस्स ‘‘सरलोपो’’तिआदिना लोपो.

असमाहारदिगु यथा – एको च सो पुग्गलो चाति एकपुग्गलो. एवं एकधम्मो, एकपुत्तो, तयो भवा तिभवा, चतस्सो दिसा चतुद्दिसा, दससहस्सचक्कवाळानि इच्चादि.

दिगुसमासो.

तप्पुरिससमास

अथ तप्पुरिससमासो वुच्चते.