नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

जिनालङ्कार

पणामदीपनीगाथा

१. यो लोकत्थाय बुद्धो धनसुतभरियाअङ्गजीवे चजित्वा पूरेत्वा आरमियो तिदसमनुपमे बोधिपक्खीयधम्मे,

पत्वा बोधिं विसुद्धं सकलगुणददं सेट्ठभूतो तिलोके,

कत्वा दुक्खस्स अन्तं कतसुभजनतं दुक्खतो मोचयित्थ.

२. नत्वानाहं जिनन्तं समुपचितसुभं सब्बलोकेकबन्धुं,

नाहु येनपि तुल्यो कुसलमहिमतो उत्तमो भूतलोके तस्सेवायं उविम्हं सुविपुलममलं बोधिसम्भारभूतं,

हेतुं हेत्वानुरूपं सुगतगतफलं भासतो मे सुणाथ.

योगावचरसम्पत्तिदीपनीगाथा

३. जातो यो नवमे खणे सुतधरो सीलेन सुद्धिन्द्रियो संसारं अयतो भवक्कयकरं दिस्वा सिवं खेमतो,

तं सम्पापकमग्गदेसकमुनिं सम्पूजयन्तो ततो उद्धानुस्सतिभावनादिकमतो सम्पादये तं सिवं.

वत्थुविसोधनीगाथा

४. बुद्धोति को बुद्धगुणो ति को सो,

अचिन्तयादित्तमुपागतो यो;

अनञ्ञसाधारणभूतमत्थं,

अकासि किं सो किमवोच बुद्धो.

५. विसुद्धखन्धसन्तानो बुद्धोति नियमो कतो,

खन्धसन्तानसुद्धी तु गुणोति नियमो कतो.

६. अकासि किच्चानि दिनेसु पञ्च,

पसादयञ्चिद्धिबलेन सेन;

जनानसेसं चरियानुकूलं,

ञत्वानवोचानुसयप्पहानं.

अनञ्ञसाधारणदीपनीगाथा

७. अब्भुग्गता यस्स गुणा अनन्ता,

तिबुद्धखेत्तेकदिवाकरोति;

जानाति सो लोकमिमं परञ्च,

सचेतनञ्चेव अचेतनञ्च;

सकस्स सन्तानगतं परेसं,

ब्यतीतमप्पत्तकमत्रभूतं.

८. अनन्तसत्तेसु च लोकधातुसु,

एकोव सब्बेपि समा न तेन;

दिसासु पुब्बादिसु चक्कवाळा,

सहस्ससङ्खायपि अप्पमेय्या;

ये तेसु देवा मनुजा च ब्रह्मा,

एकत्थ सङ्गम्म हि मन्तयन्ता.

९. अनादिकालागतनामरूपिनं,

यथासकं हेतुफलत्तवुत्तिनं;

तब्भावभावित्तमसम्भुणन्ता,

नानाविपल्लासमनुपविट्ठा.

१०. कम्मप्पवत्तिञ्च फलप्पवत्तिं,

एकत्तनानत्तनिरीहधम्मतं;

विञ्ञत्तिसन्तानघनेन छन्नतो,

सिवञ्जसं नो भणितुं समत्था.

११. एको व सो सन्तिकरो पभङ्करो,

सङ्खाय ञेय्यानि असेसितानि;

तेसञ्हि मज्झे परमासम्भीवदं,

सिवञ्जसं दीपयितुं समत्थो.

१२. सो गोतमो सक्यसुतो मुनिन्दो,

सब्बस्स लोकस्स पदीपभूतो;

अनन्तसत्ते भवबन्धनम्हा,

मोचेसि कारुञ्ञफलानुपेक्खी.

अभिनीहारदीपनीगाथा

१३. वदेथ तस्सीध अनप्पकं गुणं,

न तेन तुल्यो परमो च विज्जति;

किं तं गुणं तं सदिसेन दिन्नं,

सयंकतं किन्नु अधिच्चलद्धं.

१४. नाधिच्चलद्धं न च पुब्बबुद्धा,

ब्रह्मादिनं सम्मुतिया बहूनं;

सयंकतेनेव अनोपमेन,

दानादिना लद्धमिदं विपाकं.

१५. इतो चतुन्नं असङ्खियानं,

सतंसहस्सानधिकानमत्थके;

कप्पे अतीतम्हि सुमेधतापसो,

वेहायसं गच्छति इद्धिया तदा.

१६. दिपङ्करो नाम जिनो ससङ्घो,

रम्मं पुरं याति विरोचमानो;

मनुस्सदेवेहिभिपूजियन्तो,

सहस्सरंसि विय भाणुमा नभे.

१७. तस्सञ्जसं कातुबहुस्सहानं,

बुद्धोति सुत्वा सुमनो पतीतो;

ममज्ज देहं पनिमस्स दत्वा,

बुद्धो अहं हेस्समनागतेदिसो.

१८. तस्मिञ्जसे कन्दरतम्हि पङ्के,

कत्वान सेतुं सयि सो सदेहं;

बुद्धो अयं गच्छतु पिट्ठिया ममं,

बोधिस्सचे हेस्सति मे अनागते.

१९. उस्सीसकं याति जिनो हि तस्स,

अज्झासयो सिज्झतिमस्सनागते;

ञत्वान ब्याकासि असेसतो हि,

बुद्धो अयं हेस्सतिनागतेसु.

२०. सुत्वान पत्तो व महाभिसेकं,

लद्धं व बोधिं समनुस्सरन्तो;

पूजेत्वा याते मुनिदेवमानुसे,

उट्ठाय सो सम्मसि पारमी दस.

२१. दळ्हं गहेत्वा समतिंसपारमी,

सिक्खत्तयञ्चस्स जिनस्स सन्तिके;

कातुं समत्थो पि भवस्स पारं,

सत्तेसु कारुञ्ञबला भवं गतो.

२२. उप्पन्नुप्पन्नके सो जिनवरमतुले पूजयित्वा असेसं बुद्धो एसो हि ओसो भवति नियमतो ब्याकतो तेहि तेहि तेसं तेसं जिनानं अचनमनुपमं पूजयित्वा सिरेन,

तं तं दुक्खं सहित्वा सकलगुणददं पारमी पूरयित्थ.

बोधिसम्भारदीपनीगाथा

२३. सो दुक्खखिन्नजनदस्सनदुक्खखिन्नो,

कारुञ्ञमेव जनताय अकासि निच्चं;

तेसं हि मोचनमुपायमिदन्ति ञत्वा,

तादीपराधमपि अत्तनि रोपयी सो.

२४. दानादिनेकवरपारमिसागरेसु,

ओगाळ्हतायपि पदुट्ठजनेन दिन्नं;

दुक्खं तथा अतिमहन्ततरम्पि किञ्चि,

नाञ्ञासि सत्तहितमेवेअ गवेसयन्तो.

२५. छेत्वान सीसं हि सकं ददन्तो,

मंसं पचित्वान सकं ददन्तो;

सो चत्तगत्तो पणिधानकाले,

दुट्ठस्स किं दुस्सति छेदनेन.

२६. एवं अनन्तमपि जातिसतेसु दुक्खं,

पत्वान सत्तहितमेव गवेसयन्तो;

दीपङ्करे गहितसीलसमाधिपञ्ञं,

पालेसि याव सकबोधितले सुनिट्ठो.

२७. यदाभिनीहारमका सुमेधो,

यदा च मद्दिं अददा सिविन्दो;

एत्थन्तरे जातिसु किञ्चिपेकं,

निरत्थकं नो अगमासि तस्स.

२८. महासमुद्दे जलबिन्दुतोपि,

तदन्त्रे जाति अनप्पका व;

निरन्तरं पूरितपारमीनं,

कथं पमाणं उपमा कुहिं वा.

२९. यो मग्गपस्से मधुरम्बबीजं,

छायाफलत्थाय महाजनानं;

रोपेसि तस्मिं हि खणेव तेन,

छायाफले पुञ्ञमलद्धमुद्धं.

३०. तथेव संसारपथे जनानं,

हिताय अत्तनमभिरोपितक्खणे;

सिद्धं व पुञ्ञूपरि तस्स तस्मिं,

धनङ्गजीवं पि हरन्ति ये ये.

३१. सो सागरे जलधिकं रुहिरं अदासि,

भूमापराजिय समंसमदासि दानं;

मेरुप्पमाणमधिकञ्च समोळिसीसं,

खे तारकाधिकतरं नयनं अदासि.

गब्भोक्कन्तिदीपनीगाथा

३२. गम्भीरपानदानादिसागरेसु हि थामसा;

तरन्तो मद्दिदानेन निट्ठापेत्वान पारमी.

३३. वसन्तो तुसीते काये बोधिपरिपाकमागम्म;

आयाचनाय च देवानं मातुगब्भमुपागमि.

३४. सतो च सम्पजानो च मातुकुच्छिम्हि ओक्कमि;

तस्स ओक्कन्तियं सब्बा दससहस्सी पकम्पित्थ.

३५. ततो पुब्बनिमित्तानि द्वत्तिंसानि तदा सियुं;

तुट्ठहट्ठा व सा माता पुत्तं पस्सति कुच्छियं.

विजायनमङ्गलदीपनीगाथा

३६. सा पुण्णगब्भा दसमासतो परं,

गन्त्वान फुल्लं वरलुम्बिनीवनं;

ठिता गहेत्वा वरसालसाखं,

विजायि तं पुत्तवरं सुखेन.

३७. तदा सहस्सीदसलोकधातुसु,

देवा च नागा असुरा च यक्खा;

नानादिसा मङ्गलचक्कवाळं,

सुमङ्गलं मङ्गलमागमिंसु.

३८. अनेकसाखञ्च सहस्समण्डलं,

छत्तं मरू धारयुमन्तलिक्खे;

सुवण्णदण्डा विपतन्ति चामरा,

खज्जिंसु भेरी च नदिंसु सङ्खा.